कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणम्
द्वितीयाष्टके सप्तमः प्रपाठकः

अष्टक २ प्रपाठक ७
सवा एकाहविशेषाः

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
त्रि॒वृथ्स्तोमो॑ भवति⁠। ब्र॒ह्म॒व॒र्च॒सव्ँवै त्रि॒वृत्⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे⁠॥ अ॒ग्नि॒ष्टो॒मः सोमो॑ भवति⁠। ब्र॒ह्म॒व॒र्च॒सव्ँवा अ॑ग्निष्टो॒मः⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे⁠॥ र॒थ॒तंर॒ꣳ साम॑ भवति⁠। ब्र॒ह्म॒व॒र्च॒सव्ँवै र॑थन्त॒रम्⁠। ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे⁠॥ प॒रि॒स्र॒जी होता॑ भवति⁠ ॥ [१] (१०) अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः⁠। ए॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम्⁠। रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे⁠॥ बृह॒स्पति॑रकामयत दे॒वानां᳚ पुरो॒धां ग॑च्छेय॒मिति॑⁠। स ए॒तं बृ॑हस्पतिस॒वम॑पश्यत्⁠। तमाऽह॑रत्⁠। तेना॑यजत⁠। ततो॒ वै स दे॒वानां᳚ पुरो॒धाम॑गच्छत्⁠। यः पु॑रो॒धाका॑मः॒ स्यात्⁠। स बृ॑हस्पतिस॒वेन॑ यजेत⁠ ॥ [२] (१०) पु॒रो॒धामे॒व ग॑च्छति⁠॥ तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑⁠। एका॑दश॒ दख्‍षि॑णा नीयन्ते⁠। एका॑दश॒ माद्ध्य॑दिंने॒ सव॑ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑⁠। एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒ꣳ॒सेषु॑⁠। त्रय॑स्त्रिꣳश॒थ्संप॑द्यन्ते⁠। त्रय॑स्त्रिꣳश॒द् वै दे॒वताः᳚⁠। दे॒वता॑ ए॒वाव॑रुन्धे⁠॥ अश्व॑श्चतुस्त्रि॒ꣳ॒शः⁠। प्रा॒जा॒प॒त्यो वा अश्वः॑⁠ ॥ [३] (१०) प्र॒जाप॑तिश्चतुस्त्रि॒ꣳ॒शो दे॒वता॑नाम्⁠। याव॑तीरे॒व दे॒वताः᳚⁠। ता ए॒वाव॑रुन्धे⁠॥ कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति⁠। ब्रह्म॑णो॒ वा ए॒तद्रू॒पम्⁠। यत् कृ॑ष्णाजि॒नम्⁠। ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒ꣳ॒ सम॑द्‌र्धयति⁠॥ आज्ये॑ना॒भिषि॑ञ्चति⁠। तेजो॒ वा आज्य᳚म्⁠। तेज॑ ए॒वास्मि॑न् दधाति⁠ ॥ [४] (१०) (होता॑ भवति यजेत॒ वा अश्वो॑ दधाति) ॥१॥
यदा᳚ग्ने॒यो भव॑ति⁠। अ॒ग्निमु॑खा॒ ह्यृद्धिः॑⁠॥ अथ॒ यत् पौ॒ष्णः⁠। पुष्टि॒र्वै पू॒षा⁠। पुष्टि॒र्वैश्य॑स्य⁠। पुष्टि॑मे॒वाव॑रुन्धे⁠॥ प्र॒स॒वाय॑ सावि॒त्रः⁠॥ अथ॒ यत् त्वा॒ष्ट्रः⁠। त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑⁠॥ नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः⁠ ॥ [५] (१०) अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚⁠। स हि वा॑रु॒णः⁠॥ अथ॒ यद् वै᳚श्वदे॒वः⁠। वै॒श्व॒दे॒वो हि वैश्यः॑⁠॥ अथ॒ यन् मा॑रु॒तः⁠। मा॒रु॒तो हि वैश्यः॑⁠॥ स॒प्तैतानि॑ ह॒वीꣳषि॑ भवन्ति⁠। स॒प्तग॑णा॒ वै म॒रुतः॑⁠॥ पृश्निः॑ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते⁠। विड्वै म॒रुतः॑⁠॥ विश॑ ए॒वैतन्म॑द्ध्य॒तो॑ऽभिषि॑च्यते⁠। तस्मा॒द् वा ए॒ष वि॒शः प्रि॒यः⁠। वि॒शो हि म॑द्ध्य॒तो॑ऽभिषि॒च्यते᳚⁠॥ ऋ॒ष॒भ॒च॒र्मेऽद्ध्य॒भिषि॑ञ्चति⁠। स हि प्र॑जनयि॒ता⁠॥ द॒द्ध्नाऽभिषि॑ञ्चति⁠। ऊर्ग्वा अ॒न्नाद्यं॒ दधि॑⁠। ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑द्‌र्धयति⁠ ॥ [६] (१८) (वा॒रु॒णो विड्वै म॒रुतो॒ऽष्टौ च॑) ॥२॥
ब्राह्मणसवः
यदा᳚ग्ने॒यो भव॑ति⁠। आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः⁠॥ अथ॒ यथ् सौ॒म्यः⁠। सौ॒म्यो हि ब्रा᳚ह्म॒णः⁠॥ प्र॒स॒वायै॒व सा॑वि॒त्रः⁠॥ अथ॒ यद् बा॑र्‌हस्प॒त्यः⁠। ए॒तद्वै ब्रा᳚ह्म॒णस्य॑ वाक्प॒तीय᳚म्⁠॥ अथ॒ यद॑ग्नीषो॒मीयः॑⁠। आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः⁠। तौ य॒दा स॒गंच्छे॑ते⁠ ॥ [७] (१०) अथ॑ वी॒र्या॑वत्तरो भवति⁠॥ अथ॒ यथ् सा॑रस्व॒तः⁠। ए॒तद्धि प्र॒त्यख्‍षं॑ ब्राह्म॒णस्य॑ वाक्प॒तीय᳚म्⁠॥ नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः⁠। अथो॒ य ए॒व कश्च॒ सन्थ्सू॒यते᳚⁠। स हि वा॑रु॒णः⁠॥ अथ॒ यद् द्या॑वापृथि॒व्यः॑⁠। इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत्⁠। तं द्यावा॑पृथि॒वी नान्व॑मन्येताम्⁠। तमे॒तेनै॒व भा॑ग॒धेये॒नान्व॑मन्येताम्⁠ ॥ [८] (१०) वज्र॑स्य॒ वा ए॒षो॑ऽनुमा॒नाय॑⁠। अनु॑मतवज्रः सूयाता॒ इति॑⁠॥ अ॒ष्टावे॒तानि॑ ह॒वीꣳषि॑ भवन्ति⁠। अ॒ष्टाख्‍ष॑रा गाय॒त्री⁠। गा॒य॒त्री ब्र॑ह्मवर्च॒सम्⁠। गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒समव॑रुन्धे⁠॥ हिर॑ण्येन घृ॒तमुत् पु॑नाति⁠। तेज॑स ए॒व रु॒चे⁠॥ कृ॒ष्णा॒जि॒ने॑ऽभिषि॑ञ्चति⁠। ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम्⁠। यत् कृ॑ष्णाजि॒नम्⁠। ब्रह्म॑न्ने॒वैन॑मृख्सा॒मयो॒रद्ध्य॒भिषि॑ञ्चति⁠॥ घृ॒तेना॒भिषि॑ञ्चति⁠। तथा॑ वी॒र्या॑वत्तरो भवति⁠ ॥ [९] (१४) (स॒गंच्छे॑ते भाग॒धेये॒नान्व॑मन्येताꣳ रू॒पं च॒त्वारि॑ च) ॥३॥
