जयादि होमः

जयादिहोमः

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
१

जयादि होमः

एतत् कर्म समृद्ध्यर्थं जयादि होमं करिष्ये⁠। चि॒त्तञ्च॒ स्वाहा᳚ चित्ताय इदं न मम⁠॥ १ चित्ति॑श्च॒ स्वाहा᳚ चित्त्या इदं न मम⁠॥ २ आकू॑तञ्च॒ स्वाहा᳚ आकूताय इदं न मम⁠॥ ३ आकू॑तिश्च॒ स्वाहा᳚ आकूत्या इदं न मम⁠॥ ४ विज्ञा॑तञ्च॒ स्वाहा᳚ विज्ञाताय इदं न मम⁠॥ ५ वि॒ज्ञान॑श्च॒ स्वाहा᳚ विज्ञानाय इदं न मम⁠॥ ६ मन॑श्च॒ स्वाहा᳚ मनस इदं न मम⁠॥ ७ शक्व॑रीश्च॒ स्वाहा᳚ शक्वरीभ्य इदं न मम⁠॥ ८ दर्‌श॑श्च॒ स्वाहा᳚ दर्‌शाय इदं न मम⁠॥ ९ पू॒र्णमा॑सश्च॒ स्वाहा᳚ पूर्णमासाय इदं न मम⁠॥ १० बृ॒हच्च॒ स्वाहा᳚ बृहत इदं न मम⁠॥ ११ र॒थ॒न्त॒रश्च॒ स्वाहा᳚ रथन्तराय इदं न मम⁠॥ १२ प्र॒जाप॑ति॒र्जया॒निन्द्रा॑य॒ वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑ष्ठ॒ तस्मै॒ विश्व॒ स्सम॑नमन्त॒ सर्वा॒ स्स उ॒ग्र स्स हि हव्यो॑ ब॒भूव॒ स्वाहा᳚⁠। प्रजापतय इदं न मम⁠॥अ॒ग्निर् भू॒ताना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। अग्नय इदं न मम⁠॥ १४ इन्द्रो᳚ ज्ये॒ष्ठाना॒मधि॑पति॒स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। इन्द्राय इदं न मम⁠॥ १५ य॒मः पृ॑थि॒व्याऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। यमाय इदं न मम⁠॥ १६ वा॒युर॒न्तरि॑ख्‍ष॒स्याऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। वायव इदं न मम⁠॥ १७ सूर्यो॑ दि॒वोऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। सूर्याय इदं न मम⁠॥ १८ च॒न्द्रमा॒ नख्‍ष॑त्राणा॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। चन्द्रमस इदं न मम⁠॥ १९ बृह॒स्पति॒र् ब्रह्म॒णोऽधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। बृहस्पतय इदं न मम⁠॥ २० मि॒त्रस्स॒त्याना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। मित्राय इदं न मम⁠॥ २१ वरु॑णो॒ऽपामधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। वरुणाय इदं न मम⁠॥ २२ स॒मु॒द्रः स्रो॒त्याना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। समुद्राय इदं न मम⁠॥ २३ अन्न॒ꣳ॒ साम्रा᳚ज्याना॒मधि॑पति॒ तन्मा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। अन्नाय इदं न मम⁠॥ २४ सोम॒ ओष॑धीना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। सोमाय इदं न मम⁠॥ २५ स॒वि॒ता प्र॑स॒वाना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। सवित्र इदं न मम⁠॥ २६ रु॒द्रः प॑शू॒नामधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। रुद्राय इदं न मम⁠॥ २७ (अप उपस्पृश्य त्वष्टा॑ रू॒पाणा॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। त्वष्ट्र इदं न मम⁠॥ २८ विष्णुः॒ पर्व॑ताना॒मधि॑पति॒ स्समा॑वत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। विष्णव इदं न मम⁠॥ २९ म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्तेमा॑ऽवन्त्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑ म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। मरुद्भ्य इदं न मम⁠॥ ३० पित॑रः पितामहाः परेऽवरे॒ तता᳚स्ततामहा इ॒हमा॑ऽवता॒ऽस्मिन् ब्रह्म॑न्न॒स्मिन् ख्‍ष॒त्रे᳚ऽस्या मा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू᳚त्या॒ꣴ॒ स्वाहा᳚⁠। पितृभ्य इदं न मम⁠॥ ३१ मन्त्रोक्त देवताभ्य इदं न मम (अप उपस्पृश्य ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौष॑धयो ऽफ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। अग्नये गन्धर्वाय इदं न मम⁠॥ ३२ ताभ्यः॒ स्वाहा᳚⁠। ओषधीभ्योऽफ्सरोभ्य इदं न मम⁠॥ ३३ स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयो ऽफ्स॒रस॑ आ॒युवो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। सूर्याय गन्धर्वाय इदं न मम⁠॥ ३४ ताभ्यः॒ स्वाहा᳚⁠। मरीचिभ्यो ऽफ्सरोभ्य इदं न मम⁠॥ ३५ सु॒षु॒म्न स्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्‍ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। चन्द्रमसे गन्धर्वाय इदं न मम⁠॥ ३६ ताभ्यः॒ स्वाहा᳚⁠। नख्‍षत्रेभ्योऽफ्सरोभ्य इदं न मम⁠॥ ३७ भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्‍षि॑णा अफ्स॒रसः॑ स्त॒वा नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। यज्ञाय गन्धर्वाय इदं न मम⁠॥ ३८ ताभ्यः॒ स्वाहा᳚⁠। दख्‍षिणाभ्यो ऽफ्सरोभ्य इदं न मम⁠॥ ३९ प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। मनसे गन्धर्वाय इदं न मम⁠॥ ४० ताभ्यः॒ स्वाहा᳚⁠। ऋख्सामेभ्योऽफ्सरोभ्य इदं न मम⁠॥ ४१ इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्यापो᳚ ऽफ्स॒रसो॑ मु॒दा नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। वाताय गन्धर्वाय इदं न मम⁠॥ ४२ ताभ्यः॒ स्वाहा᳚⁠। अद्भ्योऽफ्सरोभ्य इदं न मम⁠॥ ४३ भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑⁠। स नो॑ रा॒स्वाऽज्या॑निꣳ रा॒यस्पोष॑ꣳ सु॒वीर्य॑ꣳ सव्ँवथ्स॒रीणा॑ꣴ स्व॒स्तिꣴ स्वाहा᳚⁠। भुवनस्य पत्ये इदं न मम⁠॥ ४४ प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। मृत्यवे गन्धर्वाय इदं न मम⁠॥ ४५ ताभ्यः॒ स्वाहा᳚⁠। विश्वस्मा ऽफ्सरोभ्य इदं न मम⁠॥ ४६ सु॒ख्‍षि॒तिस्सुभू॑तिर्भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ ऽफ्स॒रसो॒ रुचो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। पर्जन्याय गन्धर्वाय इदं न मम⁠॥ ४७ ताभ्यः॒ स्वाहा᳚⁠। विद्युद्भ्योऽफ्सरोभ्य इदं न मम⁠॥ ४८ दू॒रेहे॑तिरमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। मृत्यवे गन्धर्वाय इदं न मम⁠॥ ४९ ताभ्यः॒ स्वाहा᳚⁠। प्रजाभ्योऽफ्सरोभ्य इदं न मम⁠॥ ५० चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र् नाम॒ स इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्‍ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा᳚⁠। कामाय गन्धर्वाय इदं न मम⁠॥ ५१ ताभ्यः॒ स्वाहा᳚⁠। आधिभ्योऽफ्सरोभ्य इदं न मम⁠॥ ५२ स नो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑⁠। उ॒रु ब्रह्म॑णे॒ऽस्मै ख्‍ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚⁠। भुवनस्यपत्ये ब्रह्मण इदं न मम⁠॥प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव⁠। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाꣴ स्वाहा᳚⁠। प्रजापतय इदं न मम⁠॥ ५४ भू॒ स्स्वाहा᳚ अग्नय इदं न मम⁠॥ ५५ भुव॒ स्स्वाहा᳚ वायव इदं न मम⁠॥ ५६ सुव॒ स्स्वाहा᳚ सूर्याय इदं न मम⁠॥ ५७ यद॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒ यद्वा॒न्न्यू॑न मि॒हाक॑रं⁠। अ॒ग्निष्टत् स्वि॑ष्ट॒कृतत् वि॒द्वान् स्सर्व॒ꣴ॒ स्विष्ट॒ꣳ॒ सुहु॑तं करोतु॒ स्वाहा᳚⁠। अग्नये स्विष्टकृत इदं न मम⁠॥ ५८ परिध्यञ्जनं (नलेपकार्यं) परिधि प्रहरः इतरौ प्रहरनाघार समिधौ प्रहृत्यसꣴ स्रावं जुहोति. स्वहा᳚⁠। वसुभ्यो रुद्रेभ्यः आदितेभ्यः सꣴ स्राव भागेभ्यः इदं न मम⁠॥ ५९ अस्मिन् .......... होम कर्मणि मद्ध्ये संभावित मन्त्रलोभादि सकल दोषस्य प्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि⁠। ओं भूर्भुव॒स्सुव॒ स्स्वाहा᳚ प्रजापतय इदं न मम⁠॥ ६० ज्ञाताज्ञात दोष निर्हरणार्थं अनाज्ञात त्रय होमं करिष्ये⁠। अना᳚ज्ञात॒य्ँयदाज्ञा॑तं⁠। य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑⁠। अग्ने॒ तद॑स्य कल्पय⁠। त्वꣳ हि वेत्थे॑ यथात॒थꣴ स्वाहा᳚⁠। अग्नय इदं न मम⁠॥पुरु॑ष सम्मितो य॒ज्ञः⁠। य॒ज्ञः पुरु॑षसम्मितः⁠। अग्ने॒ तद॑स्य कल्पय⁠। त्वꣳ हि वेत्थे॑ यथात॒थꣴ स्वाहा᳚⁠। अग्नय इदं न मम⁠॥यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्‍षा॒ न⁠। य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः⁠। अ॒ग्निष्टद्धोता᳚ क्रतु॒ विद्वि॑जा॒नन्न्⁠। यजि॑ष्टो दे॒वाꣳ ऋ॑तु॒शो य॑जाति॒ स्वाहा᳚⁠।अग्नय इदं न मम⁠॥ ३ भू॒ स्स्वाहा᳚ अग्नय इदं न मम⁠॥ ४ भुव॒ स्स्वाहा᳚ वायव इदं न मम⁠॥ ५ सुव॒ स्स्वाहा᳚ सूर्याय इदं न मम⁠॥ ६ ओं भूर्भुव॒स्सुव॒ स्स्वाहा᳚ प्रजापतय इदं न मम⁠॥ ७ श्री विष्ण॑वे॒ स्वाहा᳚ श्री विष्णवे परमात्मन इदं न मम⁠॥ ८ नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚ रुद्राय पशुपतय इदं न मम⁠॥ ९ (अप उपस्पृश्य
१.१

