कृष्ण यजुर्वेदीय एकाग्निकाण्डः

प्रथमः प्रश्नः
ओं नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠।
ॐ
अदि॒तेऽनु॑ मन्यस्व⁠। अनु॑म॒तेऽनु॑ मन्यस्व⁠।
सर॑स्व॒तेऽनु॑ मन्यस्व⁠। देव॑ सवितः॒ प्रसु॑व⁠॥
ओं अ॒ग्नये॒ स्वाहा᳚⁠। सोमा॑य॒ स्वाहा᳚⁠।
विश्वे᳚भ्यो दे॒वेभ्यः॒ स्वाहा᳚⁠। ध्रु॒वाय॑ भू॒माय॒ स्वाहा᳚⁠।
ध्रु॒व॒ख्‍षित॑ये॒ स्वाहा᳚⁠। अ॒च्यु॒त॒ख्‍षित॑ये॒ स्वाहा᳚⁠।
अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚⁠॥
अदि॒तेऽन्व॑मꣴस्थाः⁠। अनु॑म॒तेऽन्व॑मꣴस्थाः⁠।
सर॑स्व॒तेऽन्व॑मꣴस्थाः⁠। देव॑ सवितः॒ प्रासा॑वीः⁠॥
धर्मा॑य॒ स्वाहा᳚⁠। अध॑र्माय॒ स्वाहा᳚⁠। अ॒द्भ्यः स्वाहा᳚⁠।
ओ॒ष॒धि॒व॒न॒स्प॒तिभ्यः॒ स्वाहा᳚⁠। र॒ख्‍षो॒दे॒व॒ज॒नेभ्यः॒ स्वाहा᳚⁠।
गृह्या᳚भ्यः॒ स्वाहा᳚⁠। अ॒व॒साने᳚भ्यः॒ स्वाहा᳚⁠।
अ॒व॒सान॑पतिभ्यः॒ स्वाहा᳚⁠। स॒र्व॒भू॒तेभ्यः॒ स्वाहा᳚⁠।
कामा॑य॒ स्वाहा᳚⁠। अ॒न्तरि॑ख्‍षाय॒ स्वाहा᳚⁠।
यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽयं नाम्ने॒ स्वाहा᳚⁠।
पृ॒थि॒व्यै स्वाहा᳚⁠। अ॒न्तरि॑ख्‍षाय॒ स्वाहा᳚⁠।
दि॒वे स्वाहा᳚⁠। सूर्या॑य॒ स्वाहा᳚⁠। च॒न्द्रम॑से॒ स्वाहा᳚⁠।
नख्‍ष॑त्रेभ्यः॒ स्वाहा᳚⁠।
इन्द्रा॑य॒ स्वाहा᳚⁠। बृह॒स्पत॑ये॒ स्वाहा᳚⁠। प्र॒जाप॑तये॒
स्वाहा᳚⁠। ब्रह्म॑णे॒ स्वाहा᳚⁠। स्व॒धा पि॒तृभ्यः॒ स्वाहा᳚⁠।
नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚⁠।
ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ नक्तं॒ बलि॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚⁠।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा᳚⁠॥
१.१

विवाहे वरप्रेष्णाद्यः

१.१.१ वरप्रेषणं
प्र॒सु॒ग्मन्ता॑ धि॒यसा॒नस्य॑ स॒ख्‍षणि॑ व॒रेभि॑र् व॒राꣳ अ॒भि षु॒ प्रसी॑दत⁠। अ॒स्माक॒मिन्द्र॑ उ॒भयं॑ जुजोषति॒ यथ्सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति⁠॥ १ ॥१॥ अ॒नृ॒ख्‍ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा॑यो॒ यन्ति॑ नो वरे॒यम्⁠। सम॑र्य॒मा सं भगो॑ नो निनीया॒थ् सं जा᳚स्प॒त्यꣳ सु॒यम॑मस्तु देवाः⁠॥ २ ॥२॥
१.१.२ स्वयं दृष्ट्वा जपः
अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते⁠। इन्द्रापु॑त्रघ्नील्ँल॒ख्‍ष्म्यं॑ ताम॒स्यै स॑वितः सुव⁠॥ ३ ॥३॥
१.१.३ समीख्‍षणं
अघो॑रचख्‍षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚⁠। जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे⁠॥ ४ ॥४॥
१.१.४ वध्वा म्रुवोरन्तरं संसृज्य प्रतीचीनं निरसनं.
इ॒दम॒हय्ँया त्वयि॑ पति॒घ्न्य॑ल॒ख्‍ष्मिस्तां निर्दि॑शामि⁠॥ ५ ॥५॥
१.१.५ कन्यानयनकाले बन्धुजनरोदने जपः.
जी॒वाꣳ रु॑दन्ति॒ विम॑यन्ते अद्ध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र् नरः॑⁠। वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚⁠॥ ६ ॥६॥
१.१.६ जलाहरणाय प्रेषणं
व्यु॑ख्‍षत् क्रू॒रमुद॑च॒न्त्वाप॒ आऽस्यै ब्रा᳚ह्म॒णाः स्नप॑नꣳ हरन्तु⁠। अवी॑रघ्नी॒रुद॑च॒न्त्वापः॑⁠॥ ७ ॥७॥
१.१.७ वधूशिरसि दर्भेण्वनिधानं.
अ॒र्यं॒णो अ॒ग्निं परि॑ यन्तु ख्‍षि॒प्रं प्रती᳚ख्‍षन्ता॒ꣴ॒ श्वश्र्वो॑ दे॒वरा᳚श्च⁠॥ ८ ॥८॥
१.१.८ तस्मिन्निण्वे उगच्छिद्रप्रतिष्ठापनं .
खेऽनसः॒ खे रथः॒ खे युग॑स्य शचीपते⁠। अ॒पा॒लामि॑न्द्र॒ त्रिः पू॒र्त्व्य॑कर॒थ् सूर्य॑वर्चसम्⁠॥ ९ ॥९॥
१.१.९ छिद्रे सुवर्णनिधानं
शन्ते॒ हिर॑ण्य॒ꣳ॒ शमु॑ स॒न्त्वापः॒ शन्ते॑ मे॒धी भ॑वतु॒ शय्ँयु॒गस्य॒ तृद्म॑⁠। शन्त॒ आपः॑ श॒तप॑वित्रा भव॒न्त्वथा॒ पत्या॑ त॒न्व॑ꣳ सꣳ सृ॑जस्व⁠॥ १० ॥१०॥
(दी॒धि॒य॒र्नरो॒ऽष्टौ च॑) K1 (१८)
१.२

विवाहे स्नानाद्यः

१.२.१ स्नानमन्त्राः
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒काः प्रच॑क्रमुर्‌हि॒त्वाऽव॒द्यमापः॑⁠। श॒तं प॒वित्रा॒ वित॑ता॒ ह्या॑सु॒ ताभि॑ष्ट्वा दे॒वः स॑वि॒ता पु॑नातु⁠॥ १ ॥१॥ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्व॒ग्निः⁠। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु⁠॥ २ ॥२॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्⁠। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु⁠॥ ३ ॥३॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्‍षय्ँया अ॒न्तरि॑ख्‍षे बहु॒धा निवि॑ष्टाः⁠। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्तास्त॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु⁠॥ ४ ॥४॥ शि॒वेन॑ त्वा॒ चख्‍षु॑षा पश्यन्त्वापः शि॒वया॑ त॒न्वोप॑स्पृशन्तु॒ त्वचं॑ ते⁠। घृ॒त॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्तास्त॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु⁠॥ ५ ॥५॥
१.२.२ अहतस्य वाससः परिधानं
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑⁠। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः⁠॥ ६ ॥६॥
१.२.३ योक्त्रबन्धनं
आ॒शासा॒नेत्ये॒षा { }⁠॥ ७ ॥७॥
विस्तारः — आ॒शासा॒नेत्ये॒षा
आ॒शासा॒नेत्ये॒षा आ॒शासा॑ना सौमन॒सं प्र॒जाꣳ सौभा᳚ग्यं त॒नूम्⁠। अ॒ग्नेरनु॑व्रता भू॒त्वा सं न॑ह्ये सुकृ॒ताय॒ कम्⁠।
TS 1.1.10.1
१.२.४ अग्निमभ्यानयनं
पू॒षा त्वे॒तो न॑यतु॒ हस्त॒गृह्या॒श्विनौ᳚ त्वा॒ प्रव॑हता॒ꣳ॒ रथे॑न⁠। गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथाऽसो॑ व॒शिनी॒ त्वव्ँवि॒दथ॒माव॑दासि⁠॥ ८ ॥८॥
(भ॒व॒न्तु॒ पञ्च॑ च) K2 (१५)
१.३