सोमसवः
न वै सोमे॑न॒ सोम॑स्य स॒वो᳚ऽस्ति⁠। ह॒तो ह्ये॑षः⁠। अ॒भिषु॑तो॒ ह्ये॑षः⁠। न हि ह॒तः सू॒यते᳚⁠। सौ॒मीꣳ सू॒तव॑शा॒माल॑भते⁠। सोमो॒ वै रे॑तो॒धाः⁠। रेत॑ ए॒व तद्द॑धाति⁠॥ सौ॒म्यर्चाऽभिषि॑ञ्चति⁠। रे॒तो॒धा ह्य॑षा⁠। रेतः॒ सोमः॑⁠। रेत॑ ए॒वास्मि॑न् दधाति⁠॥ यत् किञ्च राज॒सूय॑मृ॒ते सोम᳚म्⁠। तथ् सर्वं॑ भवति⁠॥ अषा॑ढय्ँयु॒थ्सु पृत॑नासु॒ पप्रि᳚म्⁠। सु॒व॒र॒षाम॒फ्स्वाव्ँवृ॒जन॑स्य गो॒पाम्⁠। भ॒रे॒षु॒जाꣳ सु॑ख्‍षि॒तिꣳ सु॒श्रव॑सम्⁠। जय॑न्तं॒ त्वामनु॑ मदेम सोम⁠ ॥ [१०] (१७) (रेतः॒ सोमः॑ स॒प्त च॑) ॥४॥
पृथिसवः
यो वै सोमे॑न सू॒यते᳚⁠। स दे॑वस॒वः⁠। यः प॒शुना॑ सू॒यते᳚⁠। स दे॑वस॒वः⁠। य इष्ट्या॑ सू॒यते᳚⁠। स म॑नुष्यस॒वः⁠। ए॒तव्ँवै पृथ॑ये दे॒वाः प्राय॑च्छन्न्⁠। ततो॒ वै सोऽप्या॑र॒ण्यानां᳚ पशू॒नाम॑सूयत⁠। याव॑तीः॒ किय॑तीश्च प्र॒जा वाच॒व्ँवद॑न्ति⁠। तासा॒ꣳ॒ सर्वा॑साꣳ सूयते⁠ ॥ [११] (१०) य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ ना॒रा॒श॒ꣴ॒स्यर्चाऽभिषि॑ञ्चति⁠। म॒नु॒ष्या॑ वै नरा॒शꣳसः॑⁠। नि॒ह्नुत्य॒ वावैतत्⁠। अथा॒भिषि॑ञ्चति⁠॥ यत् किञ्च॑ राज॒सूय॑मनुत्तरवे॒दीक᳚म्⁠। तथ् सर्वं॑ भवति⁠॥ ये मे॑ पञ्चा॒शतं॑ द॒दुः⁠। अश्वा॑नाꣳ स॒धस्तु॑तिः⁠। द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑⁠। बृ॒हत् कृ॑धि म॒घोना᳚म्⁠। नृ॒वद॑मृत नृ॒णाम्⁠ ॥ [१२] (१३) (सू॒य॒ते॒ स॒धस्तु॑ति॒स्त्रीणि॑ च) ॥५॥
गोसवः
ए॒ष गो॑स॒वः⁠। ष॒ट्त्रि॒ꣳ॒श उ॒क्थ्यो॑ बृ॒हथ् सा॑मा⁠। पव॑माने कण्वरथन्त॒रं भ॑वति⁠॥ यो वै वा॑ज॒पेयः॑⁠। स स॑म्राट्थ्स॒वः⁠। यो रा॑ज॒सूयः॑⁠। स व॑रुणस॒वः⁠। प्र॒जाप॑तिः॒ स्वारा᳚ज्यं परमे॒ष्ठी⁠। स्वारा᳚ज्यं॒ गौरे॒व⁠॥ गौरि॑व भवति⁠ ॥ [१३] (१०) य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः⁠। तद्धि स्वारा᳚ज्यम्⁠॥ अ॒युतं॒ दख्‍षि॑णाः⁠। तद्धि स्वारा᳚ज्यम्⁠॥ प्र॒ति॒धुषा॒ऽभिषि॑ञ्चति⁠। तद्धि स्वारा᳚ज्यम्⁠॥ अनु॑द्धते॒ वेद्यै॑ दख्‍षिण॒त आ॑हव॒नीय॑स्य बृह॒तः स्तो॒त्रं प्रत्य॒भिषि॑ञ्चति⁠। इ॒यव्ँवाव र॑थन्त॒रम्⁠ ॥ [१४] (१०) अ॒सौ बृ॒हत्⁠। अ॒नयो॑रे॒वैन॒मन॑न्तर्‌हितम॒भिषि॑ञ्चति⁠॥ प॒शु॒स्तो॒मो वा ए॒षः⁠। तेन॑ गोस॒वः⁠। ष॒ट्त्रि॒ꣳ॒शः सर्वः॑⁠॥ रे॒वज्जा॒तः सह॑सा वृ॒द्धः⁠। ख्‍ष॒त्राणां᳚ ख्‍षत्र॒भृत्त॑मो वयो॒धाः⁠। म॒हान् म॑हि॒त्वे त॑स्तभा॒नः⁠। ख्‍ष॒त्रे रा॒ष्ट्रे च॑ जागृहि⁠। प्र॒जाप॑तेस्त्वा परमे॒ष्ठिनः॒ स्वारा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह⁠॥ स्वारा᳚ज्यमे॒वैनं॑ गमयति⁠ ॥ [१५] (११) (इ॒व॒ भ॒व॒ति॒ र॒थ॒न्त॒र मा॒हैकं॑ च) ॥६॥
ओदनसवमन्त्राः
सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ⁠। त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या⁠। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑⁠। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना⁠॥ या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम्⁠। अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ⁠। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑⁠। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना⁠॥ या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये⁠। त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑⁠ ॥ [१६] (१०) इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑⁠। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना⁠॥ रथे॑ अ॒ख्‍षेषु॑ वृष॒भस्य॒ वाजे᳚⁠। वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚⁠। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑⁠। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना⁠॥ राड॑सि वि॒राड॑सि⁠। स॒म्राड॑सि स्व॒राड॑सि⁠॥ इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣴ श्रीणामि⁠। इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑सवन्तꣴ श्रीणामि⁠ ॥ [१७] (१०) इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣴ श्रीणामि⁠। इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣴ श्रीणामि⁠॥ तेजो॑ऽसि⁠। तत् ते॒ प्रय॑च्छामि⁠। तेज॑स्वदस्तु मे॒ मुख᳚म्⁠। तेज॑स्व॒च्छिरो॑ अस्तु मे⁠। तेज॑स्वान्‌वि॒श्वतः॑ प्र॒त्यङ्⁠। तेज॑सा॒ संपि॑पृग्धि मा⁠॥ ओजो॑ऽसि⁠। तत् ते॒ प्रय॑च्छामि⁠ ॥ [१८] (१०) ओज॑स्वदस्तु मे॒ मुख᳚म्⁠। ओज॑स्व॒च्छिरो॑ अस्तु मे⁠। ओज॑स्वान्‌वि॒श्वतः॑ प्र॒त्यङ्⁠। ओज॑सा॒ संपि॑पृग्धि मा⁠॥ पयो॑ऽसि⁠। तत्ते॒ प्रय॑च्छामि⁠। पय॑स्वदस्तु मे॒ मुख᳚म्⁠। पय॑स्व॒च्छिरो॑ अस्तु मे⁠। पय॑स्वान्‌वि॒श्वतः॑ प्र॒त्यङ्⁠। पय॑सा॒ संपि॑पृग्धि मा⁠ ॥ [१९] (१०) आयु॑रसि⁠। तत् ते॒ प्रय॑च्छामि⁠। आयु॑ष्मदस्तु मे॒ मुख᳚म्⁠। आयु॑ष्म॒च्छिरो॑ अस्तु मे⁠। आयु॑ष्मान्‌वि॒श्वतः॑ प्र॒त्यङ्⁠। आयु॑षा॒ संपि॑पृग्धि मा⁠॥ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि⁠। प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न्⁠। मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ⁠। विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त्⁠ ॥ [२०] (१०) आयु॑रसि वि॒श्वायु॑रसि⁠। स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि⁠॥ यतो॒ वातो॒ मनो॑ जवाः⁠। यतः॒ ख्‍षर॑न्ति॒ सिन्ध॑वः⁠। तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा⁠। अ॒भिषि॑ञ्चामि॒ वर्च॑सा⁠॥ स॒मु॒द्र इ॑वासि ग॒ह्मना᳚⁠। सोम॑ इवा॒स्यदा᳚भ्यः⁠। अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ्⁠। सूर्य॑ इव॒ ज्योति॑षा वि॒भूः⁠ ॥ [२१] (१०) अ॒पाय्ँयो द्रव॑णे॒ रसः॑⁠। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑⁠। तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि⁠। अ॒पाय्ँय ऊ॒र्मौ रसः॑⁠। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑⁠। ओज॑से वी॒र्या॑य गृह्णामि⁠। अ॒पाय्ँयो म॑द्ध्य॒तो रसः॑⁠। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑⁠। पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि⁠। अ॒पाय्ँयो य॒ज्ञियो॒ रसः॑⁠। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑⁠। आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि⁠ ॥ [२२] (१२) (गोष् वोज॑स्वन्तꣴ श्रीणा॒ म्योजो॑ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ पय॑सा॒ संपि॑पृग्धि॒ मास॑द् वि॒भूर् य॒ज्ञियो॒ रसो॒ द्वे च॑) ॥७॥
ओदनसवगता स्थारोहणमन्त्राः
अ॒भिप्रेहि॑ वी॒रय॑स्व⁠। उ॒ग्रश्चेत्ता॑ सपत्न॒हा⁠॥ आति॑ष्ठ मित्र॒वद्‌र्ध॑नः⁠। तुभ्यं॑ दे॒वा अधि॑ब्रवन्न्⁠॥ अ॒ङ्कौ न्य॒ङ्काव॒भित॒§27 आति॑ष्ठ वृत्रह॒न्रथ᳚म्§28⁠॥ आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्न्⁠। श्रिय॒व्ँवसा॑नश्चरति॒ स्वरो॑चाः⁠। म॒हत्तद॒स्यासु॑रस्य॒ नाम॑⁠। आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ⁠॥ अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑⁠ ॥ [२३] (१०) अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत्⁠। अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु⁠। अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः⁠॥ अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम्⁠। अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑भूम्⁠। सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु⁠। च॒न्द्रमा॒ नख्‍ष॑त्रै॒रनु॑ त्वाऽवतु⁠॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा⁠। शु॒क्रो बृ॒हद्दख्‍षि॑णा त्वा पिपर्तु⁠। अनु॑ स्व॒धा चि॑किता॒ꣳ॒ सोमो॑ अ॒ग्निः⁠। आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म्⁠ ॥ [२४] (११) (बृह॒स्पतिः॒ सोमो॑ अ॒ग्निरेकं॑ च) ॥८॥
ओदनसवः
प्र॒जाप॑तिः प्र॒जा अ॑सृजत⁠। ता अ॑स्माथ्सृ॒ष्टाः परा॑चीरायन्न्⁠। स ए॒तं प्र॒जाप॑तिरोद॒नम॑पश्यत्⁠। सोऽन्नं॑ भू॒तो॑ऽतिष्ठत्⁠। ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्त्वा⁠। प्र॒जाप॑तिं प्र॒जा उ॒पाव॑र्तन्त⁠। अन्न॑मे॒वैनं॑ भू॒तं पश्य॑न्तीः प्र॒जा उ॒पाव॑र्तन्ते⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ सर्वा॒ण्यन्ना॑नि भवन्ति⁠ ॥ [२५] (१०) सर्वे॒ पुरु॑षाः⁠। सर्वा᳚ण्ये॒वान्ना॒न्यव॑रुन्धे⁠। सर्वा॒न् पुरु॑षान्⁠॥ राड॑सि वि॒राड॒सीत्या॑ह⁠। स्वारा᳚ज्यमे॒वैनं॑ गमयति⁠॥ यद्धिर॑ण्यं॒ ददा॑ति⁠। तेज॒स्तेनाव॑रुन्धे⁠। यत्ति॑सृध॒न्वम्⁠। वी॒र्यं॑ तेन॑⁠। यदष्ट्रा᳚म्⁠ ॥ [२६] (१०) पुष्टिं॒ तेन॑⁠। यत्क॑म॒ण्डलु᳚म्⁠। आयु॒ष्टेन॑⁠॥ यद्धिर॑ण्यमाब॒द्ध्नाति॑⁠। ज्योति॒र्वै हिर॑ण्यम्⁠। ज्योति॑रे॒वास्मि॑न्दधाति⁠। अथो॒ तेजो॒ वै हिर॑ण्यम्⁠। तेज॑ ए॒वात्मन् ध॑त्ते⁠॥ यदो॑द॒नं प्रा॒श्नाति॑⁠। ए॒तदे॒व सर्व॑मव॒रुद्ध्य॑⁠ ॥ [२७] (१०) तद॑स्मिन्नेक॒धाऽधा᳚त्⁠॥ रो॒हि॒ण्यां का॒र्यः॑⁠। यद्ब्रा᳚ह्म॒ण ए॒व रो॑हि॒णी⁠। तस्मा॑दे॒व⁠। अथो॒ वर्ष्मै॒वैन॑ꣳ समा॒नानां᳚ करोति⁠॥ उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑⁠। उ॒द्यन्त॒व्ँवा ए॒तꣳ सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति⁠॥ दि॒दृ॒ख्‍षेण्यो॑ दर्‌श॒नीयो॑ भवति⁠। य ए॒वव्ँवेद॑⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति⁠ ॥ [२८] (१०) अ॒वेत्यो॑ऽवभृ॒था(३) ना(३) इति॑⁠। यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति⁠। तथ् स्वि॑दे॒वावै॑ति⁠। तन्नावै॑ति⁠॥ त्रि॒भिः प॑वयति⁠। त्रय॑ इ॒मे लो॒काः⁠। ए॒भिरे॒वैन॑ल्ँलो॒कैः प॑वयति⁠। अथो॑ अ॒पाव्ँवा ए॒तत् तेजो॒ वर्चः॑⁠। यद्द॒र्भाः⁠। यद्द॑र्भपुञ्जी॒लैः प॒वय॑ति⁠। अ॒पामे॒वैनं॒ तेज॑सा॒ वर्च॑सा॒ऽभिषि॑ञ्चति⁠ ॥ [२९] (११) (भ॒व॒ न्त्यष्ट्रा॑ मव॒रुद्ध्य॑ वदन्ति द॒र्भा यद् द॑र्भपुञ्जी॒लैः प॒वय॒त्येकं॑ च) ॥९॥
पञ्चशारदीयविधिः
प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्थ्स्या॒मिति॑⁠। स ए॒तं प॑ञ्चशार॒दीय॑मपश्यत्⁠। तमाऽह॑रत्⁠। तेना॑यजत⁠। ततो॒ वै स ब॒होर्भूया॑नभवत्⁠। यः का॒मये॑त ब॒होर्भूया᳚न्थ्स्या॒मिति॑⁠। स प॑ञ्चशार॒दीये॑न यजेत⁠। ब॒होरे॒व भूया᳚न् भवति⁠॥ म॒रु॒थ् स्तो॒मो वा ए॒षः⁠। म॒रुतो॒ हि दे॒वानां॒ भूयि॑ष्ठाः⁠ ॥ [३०] (१०) ब॒हुर्भ॑वति⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ प॒ञ्च॒शा॒र॒दीयो॑ भवति⁠। पञ्च॒ वा ऋ॒तवः॑ सव्ँवथ्स॒रः⁠। ऋ॒तुष्वे॒व स॑व्ँवथ्स॒रे प्रति॑तिष्ठति⁠। अथो॒ पञ्चा᳚ख्‍षरा प॒ङ्क्तिः⁠। पाङ्क्तो॑ य॒ज्ञः⁠। य॒ज्ञमे॒वाव॑रुन्धे⁠॥ स॒प्त॒द॒शꣴ स्तोमा॒ नाति॑यन्ति⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑ते॒राप्त्यै᳚⁠ ॥ [३१] (१२) (भूयि॑ष्ठा यन्ति॒ द्वे च॑) ॥१०॥
पञ्चशारदीयगतपशुविधिः
अ॒गस्यो॑ म॒रुद्भ्य॑ उ॒ख्‍ष्णः प्रौख्‍ष॑त्⁠। तानिन्द्र॒ आद॑त्त⁠। त ए॑न॒व्ँवज्र॑मु॒द्यत्या॒भ्या॑यन्त⁠। तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम्⁠। ताञ्छा॒न् तानुपा᳚ह्वयत⁠। यत् क॑याशु॒भीयं॒ भव॑ति॒ शान्त्यै᳚⁠॥ तस्मा॑दे॒त ऐ᳚न्द्रा मारु॒ता उ॒ख्‍षाणः॑ सव॒नीया॑ भवन्ति⁠। त्रयः॑ प्रथ॒मेऽह॒न्नाल॑भ्यन्ते⁠। ए॒वं द्वि॒तीये᳚⁠। ए॒वं तृ॒तीये᳚⁠ ॥ [३२] (१०) ए॒वं च॑तु॒र्थे⁠। पञ्चो᳚त्त॒मेऽह॒न्नाल॑भ्यन्ते⁠। वर्‌षि॑ष्ठमिव॒ ह्ये॑तदहः॑⁠॥ वर्‌षि॑ष्ठः समा॒नानां᳚ भवति⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ स्वारा᳚ज्य॒व्ँवा ए॒ष य॒ज्ञः⁠। ए॒तेन॒ वा एक॒यावा॑ कान्द॒मः स्वारा᳚ज्यमगच्छत्⁠॥ स्वारा᳚ज्यं गच्छति⁠। य ए॒तेन॒ यज॑ते⁠ ॥ [३३] (१०) य उ॑ चैनमे॒वव्ँवेद॑⁠॥ मा॒रु॒तो वा ए॒ष स्तोमः॑⁠। ए॒तेन॒ वै म॒रुतो॑ दे॒वानां॒ भूयि॑ष्ठा अभवन्न्⁠। भूयि॑ष्ठः समा॒नानां᳚ भवति⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः⁠। आ प॑ञ्च॒मात्पुरु॑षा॒दन्न॑मत्ति⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ स॒प्त॒द॒शꣴ स्तोमा॒ नाति॑यन्ति⁠। स॒प्त॒द॒शः प्र॒जाप॑तिः⁠। प्र॒जाप॑तेरे॒व नैति॑⁠ ॥ [३४] (१३) (अ॒गस्त्यः॒ स्वारा᳚ज्यं मारु॒तः प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञः स॑प्तद॒शं प्र॒जाप॑तेरे॒व नैति॑) ॥११॥
अग्निष्टुद्यागे ग्रहाणां पुरोरुचः
अ॒स्याजरा॑सो द॒मा म॒रित्राः᳚⁠। अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः⁠। श्वि॒ची॒चयः॑ श्वा॒त्रासो॑ भुर॒ण्यवः॑⁠। व॒न॒र॒षदो॑ वा॒यवो॒ न सोमाः᳚⁠॥ यजा॑ नो मि॒त्रावरु॑णा⁠। यजा॑ दे॒वाꣳ ऋ॒तं बृ॒हत्⁠। अग्ने॒ यख्‍षि॒ स्वं दम᳚म्⁠॥ अश्वि॑ना॒ पिब॑तꣳ सु॒तम्⁠। दीद्य॑ग्नी शुचि व्रता⁠। ऋ॒तुना॑ यज्ञवाहसा⁠ ॥ [३५] (१०) द्वे विरू॑पे चरतः॒ स्वर्थे᳚⁠। अ॒न्याऽन्या॑ व॒थ्समुप॑धापयेते⁠। हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा॑न्⁠। शु॒क्रो अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚⁠॥ पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ⁠। शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अद्ध्व॒रम्⁠। विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒चष्टे᳚⁠। ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑⁠॥ त्रीणि॑ श॒ता त्रीष॒हस्रा᳚ण्य॒ग्निम्⁠। त्रि॒ꣳ॒शच्च॑ दे॒वा नव॑ चासपर्यन्न्⁠ ॥ [३६] (१०) औख्‍ष॑न्घृ॒तैरास्तृ॑णन्ब॒र्॒‌हिर॑स्मै⁠। आदिद्धोता॑रं॒ न्य॑षादयन्त⁠॥ अ॒ग्निना॒ऽग्निः समि॑द्ध्यते⁠। क॒विर्गृ॒हप॑ति॒र्युवा᳚⁠। ह॒व्य॒वाड्जु॒ह्वा᳚स्यः⁠॥ अ॒ग्निर्दे॒वानां᳚ ज॒ठर᳚म्⁠। पू॒तद॑ख्‍षः क॒विक्र॑तुः⁠। दे॒वो दे॒वेभि॒राग॑मत्⁠॥ अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः⁠। आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम्⁠ ॥ [३७] (१०) ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र॒षनि॑र्णिजः⁠। सि॒ꣳ॒हा न हे॒षक्र॑तवः सु॒दान॑वः⁠॥ यदु॑त्त॒मे म॑रुतो मद्ध्य॒मे वा᳚⁠। यद्वा॑ऽव॒मे सु॑भगासो दि॒विष्ठ⁠। ततो॑ नो रुद्रा उ॒त वा॒ऽन्वस्य॑⁠। अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः⁠॥ ईडे॑ अ॒ग्निꣴ स्वव॑सं॒ नमो॑भिः⁠। इ॒ह प्र॑स॒प्तो विच॑यत्कृ॒तं नः॑⁠। रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑⁠। प्र॒द॒ख्‍षि॒णिन्म॒रुता॒ꣴ॒ स्तोम॑मृद्ध्याम्⁠ ॥ [३८] (१०) श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः⁠। दे॒वैर॑ग्ने स॒याव॑भिः⁠। आसी॑दन्तु ब॒र॒हिषि॑⁠। मि॒त्रो वरु॑णो अर्य॒मा⁠। प्रा॒त॒र्यावा॑णो अद्ध्व॒रम्⁠॥ विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नाम्⁠। विश्व॑षा॒मति॑थि॒र्मानु॑षाणाम्⁠। अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः⁠। सु॒मृ॒डी॒को भ॑वतु वि॒श्ववे॑दाः⁠॥ त्वे अ॑ग्ने सुम॒तिं भिख्‍ष॑माणाः⁠ ॥ [३९] (१०) दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः⁠। नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे⁠। कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सन्धुः॑⁠॥ त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य᳚म्⁠। त्वां जि॒ह्वाꣳ शुच॑यश्चक्रिरे कवे⁠। त्वाꣳ रा॑ति॒षाचो॑ अद्ध्व॒रेषु॑ सश्चिरे⁠। त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम्⁠॥ नि त्वा॑ य॒ज्ञस्य॒ साध॑नम्⁠। अग्ने॒ होता॑रमृ॒त्विज᳚म्⁠। व॒नु॒ष्वद्दे॑व धीमहि॒ प्रचे॑तसम्⁠। जी॒रं दू॒तमम॑र्त्यम्⁠ ॥ [४०] (११) (य॒ज्ञ॒वा॒ह॒सा॒ ऽस॒प॒र्य॒न् व॒य मृ॑द्ध्यां॒ भिख्‍ष॑माणाः॒ प्रचे॑तस॒मेकं॑ च) ॥१२॥
इन्द्रस्तुद्यागे ग्रहाणां पुरोरुचः
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि⁠। वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑⁠। पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे⁠। इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य⁠॥ कस्य॒ वृषा॑ सु॒ते सचा᳚⁠। नि॒युत्वा᳚न् वृष॒भो र॑णत्⁠। वृ॒त्र॒हा सोम॑पीतये⁠॥ इन्द्र॑व्ँव॒यं म॑हाध॒ने⁠। इन्द्र॒मर्भे॑ हवामहे⁠। युज॑व्ँवृ॒त्रेषु॑ व॒ज्रिण᳚म्⁠ ॥ [४१] (१०) द्वि॒तायो वृ॑त्र॒हन्त॑मः⁠। वि॒द इन्द्रः॑ श॒तक्र॑तुः⁠। उप॑ नो॒ हरि॑भिः सु॒तम्⁠॥ स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र᳚म्⁠। अ॒या धि॒या त॒रणि॒रद्रि॑बर्‌हाः⁠। ऋ॒तेन॑ शु॒ष्मीनव॑मानो अ॒र्कैः⁠। व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद⁠॥ उ॒त त्यदा॒श्वश्वि॑यम्⁠। यदि॑न्द्र॒ नाहु॑षी॒ष्वा⁠। अग्रे॑ वि॒ख्‍षु प्रतीद॑यत्⁠ ॥ [४२] (१०) भरे॒ष्विन्द्र॑ꣳ सु॒हव॑ꣳ हवामहे⁠। अ॒ꣳ॒हो॒मुच॑ꣳ सु॒कृतं॒ दैव्य॒ञ्जन᳚म्⁠। अ॒ग्निं मि॒त्रव्ँवरु॑णꣳ सा॒तये॒ भग᳚म्⁠। द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚⁠॥ म॒हि ख्‍षेत्रं॑ पु॒रुश्च॒न्द्रव्ँविवि॒द्वान्⁠। आदिथ् सखि॑भ्यश्च॒ रथ॒ꣳ॒ समै॑रत्⁠। इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कम्⁠। सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम्⁠॥ उ॒रुं नो॑ लो॒कमनु॑नेषि वि॒द्वान्⁠। सुव॑र्व॒ज्ज्योति॒रभ॑यꣴ स्व॒स्ति⁠ ॥ [४३] (१०) ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू⁠। उप॑स्थेयाम शर॒णा बृ॒हन्ता᳚⁠॥ आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषाः᳚⁠। ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि⁠। वरी॑वृज॒थ् स्थवि॑रेभिः सुशिप्र⁠। अ॒स्मे दध॒द्वृष॑ण॒ꣳ॒ शुष्म॑मिन्द्र⁠॥ इन्द्रा॑य॒ गाव॑ आ॒शिर᳚म्⁠। दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑⁠। यथ् सी॑मुपह्व॒रेऽवि॒दत्⁠॥ तास्ते॑ वज्रिन् धे॒नवो॑ जोजयुर्नः⁠ ॥ [४४] (१०) गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः⁠। अह॑रह॒र्भूय॒ इज्जोगु॑वानाः⁠। पू॒र्णा इ॑न्द्र ख्‍षु॒मतो॒ भोज॑नस्य⁠॥ इ॒मां ते॒ धियं॒ प्रभ॑रे म॒हो म॒हीम्⁠। अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे⁠। तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम्⁠। इन्द्रं॑ दे॒वासः॒ शव॑सा मद॒न्ननु॑⁠ ॥ [४५] (७) (व॒ज्रिण॑ मयथ् स्व॒स्ति जो॑जयुर्नः +स॒प्त च॑) ॥१३॥
