वरुण सूक्तं

वरुणसूक्तम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑द्ध्य॒मꣴ श्र॑थाय⁠। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम⁠॥अस्त॑भ्ना॒त् द्यामृ॑ष॒भो अ॒न्तरि॑ख्‍ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑⁠॥यत् किञ्चे॒दव्ँव॑रुण॒ दैव्ये॒ जने॑ ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि⁠। अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒ स्तस्मा॒देन॑सो देव रीरिषः⁠॥कि॒त॒वासो॒ यद्रि॑रि॒पुर् न दी॒वि यद्वा॑ घा स॒त्यमु॒तयन्न वि॒द्म⁠। सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑⁠॥अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑⁠। ख्‍षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑ꣳसि शिश्रथः कृ॒तानि॑⁠॥तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒ स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑⁠। अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः⁠॥जुंभकाय॑ वि॒द्महे॑ पाशह॒स्ताय॑ धीमहि⁠। तन्नो॑ वरुणः प्रचो॒दया᳚त्⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sections१
Mantras१
Version5.0