वसोर्धरा मन्त्र पाठः

ṭś. 5-4-8-1
वसो॒र् धारां᳚ जुहोति॒ वसो᳚र् मे॒ धारा॑ऽस॒दिति॒ वा ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒ऽमुष्मि॑न् लो॒के पिन्व॑मा॒नोप॑ तिष्ठत॒, आज्ये॑न जुहोति॒ तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र् धारा॒ तेज॑सै॒वास्मै॒ तेजोऽव॑ रु॒न्धे, ऽथो॒ कामा॒ वै वसो॒र् धारा॒ कामा॑ने॒वाऽव॑ रुन्धे॒, यं का॒मये॑त प्रा॒णान॑स्या॒न्नाद्य॒व्ँवि
ṭś. 5-4-8-2
च्छि॑न्द्या॒मिति॑ वि॒ग्राहं॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒ऽन्नाद्य॒व्ँवि च्छि॑नत्ति॒, यं का॒मये॑त प्रा॒णान॑स्या॒ऽन्नाद्य॒ꣳ॒ सं त॑नुया॒मिति॒ सन्त॑तां॒ तस्य॑ जुहुयात् प्रा॒णाने॒वास्या॒न्नाद्य॒ꣳ॒ सं त॑नोति॒, द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒ मासा᳚ स्सव्ँवथ्स॒र स्स॑व्ँवथ्स॒रेणै॒ वा ऽस्मा॒ अन्न॒मव॑ रु॒न्धे, ऽन्नं॑ च॒ मेऽख्‍षु॑च्च म॒ इत्या॑है॒ तद् वा
ṭś. 5-4-8-3
अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒ऽमव॑ रुन्धे॒, ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मऽव॑ रुन्धेर्, ऽधे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाऽव॑ रुन्धे॒ यथ् सर्वे॑षाम॒र्द्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहेन्द्रि॒यमे॒वाऽस्मि॑न्नु॒परि॑ष्टाद् दधाति, यज्ञायु॒धानि॑ जुहोति य॒ज्ञो
ṭś. 5-4-8-4
वै य॑ज्ञायु॒धा॑नि य॒ज्ञमे॒वाऽव॑ रु॒न्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑ रू॒पꣳ रू॒पेणै॒व य॒ज्ञमव॑ रुन्धे, ऽवभृ॒थश्च॑ मे स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या, अ॒ग्निश्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद् वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पꣳ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒, ऋक् च॑ मे॒ साम॑ च म॒ इत्या॑है॒
ṭś. 5-4-8-5
तद्वै छन्द॑साꣳ रू॒पꣳ रू॒पेणै॒व छन्दा॒ꣴ॒स्यव॑ रुन्धे॒, गर्भा᳚श्च मे व॒थ्साश्च॑ म॒ इत्या॑है॒तद् वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे॒, कल्पा᳚ञ्जुहो॒त्यक्लृ॑प्तस्य॒ क्लृप्त्यै॑, युग्मदयु॒जे जु॑होति मिथुन॒त्वायो᳚, त्त॒राव॑ती भवतो॒ऽभिक्रा᳚न्त्या॒, एका॑ च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं वा एका॑ च ति॒स्रश्च॑
ṭś. 5-4-8-6
मनुष्यछन्द॒सं चत॑स्रश्चा॒ष्टौ च॑ देवछन्द॒सं चै॒व म॑नुष्यछन्द॒सं चाऽव॑ रुन्ध॒, आ त्रय॑स्त्रिꣳशतो जुहोति॒ त्रय॑स्त्रिꣳश॒द् वै दे॒वता॑ दे॒वता॑ ए॒वाऽव॑ रुन्ध॒ आऽष्टाच॑त्वारिꣳशतो जुहोत्य॒ष्टाच॑त्वारिꣳशदख्‍षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वाऽस्मै॑ प॒शूनव॑ रुन्धे॒, वाज॑श्च प्रस॒वश्चेति॑ द्वाद॒शं जु॑होति॒ द्वाद॑श॒ मासा᳚ स्सव्ँवथ्स॒र स्स॑व्ँवथ्स॒र ए॒व प्रति॑ तिष्ठति⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

१.२

पूर्णाहुतिः

पू॒र्णा॒हु॒तिमु॑त्त॒मां जु॑होति⁠। सर्व॒व्ँवै पू᳚र्णाहु॒तिः⁠। सर्व॑मे॒वाप्नो॑ति⁠। अथो॑ इ॒यव्ँवै पू᳚र्णाहु॒तिः⁠। अ॒स्यामे॒व प्रति॑तिष्ठति⁠।स॒प्त ते॑ अग्ने स॒मिध॑ स्स॒प्तजि॒ह्वास्स॒प्तर्‌ष॑यस्स॒प्तधाम॑ प्रि॒याणि॑⁠। स॒प्त होत्रा᳚ स्सप्त॒धा त्वा॑ यजन्ति स॒प्तयोनी॒रापृ॑णस्वा घृ॒तेन॒ स्वाहा᳚⁠। अग्नये सप्तवत इदं न मम⁠।
Sections३
Mantras३
Version5.0