अप्तोर्यामाविधिः
प्र॒जाप॑तिः प॒शून॑सृजत⁠। ते᳚ऽस्माथ् सृ॒ष्टाः परा᳚ञ्च आयन्न्⁠। तान॑ग्निष्टो॒मेन॒ नाप्नो᳚त्⁠। तानु॒क्थ्ये॑न॒ नाप्नो᳚त्⁠। तान्थ् षो॑ड॒शिना॒ नाप्नो᳚त्⁠। तान्‌रात्रि॑या॒ नाप्नो᳚त्⁠। तान्थ् स॒न्धिना॒ नाप्नो᳚त्⁠। सो᳚ऽग्निम॑ब्रवीत्⁠। इ॒मान्म॑ ई॒फ्सेति॑⁠। तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो᳚त्⁠ ॥ [४६] (१०) स इन्द्र॑मब्रवीत्⁠। इ॒मान्म॑ ई॒फ्सेति॑⁠। तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो᳚त्⁠। स विश्वा᳚न् दे॒वान॑ब्रवीत्⁠। इ॒मान्म॑ ईफ्स॒तेति॑⁠। तान्‌विश्वे॑ दे॒वाः स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन्न्⁠। स विष्णु॑मब्रवीत्⁠। इ॒मान्म॑ ई॒फ्सेति॑⁠। तान्‌विष्णु॑रेकवि॒ꣳ॒शेन॒ स्तोमे॑नाप्नोत्⁠। वा॒र॒व॒न्तीये॑नावारयत⁠ ॥ [४७] (१०) इ॒दव्ँविष्णु॒र् विच॑क्रम॒ इति॒ व्य॑क्रमत⁠॥ यस्मा᳚त् प॒शवः॒ प्र प्रेव॒ भ्रꣳशे॑रन्न्⁠। स ए॒तेन॑ यजेत⁠॥ यदाप्नो᳚त्⁠। तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम्⁠॥ ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा⁠। यं काम॒मका॑मयन्त॒ तमा᳚प्नुवन्न्⁠। यं कामं॑ का॒मय॑ते⁠। तमे॒तेना᳚प्नोति⁠ ॥ [४८] (९) (स्तोमे॑न॒ नाप्नो॑ दवारयत॒ +नव॑ च) ॥१४॥
राजाभिषेकः
व्या॒घ्रो॑ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः⁠। ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पा अ॒यम्⁠। न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि⁠। मा दे॒वानां᳚ मिथु॒या क॑र्म भा॒गम्⁠॥ सावी॒र॒हि दे॑व प्रस॒वाय॑ पित्रे⁠। व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै⁠। अथा॒स्मभ्य॑ꣳ सवितः स॒र्वता॑ता⁠। दि॒वे दि॑व॒ आसु॑वा॒ भूरि॑प॒श्वः⁠॥ भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः⁠। स भू॒ताना॒मधि॑पतिर्बभूव⁠ ॥ [४९] (१०) तस्य॑ मृ॒त्यौ च॑रति राज॒सूय᳚म्⁠। स राजा॑ रा॒ज्यमनु॑मन्यतामि॒दम्⁠॥ येभिः॒ शिल्पैः᳚ पप्रथा॒नामदृ॑ꣳहत्⁠। येभि॒द्‌र्याम॒भ्यपि॑ꣳशत्प्र॒जाप॑तिः⁠। येभि॒र्वाच॑व्ँवि॒श्वरू॑पाꣳ स॒मव्य॑यत्⁠। तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि⁠॥ येभि॑रादि॒त्यस्तप॑ति॒ प्रके॒तुभिः॑⁠। येभिः॒ सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः⁠। येभि॒र्वाचं॑ पुष्क॒लेभि॒रव्य॑यत्⁠। तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि⁠ ॥ [५०] (१०) आऽयं भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः⁠। इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावा॑न्⁠। अ॒स्मा अ॑स्तु पुष्क॒लं चि॒त्रभा॑नु⁠। आऽयं पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म्⁠॥ यत्ते॒ शिल्पं॑ कश्यप रोच॒नाव॑त्⁠। इ॒न्द्रि॒याव॑त्पुष्क॒लं चि॒त्रभा॑नु⁠। यस्मि॒न्थ् सूर्या॒ अर्पि॑ताः स॒प्त सा॒कम्⁠। तस्मि॒न्राजा॑न॒मधि॒विश्र॑ये॒मम्⁠॥ द्यौर॑सि पृथि॒व्य॑सि⁠॥ व्या॒घ्रो वैया॒घ्रेऽधि॑⁠ ॥ [५१] (१०) विश्र॑यस्व॒ दिशो॑ म॒हीः⁠। विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु⁠। मा त्वद्रा॒ष्ट्रमधि॑भ्रशत्⁠॥ या दि॒व्या आपः॒ पय॑सा संबभू॒वुः⁠। या अ॒न्तरि॑ख्‍ष उ॒त पार्थि॑वी॒र्याः⁠। ता सां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा⁠। अ॒भिषि॑ञ्चामि॒ वर्च॑सा⁠। अ॒भि त्वा॒ वर्च॑सा सिचं दि॒व्येन॑⁠। पय॑सा स॒ह⁠। यथाऽऽसा॑ राष्ट्र॒वद्‌र्ध॑नः⁠ ॥ [५२] (१०) तथा᳚ त्वा सवि॒ता क॑रत्⁠। इन्द्र॒व्ँविश्वा॑ अवीवृधन्न्⁠। स॒मु॒द्र व्य॑चसं॒ गिरः॑⁠। र॒थीत॑मꣳ रथी॒नाम्⁠। वाजा॑ना॒ꣳ॒ सत् प॑तिं॒ पति᳚म्⁠। वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा⁠। रु॒द्रास्त्वा॑ दख्‍षिण॒तो॑ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा⁠। आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा⁠। विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑ऽभिषि॑ञ्च॒न्त्वानु॑ष्टुभेन॒ छन्द॑सा⁠। बृह॒स्पति॑स्त्वो॒परि॑ष्टाद॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा⁠ ॥ [५३] (१०) अ॒रु॒णं त्वा॒ वृक॑मु॒ग्रं ख॑जं क॒रम्⁠। रोच॑मानं म॒रुता॒मग्रे॑ अ॒र्चिषः॑⁠। सूर्य॑वन्तं म॒घवा॑नव्ँविषास॒हिम्⁠। इन्द्र॑मु॒क्थ्येषु॑ नाम॒हूत॑मꣳ हुवेम⁠॥ प्र बा॒हवा॑ सिसृतं जी॒वसे॑ नः⁠। आ नो॒ गव्यू॑तिमुख्‍षतं घृ॒तेन॑⁠। आ नो॒ जने᳚ श्रवयतय्ँयुवाना⁠। श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा⁠॥ इन्द्र॑स्य ते वीर्य॒कृतः॑⁠। बा॒हू उ॒पाव॑हरामि⁠ ॥ [५४] (१०) (ब॒भू॒ वाव्य॑य॒त् तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ वैया॒घ्रेऽधि॑ राष्ट्र॒वद्‌र्ध॑नः॒ पाङ्क्ते॑न॒ छन्द॑सो॒ पाव॑हरामि) ॥१५॥
राजाभिषेकाङ्गं रथारोहणम्
अ॒भि प्रेहि॑ वी॒रय॑स्व⁠। उ॒ग्रश्चेत्ता॑ सपत्न॒हा⁠॥ आति॑ष्ठ वृत्र॒हन्त॑मः⁠। तुभ्यं॑ दे॒वा अधि॑ब्रवन्न्⁠॥ अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्ँयौ⁠। ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑सं॒ चर॑न्तौ⁠। दू॒रे हे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री⁠। ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु⁠॥ नम॑स्त ऋषे गद⁠। अव्य॑थायै (अव्य॑धायै) त्वा स्व॒धायै᳚ त्वा⁠ ॥ [५५] (१०) मा न॑ इन्द्रा॒भित॒स्त्वदृ॒ष्वारि॑ष्टासः⁠। ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु⁠॥ तिष्ठा॒ रथे॒ अधि॒ यद्वज्र॑हस्तः⁠॥ आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑⁠॥ आति॑ष्ठ वृत्रहन् §29, ना॒तिष्ठ॑न्तं॒ परि॑ §30⁠। अनु॒ त्वेन्द्रो॑ मद॒ {३१]. त्वनु॑ त्वा मि॒त्रावरु॑णौ §32⁠॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा⁠। शु॒क्रो बृ॒हद्दख्‍षि॑णा त्वा पिपर्तु⁠। अनु॑ स्व॒धा चिकिता॒ꣳ॒ सोमो॑ अ॒ग्निः⁠। अनु॑ त्वाऽवतु सवि॒ता स॒वेन॑⁠ ॥ [५६] (१०) इन्द्र॒व्ँविश्वा॑ अवीवृधन्न्⁠। स॒मु॒द्र व्य॑चसं॒ गिरः॑⁠। र॒थीत॑मꣳ रथी॒नाम्⁠। वाजा॑ना॒ꣳ॒ सत् प॑तिं॒ पति᳚म्⁠॥ परि॑ मा से॒न्या घोषाः᳚⁠। ज्याना᳚व्ँवृञ्जन्तु गृ॒द्ध्नवः॑⁠। मे॒थि॒ष्ठाः पिन्व॑माना इ॒ह⁠। मां गोप॑तिम॒भि सव्ँवि॑शन्तु⁠॥ तन्मेऽनु॑मति॒रनु॑मन्यताम्⁠। तन्मा॒ता पृ॑थि॒वी तत् पि॒ता द्यौः⁠ ॥ [५७] (१०) तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुवः॑⁠। तद॑श्विना शृणुतꣳ सौभगा यु॒वम्⁠॥ अव॑ते॒ हेड॒ §33, उदु॑त्त॒मम् §34⁠॥ ए॒ना व्या॒घ्रं प॑रिषस्वजा॒नाः⁠। सि॒ꣳ॒हꣳ हि॑न्वन्ति मह॒ते सौभ॑गाय⁠। स॒मु॒द्रं न सु॒हवं॑ तस्थि॒वाꣳस᳚म्⁠। म॒र्मृ॒ज्यन्ते᳚ द्वी॒पिन॑म॒फ्स्व॑न्तः⁠॥ उद॒सावे॑तु॒ सूर्यः॑⁠। उदि॒दं मा॑म॒कव्ँवचः॑⁠। उदि॑हि देव सूर्य⁠। स॒ह व॒ग्नुना॒ मम॑⁠। अ॒हव्ँवा॒चो वि॒वाच॑नम्⁠। मयि॒ वाग॑स्तु धर्ण॒सिः⁠। यन्तु॑ न॒दयो॒ वर्‌ष॑न्तु प॒र्जन्याः᳚⁠। सु॒पि॒प्प॒ला ओष॑धयो भवन्तु⁠॥ अन्न॑वतामोद॒नव॑तामा॒मिख्‍ष॑वताम्⁠। ए॒षाꣳ राजा॑ भूयासम्⁠ ॥ [५८] (१७) (स्व॒धायै᳚ त्वा स॒वेन॒ द्यौः सु᳚र्य स॒प्त च॑) ॥१६॥
राजाभिषेकाङ्गं वपनम्
ये के॒शिनः॑ प्रथ॒माः स॒त्रमास॑त⁠। येभि॒राभृ॑त॒य्ँयदि॒दव्ँवि॒रोच॑ते⁠। तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑⁠। रा॒यस्पोषे॑णे॒मव्ँवर्च॑सा॒ सꣳसृ॑जाथ⁠॥ नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः⁠। द्वि॒नाम्नी॑ दी॒ख्‍षा व॒शिनी॒ ह्यु॑ग्रा⁠। प्रकेशाः᳚ सु॒वते॑ का॒ण्डिनो॑ भवन्ति⁠। तेषां᳚ ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः⁠॥ आरो॑ह॒ प्रोष्ठ॒व्ँविष॑हस्व॒ शत्रू॑न्⁠। अवा᳚स्राग्दी॒ख्‍षा व॒शिनी॒ ह्यु॑ग्रा⁠ ॥ [५९] (१०) दे॒हि दख्‍षि॑णां॒ प्रति॑र॒स्वायुः॑⁠। अथा॑ मुच्यस्व॒ वरु॑णस्य॒ पाशा᳚त्⁠॥ येनाव॑पथ् सवि॒ता ख्‍षु॒रेण॑⁠। सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्⁠। तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम्⁠। र॒य्या वर्च॑सा॒ सꣳसृ॑जाथ⁠॥ मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत्⁠। तथा॑ धा॒ता क॑रोतु ते⁠। तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑⁠। स॒वि॒ता वर्च॒ आद॑धात्⁠ ॥ [६०] (१०) तेभ्यो॑ नि॒धानं॑ बहु॒धा व्यैच्छ॑न्न्⁠। अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑⁠। द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑⁠। पौꣴस्ये॑ने॒मव्ँवर्च॑सा॒ सꣳसृ॑जाथ⁠॥ बलं॑ ते बाहु॒वोः स॑वि॒ता द॑धातु⁠। सोम॑स्त्वाऽनक्तु॒ पय॑सा घृ॒तेन॑⁠। स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम्⁠। पौꣴस्ये॑ने॒मं वर्च॑सा॒ सꣳसृ॑जाथ⁠॥ यथ् सी॒मन्तं॒ कङ्क॑तस्ते लि॒लेख॑⁠। यद्वा᳚ ख्‍षु॒रः प॑रिव॒वर्ज॒ वप॑ꣴस्ते⁠। स्त्री॒षु रू॒पम॑श्विनै॒तन्निध॑त्तम्⁠। पौꣴस्ये॑ने॒मꣳ सꣳसृ॑जाथो वी॒र्ये॑ण⁠ ॥ [६१] (१२) (ये के॒शिनो॒ नर्ते मा ते॒ बल॒य्ँयथ् सी॒मन्तं॒ पञ्च॑) ॥१७॥
