कृष्ण यजुर्वेदीय तैत्तिरीय संहिता
पञ्चमकाण्डे सप्तमः प्रश्नः

कांड ५ प्रश्न ७
उपानुवाक्यावशिष्ट कर्मनिरूपणं

ओं नमः परमात्मने, श्री महागणपतये नमः

श्री गुरुभ्यो नमः, ह॒रिः॒ ओं

ॐ
यो वा अय॑थादेवतम॒ग्निञ्चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते पापी॑यान् भवति॒ यो य॑थादेव॒तन्न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒माञ्चिति॑म॒भि मृ॑शेत् त्रि॒ष्टुभा᳚ द्वि॒तीया॒ञ्जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीम्प॒ङ्क्त्या प॑ञ्च॒मीय्ँय॑थादेव॒तमे॒वाग्निञ्चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनं [१] चिनुते॒ यो वै प्र॒जाप॑तये प्रति॒ प्रोच्या॒ग्निञ्चि॒नोति॒ नाऽऽर्ति॒मार्च्छ॒त्यश्वा॑व॒भित॑ स्तिष्ठेताङ्कृ॒ष्ण उ॑त्तर॒तः श्वे॒तो दख्‍षि॑ण॒ स्तावा॒लभ्येष्ट॑का॒ उप॑ दद्ध्यादे॒तद्वै प्र॒जाप॑ते रू॒पम्प्रा॑जाप॒त्योऽश्वः॑ सा॒ख्‍षादे॒व प्र॒जाप॑तये प्रति॒प्रोच्या॒ग्निञ्चि॑नोति॒ नाऽऽर्ति॒मार्च्छ॑त्ये॒तद्वा अह्नो॑ रू॒पय्ँयच् छ्वे॒तोऽश्वो॒ रात्रि॑यै कृ॒ष्ण ए॒तदह्नो॑ [२] रू॒पय्ँयदिष्ट॑का॒ रात्रि॑यै॒ पुरी॑ष॒मिष्ट॑का उपधा॒स्यञ्छ्वे॒तमश्व॑म॒भि मृ॑शे॒त् पुरी॑षमुपधा॒स्यन् कृ॒ष्णम॑होरा॒त्राभ्या॑मे॒वैन॑ञ्चिनुते हिरण्यपा॒त्रम्मधोः᳚ पू॒र्णन्द॑दाति मध॒व्यो॑ऽसा॒नीति॑ सौ॒र्या चि॒त्रव॒त्याऽवे᳚ख्‍षते चि॒त्रमे॒व भ॑वति म॒द्ध्यन्दि॒नेऽश्व॒मव॑ घ्रापयत्य॒सौ वा आ॑दि॒त्य इन्द्र॑ ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽ श्व॒स्तमे॒व सा॒ख्‍षादृ॑द्ध्नोति⁠ [३] (ए॒न॒ मे॒तदह्नो॒ ऽष्टाच॑त्वारिꣳशच्च) ॥१॥
त्वाम॑ग्ने वृष॒भञ्चेकि॑तान॒म्पुन॒र् युवा॑नञ्ज॒नय॑न्नु॒पागा᳚म्⁠। अ॒स्थू॒रि णो॒ गार्‌ह॑पत्यानि सन्तु ति॒ग्मेन॑ नो॒ ब्रह्म॑णा॒ सꣳ शि॑शाधि⁠॥ प॒शवो॒ वा ए॒ते यदिष्ट॑का॒ श्चित्यां᳚चित्यामृष॒भमुप॑ दधाति मिथु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति प्र॒जन॑नाय॒ तस्मा᳚द्यू॒थेयू॑थ ऋष॒भः⁠॥ स॒व्ँव॒थ्स॒रस्य॑ प्रति॒माय्ँयान्त्वा॑ रात्य्रु॒पास॑ते⁠। प्र॒जाꣳ सु॒वीरा᳚ङ्कृ॒त्वा विश्व॒मायु॒र् व्य॑श्ञवत्⁠॥ प्रा॒जा॒प॒त्या [४] मे॒तामुप॑ दधाती॒यव्ँवावैषैका᳚ष्ट॒का यदे॒वैका᳚ष्ट॒काया॒मन्न॑ङ्क्रि॒यते॒ तदे॒वैतयाऽव॑ रुन्ध ए॒षा वै प्र॒जाप॑तेः काम॒दुघा॒ तयै॒व यज॑मानो॒ऽमुष्मि॑ल्ँलो॒के᳚ऽग्निन्दु॑हे॒ येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्॒‌येना॑ऽऽदि॒त्या वस॑वो॒ येन॑ रु॒द्राः⁠। येनाङ्गि॑रसो महि॒मान॑मान॒शुस्तेनै॑तु॒ यज॑मानः स्व॒स्ति⁠॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ [५] चीयते॒ यद॒ग्निर् येन॑ दे॒वा ज्योति॑षो॒र्द्ध्वा उ॒दाय॒न्नित्युख्य॒ꣳ॒ समि॑न्ध॒ इष्ट॑का ए॒वैता उप॑ धत्ते वानस्प॒त्याः सु॑व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚⁠। श॒तय्ँयो नः॑ श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚⁠॥ ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑⁠॥ तेषा॒य्ँयो अज्या॑नि॒मजी॑तिमा॒वहा॒त् तस्मै॑ नो देवाः॒ [६] परि॑ दत्ते॒ह सर्वे᳚⁠॥ ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तः श॒रद् व॒र्॒‌षाः सु॑वि॒तन्नो॑ अस्तु⁠। तेषा॑मृतू॒नाꣳ श॒तशा॑रदानान्निवा॒त ए॑षा॒मभ॑ये स्याम⁠॥ इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ सव्ँवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑⁠। तेषा᳚व्ँव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒ञ्ज्योगजी॑ता॒ अह॑ताः स्याम⁠॥ भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ स्त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा⁠। स नो॑ मयो॒ भूः पि॑तो॒ [७] आ वि॑शस्व॒ शन्तो॒काय॑ त॒नुवे᳚ स्यो॒नः⁠॥ अज्या॑नीरे॒ता उप॑ दधात्ये॒ता वै दे॒वता॒ अप॑राजिता॒ स्ता ए॒व प्र वि॑शति॒ नैव जी॑यते ब्रह्मवा॒दिनो॑ वदन्ति॒ यद॑र्द्धमा॒सा मासा॑ ऋ॒तवः॑ सव्ँवथ्स॒र ओष॑धीः॒ पच॒न्त्यथ॒ कस्मा॑द॒न्याभ्यो॑ दे॒वता᳚भ्य आग्रय॒णन्निरु॑प्यत॒ इत्ये॒ता हि तद्दे॒वता॑ उ॒दज॑य॒न्॒‌यदृ॒तुभ्यो॑ नि॒र्वपे᳚द् दे॒वता᳚भ्यः स॒मद॑न्दद्ध्यादाग्रय॒णन्नि॒रुप्यै॒ता आहु॑तीर् जुहोत्यर्द्धमा॒साने॒व मासा॑नृ॒तून्थ् स॑व्ँवथ्स॒रम्प्री॑णाति॒ न दे॒वता᳚भ्यः स॒मद॑न्दधाति भ॒द्रान्नः॒ श्रेयः॒ सम॑नैष्ट देवा॒ इत्या॑ह हु॒ताद्या॑य॒ यज॑मान॒स्याऽप॑राभावाय⁠ [८] (प्रा॒जा॒प॒त्यां लो॒काय॑ देवाः पितो दद्ध्यादाग्रय॒णं पञ्च॑विꣳशतिश्च) ॥२॥
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न स्तनू॒पा नः॑ प्रतिस्प॒शः⁠। यो नः॑ पु॒रस्ता᳚द् दख्‍षिण॒तः प॒श्चादु॑त्तर॒तो॑ ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ सोऽश्मा॑नमृच्छतु⁠॥ दे॒वा॒सु॒राः सय्ँय॑त्ता आस॒न् तेऽसु॑रा दि॒ग्भ्य आऽबा॑धन्त॒ तान् दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒ख्‍षूप॑ [९] दधाति देवपु॒रा ए॒वैता स्त॑नू॒पानीः॒ पर्यू॑ह॒तेऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑⁠। द्यु॒म्नैर् वाजे॑भि॒रा ग॑तम्⁠॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किंदेव॒त्या॑ वसो॒र् धारेत्य॒ग्निर् वसु॒ स्तस्यै॒षा धारा॒ विष्णु॒र् वसु॒ स्तस्यै॒षा धारा᳚ऽऽग्नावैष्ण॒व्यर्चा वसो॒र् धारा᳚ञ्जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्द्धय॒त्यथो॑ ए॒ता [१०] मे॒वाहु॑तिमा॒यत॑नवतीङ्करोति॒ यत्का॑म एनाञ्जु॒होति॒ तदे॒वाव॑ रुन्धे रु॒द्रो वा ए॒ष यद॒ग्नि स्तस्यै॒ते त॒नुवौ॑ घो॒राऽन्या शि॒वाऽन्या यच्छ॑तरु॒द्रीय॑ञ्जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तान्तेन॑ शमयति॒ यद्वसो॒र् धारा᳚ञ्जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तान्तेन॑ प्रीणाति॒ यो वै वसो॒र् धारा॑यै [११] प्रति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नम्प॑चे॒त् तम्ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्ञी॑युरे॒ष अ॒ग्निर् वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्वै᳚श्वान॒रः प्रि॒याया॑मे॒वैना᳚न्त॒नुवा॒म्प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर् द॑द्या॒त् ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्ँलो॒के᳚ऽग्निन्दु॑हे⁠ [१२] (उपै॒ तां धारा॑यै॒ षट्च॑त्वारिꣳशच्च) ॥३॥
