विष्णु सूक्तं

विष्णुसूक्तम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
१.१

विष्णु सूक्तं

विष्णो॒र् नुकं॑ वी॒र्या॑णि॒ प्र वो॑च॒य्ँयः पार्त्थि॑वानि विम॒मे रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः⁠॥विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒ श्ञप्त्रे᳚ स्थो॒ विष्णो॒ स्स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा⁠॥तद॑स्य प्रि॒यम॒भिपाथो॑ अश्यां⁠। नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति⁠। उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था⁠। विष्णोः᳚ प॒दे प॑र॒मे मद्ध्व॒ उथ्सः॑⁠॥प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य⁠। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः⁠। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु⁠। अधि॑ख्‍षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚⁠॥प॒रो मात्र॑या त॒नुवा॑ वृधान⁠। न ते॑ महि॒त्वमन्व॑श्ञवन्ति⁠। उ॒भेते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑देव॒त्वं⁠। प॒र॒मस्य॑ विथ्से⁠॥विच॑क्रमे पृथि॒वीमे॒ष ए॒तां⁠। ख्‍षेत्रा॑य॒ विष्णु॒र् मनु॑षे दश॒स्यन्न्⁠। ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः⁠। उ॒रु॒ख्‍षि॒तिꣳ सु॒जनि॑माचकार⁠॥त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां⁠। विच॑क्रमे श॒तर्च॑सं महि॒त्वा⁠। प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्⁠। त्वे॒षꣴ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

१.२

विष्णु सूक्तं

विष्णो॒र् नुकं॑ वी॒र्या॑णि॒ प्र वो॑च॒य्ँयः पार्त्थि॑वानि विम॒मे रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः⁠॥ १ विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒ श्ञप्त्रे᳚ स्थो॒ विष्णो॒ स्स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा⁠॥ २ तद॑स्य प्रि॒यम॒भि पाथो॑ अश्यां॒ नरो॒ यत्र॑ देव॒ यवो॒ मद॑न्ति⁠। उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मद्ध्व॒ उथ्सः॑⁠॥ ३ प्र तद्विष्णु॑स्स्तवते वी॒र्या॑य मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः⁠। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णे॒ष्वधि॑ ख्‍षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚⁠॥ ४ प॒रो मात्र॑या त॒नुवा॑ वृधान न ते॑ महि॒त्वमन्व॑श्ञवन्ति⁠। उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ विथ्से⁠॥ ५ विच॑क्रमे पृथि॒वीमे॒ष ए॒तां ख्‍षेत्रा॑य॒ विष्णु॒र् मनु॑षे दश॒स्यन्न्⁠। ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुख्‍षि॒तिꣳ सु॒जनि॑मा चकार⁠॥ ६ त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताव्ँविच॑क्रमे श॒तर्च॑ संमहि॒त्वा⁠। प्र विष्णु॑रस्तु त॒वस॒ स्तवी॑यान् त्वे॒षꣴ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑⁠।
Sections२
Mantras२
Version5.0