विद्यनाख्य एकाहविशेषः
इन्द्र॒व्ँवै स्वा विशो॑ म॒रुतो॒ नापा॑चायन्न्⁠। सोऽन॑पचाय्यमान ए॒तव्ँवि॑घ॒नम॑पश्यत्⁠। तमाऽह॑रत्⁠। तेना॑यजत⁠। तेनै॒वासां॒ तꣳ स॑ꣴस्त॒म्भव्ँव्य॑हन्न्⁠। यद् व्यह॑न्न्⁠। तद्वि॑घ॒नस्य॑ विघन॒त्वम्⁠॥ वि पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [६२] (१०) यꣳ राजा॑न॒व्ँविशो॒ नाप॒चाये॑युः⁠। यो वा᳚ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑तः॒ स्यात्⁠। स ए॒तेन॑ यजेत⁠। वि॒घ॒नेनै॒वैन॑द्वि॒हत्य॑⁠। वि॒शामाधि॑पत्यं गच्छति⁠॥ तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः⁠। द्वे च॑तुर्वि॒ꣳ॒शे⁠। औद्भि॑द्यमे॒व तत्⁠। ए॒तद्वै ख्‍ष॒त्रस्यौद्भि॑द्यम्⁠। यद॑स्मै॒ स्वा विशो॑ ब॒लिꣳ हर॑न्ति⁠ ॥ [६३] (१०) हर॑न्त्यस्मै॒ विशो॑ ब॒लिम्⁠। ऐन॒मप्र॑तिख्यातं गच्छति⁠। य ए॒वव्ँवेद॑⁠॥ प्र॒बाहु॒ग्वा अग्रे᳚ ख्‍ष॒त्राण्याते॑पुः⁠। तेषा॒मिन्द्रः॑ ख्‍ष॒त्राण्याद॑त्त⁠। न वा इ॒मानि॑ ख्‍ष॒त्राण्य॑ भूव॒न्निति॑⁠। तन्नख्‍ष॑त्राणां नख्‍षत्र॒त्वम्⁠। आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒यं द॑त्ते⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠ ॥ [६४] (१०) तद् यथा॑ ह॒ वै स॑चा॒क्रिणौ॒ कप्ल॑कावु॒पाव॑हितौ॒ स्याता᳚म्⁠। ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ᳚⁠। अ॒युख्‍षु॒ स्तोमे॑षु क्रियेते⁠। पा॒प्मनोऽप॑हत्यै⁠॥ अप॑ पा॒प्मानं॒ भ्रातृ॑व्यꣳ हते⁠। य ए॒तेन॒ यज॑ते⁠। य उ॑ चैनमे॒वव्ँवेद॑⁠॥ तद् यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑⁠। ए॒वं छन्दा॑ꣳसि⁠। तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः⁠ ॥ [६५] (१०) स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्न्⁠। प्र॒जया॑ प॒शुभि॑रसा॒नीत्ये॒व⁠॥ व्यति॑षक्ताभिः स्तुवते⁠। व्यति॑षक्त॒व्ँवै ख्‍ष॒त्रव्ँवि॒शा⁠। वि॒शैवैनं॑ ख्‍ष॒त्रेण॒ व्यति॑षजति⁠॥ व्यति॑षक्ताभिः स्तुवते⁠। व्यति॑षक्तो॒ वै ग्रा॑म॒णीः स॑जा॒तैः⁠। स॒जा॒तैरे॒वैन॒व्ँव्यति॑षजति⁠॥ व्यति॑षक्ताभिः स्तुवते⁠। व्यति॑षक्तो॒ वै पुरु॑षः पा॒प्मभिः॑⁠। व्यति॑षक्ताभिरे॒वास्य॑ पा॒प्मनो॑ नुदते⁠ ॥ [६६] (११) (वेद॒ हर॑न् त्येनमे॒वव्ँवेदा॒ भ्यू॑ढः पा॒प्मभि॒रेकं॑ च) ॥१८॥

Appendix (of Expansions)

{27} Tai.Brā.2.7.8.1
अ॒ङ्कौन्य॒ङ्का व॒भितो॒ रथ॒य्ँयौ ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒चंर॑न्तौ दू॒रे हे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु⁠॥ (आल्सो समे अप्पेअरिन्ग् अबोवे, इन् ट्भ्.२.७.१६.१ )
{28} Tai.Brā.2.7.8.1
आ ति॑ष्ठ वृत्रह॒न् रथ॑य्ँयु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚⁠। अ॒र्वा॒चीन॒ꣳ॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना᳚⁠॥
{29} Tai.Brā.2.7.16.2
Same as 28 above
{30, 31, 32} Tai.Brā.2.7.16.2
आ॒तिष्ठ॑न्तं॒ परि॒ विश्वे॑ अभूषन्न्⁠। श्रिय॒व्ँवसा॑नश्चरति॒ स्वरो॑चाः⁠। म॒हत्तद॒स्यासु॑रस्य॒ नाम॑⁠। आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ⁠॥ अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑⁠। अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत्⁠। अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु⁠। अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः⁠॥ अनु॑त्वा मि॒त्रावरु॑णावि॒हाव॑तम्⁠। अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑भूम्⁠। सूर्यो॒ अहो॑भि॒रनु॑ त्वाऽवतु⁠। च॒न्द्रमा॒ नख्‍ष॑त्रै॒रनु॑ त्वाऽवतु⁠॥
{33, 34} Tai.Brā.2.7.16.4
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑⁠। ख्‍षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑ꣳसि शिश्रथः कृ॒तानि॑⁠॥ उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ऽध॒मव्ँविम॑ध्य॒मꣴ श्र॑थाय⁠। अथा॑ व॒यमा॑दित्य व्र॒ते तवाऽना॑गसो॒ अदि॑तये स्याम⁠॥
अनुवाकाः पञ्चशती
१८ ६६