चित्ति॑ञ्जुहोमि॒ मन॑सा घृ॒तेनेत्या॒हादा᳚भ्या॒ वै नामै॒षाऽऽ*हु॑तिर् वैश्वकर्म॒णी नैन॑ञ्चिक्या॒नम्भ्रातृ॑व्यो दभ्नो॒त्यथो॑ दे॒वता॑ ए॒वाव॑ रु॒न्धेऽग्ने॒ तम॒द्येति॑ प॒ङ्क्त्या जु॑होति प॒ङ्क्त्याऽऽहु॑त्या यज्ञमु॒खमा र॑भते स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह॒ होत्रा॑ ए॒वाव॑ रुन्धे॒ऽग्निर् दे॒वेभ्योऽपा᳚क्रामद्भाग॒धेय॑ [१३] मि॒च्छमा॑न॒ स्तस्मा॑ ए॒तद्भा॑ग॒धेय॒म्प्राय॑च्छन्ने॒तद् वा अ॒ग्नेर॑ग्निहो॒त्रमे॒तर्‌हि॒ खलु॒ वा ए॒ष जा॒तो यर्‌हि॒ सर्व॑श्चि॒तो जा॒तायै॒वास्मा॒ अन्न॒मपि॑ दधाति॒ स ए॑नम्प्री॒तः प्री॑णाति॒ वसी॑यान् भवति ब्रह्मवा॒दिनो॑ वदन्ति॒ यदे॒ष गार्‌ह॑पत्य श्ची॒यतेऽथ॒ क्वा᳚स्याऽऽहव॒नीय॒ इत्य॒सावा॑दि॒त्य इति॑ ब्रूयादे॒तस्मि॒न्॒‌हि सर्वा᳚भ्यो दे॒वता᳚भ्यो॒ जुह्व॑ति॒ [१४] य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते सा॒ख्‍षादे॒व दे॒वता॑ ऋद्ध्नो॒त्यग्ने॑ यशस्वि॒न्॒‌यश॑से॒मम॑र्प॒येन्द्रा॑वती॒ मप॑चितीमि॒हाऽऽव॑ह⁠। अ॒यम्मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चाः᳚ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु⁠॥ भ॒द्रम्पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒ख्‍षामृष॑यः सुव॒र्विदः॑⁠। ततः॑ ख्‍ष॒त्रम्बल॒मोज॑श्च जा॒तन्तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु⁠॥ धा॒ता वि॑धा॒ता प॑र॒मो [१५] त स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚⁠। स्तोमा॒ श्छन्दा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सन्न॑माम⁠॥ अ॒भ्याव॑र्तद्ध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर् वो अस्तु⁠। अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भद्ध्वमि॒मम्प॒श्चादनु॑ जीवाथ॒ सर्वे᳚⁠॥ रा॒ष्ट्र॒भृत॑ ए॒ता उप॑ दधात्ये॒षा वा अ॒ग्नेश्चिती॑ राष्ट्र॒भृत् तयै॒वास्मि॑न् रा॒ष्ट्रन्द॑धाति रा॒ष्ट्रमे॒व भ॑वति॒ नास्मा᳚द् रा॒ष्ट्रम्भ्र॑ꣳशते⁠ [१६] (भा॒ग॒धेयं॒ ॒ जुह्व॑ति पर॒मा रा॒ष्ट्रन्द॑धाति स॒प्त च॑) ॥४॥
यथा॒ वै पु॒त्रो जा॒तो म्रि॒यत॑ ए॒वव्ँवा ए॒ष म्रि॑यते॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति॒ यन्नि॑र्म॒न्थ्यं॑ कु॒र्याद्विच्छि॑न्द्या॒द्भ्रातृ॑व्यमस्मै जनये॒थ् स ए॒व पुनः॑ प॒रीद्ध्यः॒ स्वादे॒वैन॒य्ँयोने᳚र् जनयति॒ नास्मै॒ भ्रातृ॑व्यञ्जनयति॒ तमो॒ वा ए॒तङ्गृ॑ह्णाति॒ यस्या॒ग्निरुख्य॑ उ॒द्वाय॑ति मृ॒त्युस्तमः॑ कृ॒ष्णव्ँवासः॑ कृ॒ष्णा धे॒नुर् दख्‍षि॑णा॒ तम॑सै॒ [१७] व तमो॑ मृ॒त्युमप॑ हते॒ हिर॑ण्यन्ददाति॒ ज्योति॒र् वै हिर॑ण्य॒ञ्ज्योति॑षै॒व तमोऽप॑ ह॒तेऽथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वाऽऽत्मन् ध॑त्ते॒ सुव॒र् न घ॒र्मः स्वाहा॒ सुव॒र् नाऽर्कः स्वाहा॒ सुव॒र् न शु॒क्रः स्वाहा॒ सुव॒र् न ज्योतिः॒ स्वाहा॒ सुव॒र् न सूर्यः॒ स्वाहा॒ऽर्को वा ए॒ष यद॒ग्निर॒सावा॑दि॒त्यो᳚ [१८] ऽश्वमे॒धो यदे॒ता आहु॑तीर् जु॒होत्य॑र्काश्वमे॒धयो॑रे॒व ज्योती॑ꣳषि॒ सन्द॑धात्ये॒ष ह॒ त्वा अ॑र्काश्वमे॒धी यस्यै॒तद॒ग्नौ क्रि॒यत॒ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ् स ए॒ताम्प्र॒जाप॑तिः प्रथ॒माञ्चिति॑मपश्य॒त् तामुपा॑धत्त॒ तदि॒यम॑भव॒त् तव्ँवि॒श्वक॑र्माऽब्रवी॒दुप॒ त्वाऽऽ*या॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ [१९] ब्रवी॒थ् स ए॒तान्द्वि॒तीया॒ञ्चिति॑मपश्य॒त् तामुपा॑धत्त॒ तद॒न्तरि॑ख्‍षमभव॒थ् स य॒ज्ञः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाऽऽ*या॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ् स वि॒श्वक॑र्माणमब्रवी॒दुप॒ त्वाऽऽ*या॒नीति॒ केन॑ मो॒पैष्य॒सीति॒ दिश्या॑भि॒रित्य॑ब्रवी॒त् तन्दिश्या॑भिरु॒पैत् ता उपा॑धत्त॒ ता दिशो॑ [२०] ऽभव॒न्थ् स प॑रमे॒ष्ठी प्र॒जाप॑तिमब्रवी॒दुप॒ त्वाऽऽ*या॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ् स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा᳚ब्रवी॒दुप॑ वा॒माऽया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स ए॒तान्तृ॒तीया॒ञ्चिति॑मपश्य॒त् तामुपा॑धत्त॒ तद॒साव॑भव॒थ् स आ॑दि॒त्यः प्र॒जाप॑तिमब्रवी॒दुप॒ त्वा [२१] ऽऽ*या॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रवी॒थ् स वि॒श्वक॑र्माणञ्च य॒ज्ञञ्चा᳚ब्रवी॒दुप॑ वा॒माऽया॒नीति॒ नेह लो॒को᳚ऽस्तीत्य॑ब्रूता॒ꣳ॒ स प॑रमे॒ष्ठिन॑मब्रवी॒दुप॒ त्वाऽऽ*या॒नीति॒ केन॑ मो॒पैष्य॒सीति॑ लोकंपृ॒णयेत्य॑ब्रवी॒त् तल्ँलो॑कंपृ॒णयो॒पैत् तस्मा॒दया॑तयाम्नी लोकंपृ॒णाऽया॑तयामा॒ ह्य॑सा [२२] वा॑दि॒त्य स्तानृष॑योऽब्रुव॒न्नुप॑ व॒ आऽया॒मेति॒ केन॑ न उ॒पैष्य॒थेति॑ भू॒म्नेत्य॑ब्रुव॒न् तान् द्वाभ्या॒ञ्चिती᳚भ्यामु॒पाय॒न्थ् स पञ्च॑चितीकः॒ सम॑पद्यत॒ य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते भूया॑ने॒व भ॑वत्य॒भीमाल्ँलो॒काञ्ज॑यति वि॒दुरे॑नन्दे॒वा अथो॑ ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यङ्गच्छति⁠ [२३] (तम॑सा ऽऽदि॒त्यो᳚ ऽस्तीति॒ दिश॑ आदि॒त्यः प्र॒जाप॑ति मब्रवी॒दुप॑ त्वा॒ ऽसौ पञ्च॑चत्वारिꣳशच्च) ॥५॥
वयो॒ वा अ॒ग्निर् यद॑ग्नि॒चित् प॒ख्‍षिणो᳚ऽश्ञी॒यात् तमे॒वाग्निम॑द्या॒दार्ति॒मार्च्छे᳚थ् सव्ँवथ्स॒रव्ँव्र॒तं च॑रेथ् सव्ँवथ्स॒रꣳ हि व्र॒तन्नाति॑ प॒शुर् वा ए॒ष यद॒ग्निर्‌हि॒नस्ति॒ खलु॒ वै तम्प॒शुर् य ए॑नं पु॒रस्ता᳚त् प्र॒त्यञ्च॑मुप॒चर॑ति॒ तस्मा᳚त् प॒श्चात् प्राङु॑प॒चर्य॑ आ॒त्मनोऽहि॑ꣳसायै॒ तेजो॑ऽसि॒ तेजो॑ मे यच्छ पृथि॒वीय्ँय॑च्छ [२४] पृथि॒व्यै मा॑ पाहि॒ ज्योति॑रसि॒ ज्योति॑र् मे यच्छा॒न्तरि॑ख्‍षय्ँयच्छा॒न्तरि॑ख्‍षान्मा पाहि॒ सुव॑रसि॒ सुव॑र् मे यच्छ॒ दिव॑य्ँयच्छ दि॒वो मा॑ पा॒हीत्या॑है॒ताभि॒र् वा इ॒मे लो॒का विधृ॑ता॒ यदे॒ता उ॑प॒दधा᳚त्ये॒षाल्ँलो॒काना॒व्ँविधृ॑त्यै स्वयमातृ॒ण्णा उ॑प॒धाय॑ हिरण्येष्ट॒का उप॑दधाती॒मे वै लो॒काः स्व॑यमातृ॒ण्णा ज्योति॒र् हिर॑ण्य॒य्ँयथ् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ [२५] हिरण्येष्ट॒का उ॑प॒दधा॑ती॒माने॒वैताभि॑र् लो॒काञ्ज्योति॑ष्मतः कुरु॒तेऽथो॑ ए॒ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति॒ यास्ते॑ अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिव॑मात॒न्वन्ति॑ र॒श्मिभिः॑⁠। ताभिः॒ सर्वा॑भी रु॒चे जना॑य न स्कृधि⁠॥ या वो॑ देवाः॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒ या रुचः॑⁠। इन्द्रा᳚ग्नी॒ ताभिः॒ सर्वा॑भी॒ रुच॑न्नो धत्त बृहस्पते⁠॥ रुच॑न्नो धेहि [२६] ब्राह्म॒णेषु॒ रुच॒ꣳ॒ राज॑सु न स्कृधि⁠। रुच॑व्ँवि॒श्ये॑षु शू॒द्रेषु॒ मयि॑ धेहि रु॒चा रुच᳚म्⁠। द्वे॒धा वा अ॒ग्निञ्चि॑क्या॒नस्य॒ यश॑ इन्द्रि॒यं ग॑च्छत्य॒ग्निव्ँवा॑ चि॒तमी॑जा॒नव्ँवा॒ यदे॒ता आहु॑तीर् जु॒होत्या॒त्मन्ने॒व यश॑ इन्द्रि॒यन्ध॑त्त ईश्व॒रो वा ए॒ष आर्ति॒मार्तो॒र्यो᳚ऽग्निञ्चि॒न्वन्न॑धि॒क्राम॑ति॒तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ इति॑ वारु॒ण्यर्चा [२७] जु॑हुया॒च्छान्ति॑रे॒वैषाऽग्नेर् गुप्ति॑रा॒त्मनो॑ ह॒विष्कृ॑तो॒ वा ए॒ष यो᳚ऽग्निञ्चि॑नु॒ते यथा॒ वै ह॒विः स्कन्द॑त्ये॒वव्ँवा ए॒ष स्क॑न्दति॒ यो᳚ऽग्निञ्चि॒त्वा स्त्रिय॑मु॒पैति॑ मैत्रावरु॒ण्याऽऽमिख्‍ष॑या यजेत मैत्रावरु॒णता॑मे॒वोपै᳚त्या॒त्मनोऽस्क॑न्दाय॒ यो वा अ॒ग्निमृ॑तु॒स्थाव्ँवेद॒र्तुर्‌ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति सव्ँवथ्स॒रो वा अ॒ग्निर् [२८] ऋ॑तु॒स्थास्तस्य॑ वस॒न्तः शिरो᳚ ग्री॒ष्मो दख्‍षि॑णः प॒ख्‍षो व॒र्॒‌षाः पुच्छ॑ꣳ श॒रदुत्त॑रः प॒ख्‍षो हे॑म॒न्तो मद्ध्य॑म्पूर्वप॒ख्‍षाश्चित॑योऽपरप॒ख्‍षाः पुरी॑षमहोरा॒त्राणीष्ट॑का ए॒ष वा अ॒ग्निर्‌ऋ॑तु॒स्था य ए॒वव्ँवेद॒र्तुर्‌ऋ॑तुरस्मै॒ कल्प॑मान एति॒ प्रत्ये॒व ति॑ष्ठति प्र॒जाप॑ति॒र् वा ए॒तञ्ज्यैष्ठ्य॑कामो॒ न्य॑धत्त॒ ततो॒ वै स ज्यैष्ठ्य॑मगच्छ॒द्य ए॒वव्ँवि॒द्वान॒ग्निञ्चि॑नु॒ते ज्यैष्ठ्य॑मे॒व ग॑च्छति⁠ [२९] (पृ॒थि॒वीय्ँय॑च्छ॒ यथ् स्व॑यमातृ॒ण्णा उ॑प॒धाय॑ धेह्यृ॒ चा ऽग्नि श्चि॑नु॒ते त्रीणि॑ च) ॥६॥
यदाकू॑ताथ् स॒मसु॑स्रोद्धृ॒दो वा॒ मन॑सो वा॒ संभृ॑त॒ञ्चख्‍षु॑षो वा⁠। तमनु॒ प्रेहि॑ सुकृ॒तस्य॑ लो॒कय्ँयत्रर्‌ष॑यः प्रथम॒जा ये पु॑रा॒णाः⁠॥ ए॒तꣳ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा᳚च्छेव॒धिञ्जा॒तवे॑दाः⁠। अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर् वो॒ अत्र॒ तꣴ स्म॑ जानीत पर॒मे व्यो॑मन्⁠॥ जा॒नी॒तादे॑नम्पर॒मे व्यो॑म॒न् देवाः᳚ सधस्था वि॒द रू॒पम॑स्य⁠। यदा॒गच्छा᳚त् [३०] प॒थिभि॑र् देव॒यानै॑रिष्टापू॒र्ते कृ॑णुतादा॒विर॑स्मै⁠॥ सम्प्र च्य॑वद्ध्व॒मनु॒ सम्प्र या॒ताग्ने॑ प॒थो दे॑व॒याना᳚न् कृणुद्ध्वम्⁠। अ॒स्मिन्थ् स॒धस्थे॒ अद्ध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत⁠॥ प्र॒स्त॒रेण॑ परि॒धिना᳚ स्रु॒चा वेद्या॑ च ब॒र्॒‌हिषा᳚⁠। ऋ॒चेमय्ँय॒ज्ञन्नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे⁠॥ यदि॒ष्टय्ँयत् प॑रा॒दान॒य्ँयद्द॒त्तय्ँया च॒ दख्‍षि॑णा⁠। त [३१] द॒ग्निर् वै᳚श्वकर्म॒णः सुव॑र् दे॒वेषु॑ नो दधत्⁠॥ येना॑ स॒हस्र॒व्ँवह॑सि॒ येना᳚ग्ने सर्ववेद॒सम्⁠। तेने॒मय्ँय॒ज्ञन्नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे⁠॥ येना᳚ग्ने॒ दख्‍षि॑णा यु॒क्ता य॒ज्ञव्ँवह॑न्त्यृ॒त्विजः॑⁠। तेने॒मय्ँय॒ज्ञन्नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे⁠॥ येना᳚ग्ने सु॒कृतः॑ प॒था मधो॒र् धारा᳚ व्यान॒शुः⁠। तेने॒मय्ँय॒ज्ञन्नो॑ वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे⁠॥ यत्र॒ धारा॒ अन॑पेता॒ मधो᳚र् घृ॒तस्य॑ च॒ याः⁠। तद॒ग्निर् वै᳚श्वकर्म॒णः सुव॑र् दे॒वेषु॑ नो दधत्⁠ [३२] (वह॒ सुव॑र् दे॒वेषु॒ गन्त॑वे॒ चतु॑र्दश च) ॥७॥
या स्ते॑ अग्ने स॒मिधो॒ यानि॒ धाम॒ या जि॒ह्वा जा॑तवेदो॒ यो अ॒र्चिः⁠। ये ते॑ अग्ने मे॒डयो॒ य इन्द॑व॒स्तेभि॑रा॒त्मान॑ञ्चिनुहि प्रजा॒नन्न्⁠॥ उ॒थ्स॒न्न॒य॒ज्ञो वा ए॒ष यद॒ग्निः किव्ँवाऽहै॒तस्य॑ क्रि॒यते॒ किव्ँवा॒ न यद्वा अ॑द्ध्व॒र्युर॒ग्नेश्चि॒न्वन्न॑ न्त॒रेत्या॒त्मनो॒ वै तद॒न्तरे॑ति॒ यास्ते॑ अग्ने स॒मिधो॒ यानि॒ [३३] धामेत्या॑है॒षा वा अ॒ग्नेः स्व॑यञ्चि॒तिर॒ग्निरे॒व तद॒ग्निञ्चि॑नोति॒ नाद्ध्व॒र्युरा॒त्मनो॒ऽन्तरे॑ति॒ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नय॑ इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्⁠। घृ॒तम्पिन्व॑न्न॒जर॑ꣳ सु॒वीर॒म्ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम्⁠॥ सु॒व॒र्गाय॒ वा ए॒ष लो॒कायोप॑ धीयते॒ यत् कू॒र्मश्चत॑स्र॒ आशाः॒ प्र च॑रन्त्व॒ग्नय॒ इत्या॑ह॒ [३४] दिश॑ ए॒वैतेन॒ प्र जा॑नाती॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्नित्या॑ह सुव॒र्गस्य॑ लो॒कस्या॒भिनी᳚त्यै॒ ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीना॒मित्या॑ह॒ ब्रह्म॑णा॒ वै दे॒वाः सु॑व॒र्गल्ँलो॒कमा॑य॒न्॒‌यद्ब्रह्म॑ण्वत्योप॒दधा॑ति॒ ब्रह्म॑णै॒व तद्यज॑मानः सुव॒र्गल्ँलो॒कमे॑ति प्र॒जाप॑ति॒र् वा ए॒ष यद॒ग्निस्तस्य॑ प्र॒जाः प॒शव॒ श्छन्दा॑ꣳसि रू॒पꣳ सर्वा॒न्॒‌वर्णा॒निष्ट॑कानाङ्कुर्याद् रू॒पेणै॒व प्र॒जाम्प॒शून् छन्दा॒ꣴ॒स्यव॑ रु॒न्धेऽथो᳚ प्र॒जाभ्य॑ ए॒वैन॑म्प॒शुभ्य॒ श्छन्दो᳚भ्योऽव॒रुद्ध्य॑ चिनुते⁠ [३५] (यान्य॒ग्नय॒ इत्या॒हेष्ट॑काना॒ꣳ॒षोड॑श च) ॥८॥
मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निꣳ रा॒य स्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य⁠। मयि॑ प्र॒जाम्मयि॒ वर्चो॑ दधा॒म्यरि॑ष्टाः स्याम त॒नुवा॑ सु॒वीराः᳚⁠॥ यो नो॑ अ॒ग्निः पि॑तरो हृ॒थ्स्व॑न्तरम॑र्त्यो॒ मर्त्या॑ꣳ आवि॒वेश॑⁠। तमा॒त्मन् परि॑ गृह्णीमहे व॒यम्मा सो अ॒स्माꣳ अ॑व॒हाय॒ परा॑ गात्⁠॥ यद॑द्ध्व॒र्युरा॒त्मन्न॒ग्निमगृ॑हीत्वा॒ऽग्निञ्चि॑नु॒याद्यो᳚ऽस्य॒ स्वो᳚ऽग्नि स्तमपि॒ [३६] यज॑मानाय चिनुयाद॒ग्निङ्खलु॒ वै प॒शवोऽनूप॑ तिष्ठन्तेऽप॒क्रामु॑का अस्मात् प॒शवः॑ स्यु॒र् मयि॑ गृह्णा॒म्यग्रे॑ अ॒ग्निमित्या॑हा॒ऽऽत्मन्ने॒व स्वम॒ग्निन्दा॑धार॒ नास्मा᳚त् प॒शवोऽप॑ क्रामन्ति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृच्चाऽऽप॑ श्चा॒ग्नेर॑ना॒द्यमथ॒ कस्मा᳚न्मृ॒दा चा॒द्भि श्चा॒ग्नि श्ची॑यत॒ इति॒ यद॒द्भिः स॒य्ँयौ [३७] त्यापो॒ वै सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वैन॒ꣳ॒ सꣳ सृ॑जति॒ यन्मृ॒दा चि॒नोती॒यव्ँवा अ॒ग्निर् वै᳚श्वान॒रो᳚ऽग्निनै॒व तद॒ग्निञ्चि॑नोति ब्रह्मवा॒दिनो॑ वदन्ति॒ यन्मृ॒दा चा॒द्भि श्चा॒ग्नि श्ची॒यतेऽथ॒ कस्मा॑द॒ग्निरु॑च्यत॒ इति॒ यच्छन्दो॑भि श्चि॒नोत्य॒ग्नयो॒ वै छन्दा॑ꣳसि॒ तस्मा॑द॒ग्निरु॑च्य॒तेऽथो॑ इ॒यव्ँवा अ॒ग्निर् वै᳚श्वान॒रो य [३८] न्मृ॒दा चि॒नोति॒ तस्मा॑द॒ग्निरु॑च्यते हिरण्येष्ट॒का उप॑ दधाति॒ ज्योति॒र् वै हिर॑ण्य॒ञ्ज्योति॑रे॒वाऽस्मि॑न् दधा॒त्यथो॒ तेजो॒ वै हिर॑ण्य॒न्तेज॑ ए॒वाऽऽत्मन् ध॑त्ते॒ यो वा अ॒ग्निꣳ स॒र्वतो॑मुखञ्चिनु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑यति गाय॒त्रीम्पु॒रस्ता॒दुप॑ दधाति त्रि॒ष्टुभ॑न्दख्‍षिण॒तो जग॑तीम्प॒श्चाद॑नु॒ष्टुभ॑मुत्तर॒तः प॒ङ्क्तिम्मद्ध्य॑ ए॒ष वा अ॒ग्निः स॒र्वतो॑मुख॒स्तय्ँय ए॒वव्ँवि॒द्वाꣴ श्चि॑नु॒ते सर्वा॑सु प्र॒जास्वन्न॑मत्ति॒ सर्वा॒ दिशो॒ऽभि ज॑य॒त्यथो॑ दि॒श्ये॑व दिश॒म्प्र व॑यति॒ तस्मा᳚द्दि॒शि दिक् प्रोता᳚⁠ [३९] (अपि॑ स॒य्ँयौति॑वैश्वान॒रो य दे॒ष वै पञ्च॑विꣳशतिश्च) ॥९॥
प्र॒जाप॑तिर॒ग्निम॑सृजत॒ सो᳚ऽस्माथ् सृ॒ष्टः प्राङ् प्राऽद्र॑व॒त् तस्मा॒ अश्व॒म्प्रत्या᳚स्य॒थ् स द॑ख्‍षि॒णा ऽऽ*व॑र्तत॒ तस्मै॑ वृ॒ष्णिम्प्रत्या᳚स्य॒थ् स प्र॒त्यङ्ङाऽव॑र्तत॒ तस्मा॑ ऋष॒भम्प्रत्या᳚स्य॒थ् स उद॒ङ्ङाऽव॑र्तत॒ तस्मै॑ ब॒स्तम्प्रत्या᳚स्य॒थ् स ऊ॒र्द्ध्वो᳚ऽद्रव॒त् तस्मै॒ पुरु॑ष॒म्प्रत्या᳚स्य॒द्यत् प॑शुशी॒र्॒‌षाण्यु॑प॒दधा॑ति स॒र्वत॑ ए॒वैन॑ [४०] मव॒रुद्ध्य॑ चिनुत ए॒ता वै प्रा॑ण॒भृत॒श्चख्‍षु॑ष्मती॒रिष्ट॑का॒ यत् प॑शुशी॒र्॒‌षाणि॒ यत् प॑शुशी॒र्॒‌षा ण्यु॑प॒दधा॑ति॒ ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑ल्ँलो॒के प्राणि॒त्यथो॒ ताभि॑रे॒वास्मा॑ इ॒मे लो॒काः प्र भा᳚न्ति मृ॒दाऽभि॒लिप्योप॑ दधाति मेद्ध्य॒त्वाय॑ प॒शुर् वा ए॒ष यद॒ग्निरन्न॑म्प॒शव॑ ए॒ष खलु॒ वा अ॒ग्निर् यत् प॑शुशी॒र्॒‌षाणि॒ यङ्का॒मये॑त॒ कनी॑यो॒ऽस्यान्न॑ꣴ [४१] स्या॒दिति॑ सन्त॒रान्तस्य॑ पशुशी॒र्॒‌षाण्युप॑ दद्ध्या॒त् कनी॑य ए॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त स॒माव॑ द॒स्यान्न॑ꣴ स्या॒दिति॑ मद्ध्य॒त स्तस्योप॑ दद्ध्याथ् स॒माव॑दे॒वास्यान्न॑म्भवति॒ यङ्का॒मये॑त॒ भूयो॒ऽस्याऽन्न॑ꣴ स्या॒दित्यन्ते॑षु॒ तस्य॑ व्यु॒दूह्योप॑ दद्ध्यादन्त॒त ए॒वास्मा॒ अन्न॒मव॑ रुन्धे॒ भूयो॒ऽस्यान्नं॑ भवति⁠ [४२] (ए॒न॒ म॒स्यान्नं॒ भूयो॒ऽस्याऽन्न॑म्भवति) ॥१०॥
स्ते॒गान् दꣴष्ट्रा᳚भ्याम्म॒ण्डूका॒न् जंभ्ये॑भि॒राद॑कांखा॒देनोर्ज॑ꣳ सꣳ सू॒देनार॑ण्य॒ञ्जांबी॑लेन॒ मृदं॑ ब॒र्स्वे॑भिः॒ शर्क॑राभि॒रव॑का॒मव॑काभिः॒ शर्क॑रामुथ्सा॒देन॑ जि॒ह्वाम॑वक्र॒न्देन॒ तालु॒ꣳ॒ सर॑स्वतीञ्जिह्वा॒ग्रेण॑⁠ [४३] (स्ते॒गान् द्वावि॑ꣳशतिः) ॥११॥
वाज॒ꣳ॒ हनू᳚भ्याम॒प आ॒स्ये॑नाऽऽदि॒त्याञ् छ्मश्रु॑भिरुपया॒ममध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणा नूका॒शम्प्र॑का॒शेन॒ बाह्य॑ꣴ स्तनयि॒त्नुन्नि॑र्बा॒धेन॑ सूर्या॒ग्नी चख्‍षु॑र्भ्याव्ँवि॒द्युतौ॑ क॒नान॑काभ्याम॒शनि॑म्म॒स्तिष्के॑ण॒ बल॑म्म॒ज्जभिः॑⁠ [४४] (वाजं॒ पञ्च॑विꣳशतिः) ॥१२॥
कू॒र्माञ्छ॒फैर॒च्छला॑भिः क॒पिञ्ज॑ला॒न्थ् साम॒ कुष्ठि॑काभिर् ज॒वञ्जङ्घा॑भिरग॒दञ्जानु॑भ्याव्ँवी॒र्यं॑ कु॒हाभ्या᳚म्भ॒यम्प्र॑चा॒लाभ्या॒ङ्गुहो॑पप॒ख्‍षाभ्या॑म॒श्विना॒वꣳसा᳚भ्या॒मदि॑तिꣳ शी॒र्ष्णा निर्‌ऋ॑ति॒न्निर्जा᳚ल्मकेन शी॒र्ष्णा⁠ [४५] (कू॒र्मान् त्रयो॑विꣳशतिः) ॥१३॥
योक्त्र॒ङ्गृद्ध्रा॑भिर् यु॒गमान॑तेन चि॒त्तम्मन्या॑भिः संक्रो॒शान् प्रा॒णैः प्र॑का॒शेन॒ त्वच॑म्पराका॒शेनान्त॑राम्म॒शका॒न् केशै॒रिन्द्र॒ꣴ॒ स्वप॑सा॒ वहे॑न॒ बृह॒स्पति॑ꣳ शकुनिसा॒देन॒ रथ॑मु॒ष्णिहा॑भिः⁠ [४६] (योक्त्र॒ मेक॑विꣳशतिः) ॥१४॥
मि॒त्रावरु॑णौ॒ श्रोणी᳚भ्यामिन्द्रा॒ग्नी शि॑ख॒ण्डाभ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्या॒मिन्द्रा॒विष्णू॑ अष्ठी॒वद्भ्या॑ꣳ सवि॒तार॒म्पुच्छे॑न गन्ध॒र्वाञ्छेपे॑नाफ्स॒रसो॑ मु॒ष्काभ्या॒म्पव॑मानम्पा॒युना॑ प॒वित्रं॒ पोत्रा᳚भ्यामा॒क्रम॑णꣴ स्थू॒राभ्या᳚म्प्रति॒क्रम॑ण॒ङ्कुष्ठा᳚भ्याम्⁠ [४७] (मि॒त्रावरु॑णौ॒ द्वावि॑ꣳशतिः) ॥१५॥
इन्द्र॑स्य क्रो॒डोऽदि॑त्यै पाज॒स्य॑न्दि॒शाञ्ज॒त्रवो॑ जी॒मूता᳚न् हृदयौप॒शाभ्या॑म॒न्तरि॑ख्‍षम्पुरि॒तता॒ नभ॑ उद॒र्ये॑णेन्द्रा॒णीम्प्ली॒ह्ना व॒ल्मीका᳚न् क्लो॒म्ना गि॒रीन् प्ला॒शिभिः॑ समु॒द्रमु॒दरे॑ण वैश्वान॒रम्भस्म॑ना⁠ [४८] (इन्द्र॑स्य॒ द्वावि॑शतिः) ॥१६॥
पू॒ष्णो व॑नि॒ष्ठुर॑न्धा॒हेः स्थू॑रगु॒दा स॒र्पान् गुदा॑भिर् ऋ॒तून् पृ॒ष्टीभि॒र् दिव॑म्पृ॒ष्ठेन॒ वसू॑नां प्रथ॒मा कीक॑सा रु॒द्राणा᳚न्द्वि॒तीया॑ऽऽदि॒त्याना᳚न्तृ॒तीयाऽङ्गि॑रसाञ्चतु॒र्थी सा॒द्ध्याना᳚म्पञ्च॒मी विश्वे॑षान्दे॒वाना॑ꣳ ष॒ष्ठी⁠ [४९] (पू॒ष्ण श्चतु॑र्विꣳशतिः) ॥१७॥
ओजो᳚ ग्री॒वाभि॒र् निर्‌ऋ॑तिम॒स्थभि॒रिन्द्र॒ꣴ॒ स्वप॑सा॒ वहे॑न रु॒द्रस्य॑ विच॒लः स्क॒न्धो॑ऽहोरा॒त्रयो᳚र् द्वि॒तीयो᳚ऽर्द्धमा॒साना᳚न्तृ॒तीयो॑ मा॒साञ्च॑तु॒र्थ ऋ॑तू॒नाम्प॑ञ्च॒मः स॑व्ँवथ्स॒रस्य॑ ष॒ष्ठः⁠ [५०] (ओजो॑ विꣳश॒तिः) ॥१८॥
आ॒न॒न्दन्न॒न्दथु॑ना॒ काम॑म्प्रत्या॒साभ्या᳚म्भ॒यꣳ शि॑ती॒मभ्या᳚म्प्र॒शिष॑म्प्रशा॒साभ्या॑ꣳ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याꣴ श्यामशब॒लौ मत॑स्नाभ्या॒व्ँव्यु॑ष्टिꣳ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण⁠ [५१] (आ॒न॒न्दꣳ षोड॑श) ॥१९॥
अह॑र् मा॒ꣳ॒सेन॒ रात्रि॒म्पीव॑सा॒ऽपो यू॒षेण॑ घृ॒तꣳ रसे॑न॒ श्याव्ँवस॑या दू॒षीका॑भिर् ह्रा॒दुनि॒मश्रु॑भिः॒ पृष्वा॒न्दिव॑ꣳ रू॒पेण॒ नख्‍ष॑त्राणि॒ प्रति॑रूपेण पृथि॒वीञ्चर्म॑णा छ॒वीञ्छ॒व्यो॑पाकृ॑ताय॒ स्वाहाऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚⁠ [५२] (अह॑र॒ ष्टावि॑ꣳशतिः) ॥२०॥
अ॒ग्नेः प॑ख्‍ष॒तिः सर॑स्वत्यै॒ निप॑ख्‍षतिः॒ सोम॑स्य तृ॒तीया॒ऽपाञ्च॑तु॒र्थ्योष॑धीनाम्पञ्च॒मी स॑व्ँवथ्स॒रस्य॑ ष॒ष्ठी म॒रुता॑ꣳ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षान्दे॒वाना᳚न्द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्ँय॒मस्य॑ पाटू॒रः⁠ [५३] (अ॒ग्ने रेका॒न्नत्रि॒ꣳ॒शत्) ॥२१॥
वा॒योः प॑ख्‍ष॒तिः सर॑स्वतो॒ निप॑ख्‍षतिश्च॒न्द्रम॑सस्तृ॒तीया॒ नख्‍ष॑त्राणाञ्चतु॒र्थी स॑वि॒तुः प॑ञ्च॒मी रु॒द्रस्य॑ ष॒ष्ठी स॒र्पाणा॑ꣳ सप्त॒म्य॑र्यं॒णो᳚ऽष्ट॒मी त्वष्टु॑र् नव॒मी धा॒तुर् द॑श॒मीन्द्रा॒ण्या ए॑काद॒श्यदि॑त्यै द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वय्ँय॒म्यै॑ पाटू॒रः⁠ [५४] (वा॒यो र॒ष्टावि॑ꣳशतिः) ॥२२॥
पन्था॑मनू॒वृग्भ्या॒ꣳ॒ सन्त॑तिꣴ स्नाव॒न्या᳚भ्या॒ꣳ॒ शुका᳚न् पि॒त्तेन॑ हरि॒माण॑य्ँय॒क्ना हली᳚ख्‍ष्णान् पापवा॒तेन॑ कू॒श्माञ्छक॑भिः शव॒र्तानूव॑द्ध्येन॒ शुनो॑ वि॒शस॑नेन स॒र्पाल्ँलो॑हितग॒न्धेन॒ वया॑ꣳसि पक्वग॒न्धेन॑ पि॒पीलि॑काः प्रशा॒देन॑⁠ [५५] (पन्थां॒द्वावि॑ꣳशतिः) ॥२३॥
क्रमै॒रत्य॑क्रमीद्वा॒जी विश्वै᳚र् दे॒वैर् य॒ज्ञियैः᳚ सव्ँविदा॒नः⁠। स नो॑ नय सुकृ॒तस्य॑ लो॒कन्तस्य॑ ते व॒यꣴ स्व॒धया॑ मदेम⁠ [५६] (क्रमै॑ र॒ष्टाद॑श) ॥२४॥
द्यौ स्ते॑ पृ॒ष्ठम्पृ॑थि॒वी स॒धस्थ॑मा॒त्माऽन्तरि॑ख्‍षꣳ समु॒द्रो योनिः॒ सूर्य॑ स्ते॒ चख्‍षु॒र् वातः॑ प्रा॒णश्च॒न्द्रमाः॒ श्रोत्र॒म्मासा᳚श्चार्द्धमा॒साश्च॒ पर्वा᳚ण्यृ॒तवोऽङ्गा॑नि सव्ँवथ्स॒रो म॑हि॒मा⁠ [५७] (द्यौः पञ्च॑विꣳशतिः) ॥२५॥
अ॒ग्निः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तल्ँलो॒कम॑जय॒द् यस्मि॑न्न॒ग्निः स ते॑ लो॒कस्तञ्जे᳚ष्य॒स्यथाव॑ जिघ्र वा॒युः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तल्ँलो॒कम॑जय॒द्यस्मि॑न् वा॒युः स ते॑ लो॒कस्तस्मा᳚त् त्वा॒ऽन्तरे᳚ष्यामि॒ यदि॒ नाव॒जिघ्र॑स्यादि॒त्यः प॒शुरा॑सी॒त् तेना॑यजन्त॒ स ए॒तल्ँलो॒कम॑जय॒द् यस्मि॑ न्नादि॒त्यः स ते॑ लो॒कस्तञ्जे᳚ष्यसि॒ यद्य॑व॒जिघ्र॑सि⁠ [५८] (यस्मि॑ न्न॒ष्टौ च॑) ॥२६॥
(यो वा अय॑थादेवत॒ न्त्वाम॑ग्न॒ इन्द्र॑स्य॒ चित्तिं॒ यथा॒ वै वयो॒ वै यदाकू॑ता॒द् यास्ते॑ अग्ने॒ मयि॑ गृह्णामि प्र॒जाप॑तिः॒ सो᳚ऽस्माथ् स्ते॒गान् वाजं॑ कू॒र्मान् योक्त्रं॑ मि॒त्रावरु॑णा॒ विन्द्र॑स्य पू॒ष्ण ओज॑ आन॒न्द मह॑ र॒ग्नेर् वा॒योः पन्थां॒ क्रमै॒र् द्यौस्ते॒ ऽग्निः प॒शुरा॑सी॒थ् षड् वि॑ꣳशतिः)
(यो वा ए॒वाऽऽहु॑ति मभवन् प॒थिभि॑ रव॒रुद्ध्या॑ ऽऽन॒न्द म॒ष्टौ प॑ञ्चा॒शत्)
(यो वा अय॑थादेवतं॒ यद्य॑व॒जिघ्र॑सि)
(सा॒वि॒त्राणि॒ विष्णु॑मुखा उथ्सन्नय॒ज्ञो दे॑वासु॒रायदेके॑न॒ हिर॑ण्यवर्णा॒ यो वास॒प्त)
अनुवाकाः पञ्चशती
२६ ५८