आज्यभागान्ते अभिमन्त्रणं

१.३.१ आज्यभागान्ते अभिमन्त्रणं
सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः⁠। तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः⁠॥ १ ॥१॥ सोमो॑ ऽददद् गन्ध॒र्वाय॑ गन्ध॒र्वो ऽद॑दद॒ग्नये᳚⁠। र॒यिं च॑ पु॒त्राꣴश्चा॑दाद॒ग्निर् मह्य॒मथो॑ इ॒माम्⁠॥ २ ॥२॥
१.३.२ पाणिग्रहणमन्त्राः
गृ॒भ्णामि॑ ते सुप्रजा॒स्त्वाय॒ हस्तं॒ मया॒ पत्या॑ ज॒रद॑ष्टि॒र् यथाऽसः॑⁠। भगो॑ अर्य॒मा स॑वि॒ता पुर॑न्धि॒र् मह्यं॑ त्वाऽदु॒र्गार्‌ह॑पत्याय देवाः⁠॥ ३ ॥३॥ ते ह॒ पूर्वे॒ जना॑सो॒ यत्र॑ पूर्व॒वहो॑ हि॒ताः⁠। मू॒र्द्ध॒न्वान्‌यत्र॑ सौभ्र॒वः पूर्वो॑ दे॒वेभ्य॒ आऽत॑पत्⁠॥ ४ ॥४॥ सर॑स्वति॒ प्रेदम॑व॒ सुभ॑गे॒ वाजि॑नीवति⁠। तां त्वा॒ विश्व॑स्य भू॒तस्य॑ प्र॒गाया॑मस्यग्र॒तः⁠॥ ५ ॥५॥ य एति॑ प्र॒दिशः॒ सर्वा॒ दिशोऽनु॒ पव॑मानः⁠। हिर॑ण्यहस्त ऐरं॒मः स त्वा॒ मन्म॑नसं कृणोतु⁠॥ ६ ॥६॥
१.३.३ सप्तपदाभिप्रक्रमणं
एक॑मि॒षे विष्णु॒स्त्वाऽन्वे॑तु॒ ७, द्वे ऊ॒र्जे ८*, त्रीणि॑ व्र॒ताय॑ ९*, च॒त्वारि॒ मायो॑भवाय॒१०*, पञ्च॑ प॒शुभ्यः॒ ११*, षड् ऋ॒तुभ्यः॑ १२*, स॒प्त स॒प्तभ्यो॒ होत्रा᳚भ्यो॒ विष्णु॒स्त्वाऽन्वे॑तु⁠॥ १३ ॥१३॥
अनुषङ्गः — ८–१२
द्वे ऊ॒र्जे विष्णु॒स्त्वाऽन्वे॑तु ॥८॥
त्रीणि॑ व्र॒ताय॑ विष्णु॒स्त्वाऽन्वे॑तु ॥९॥
च॒त्वारि॒ मायो॑भवाय॒ विष्णु॒स्त्वाऽन्वे॑तु ॥१०॥
पञ्च॑ प॒शुभ्यः॒ विष्णु॒स्त्वाऽन्वे॑तु ॥११॥
षड् ऋ॒तुभ्यः॑ विष्णु॒स्त्वाऽन्वे॑तु ॥१२॥
सूनृते ॥१४॥
(अ॒ग्र॒तः षट्च॑) K3 (१६)
१.४

विवाहे प्रधानाहुतिमन्त्राः

१.४.१ प्रधानाहुतिमन्त्राः
सोमा॑य जनि॒विदे॒ स्वाहा॑ १, गन्ध॒र्वाय॑ जनि॒विदे॒ स्वाहा॒ २, ऽग्नये॑ जनि॒विदे॒ स्वाहा᳚⁠॥ ३ ॥३॥ क॒न्य॒ला पि॒तृभ्यो॑य॒ती प॑तिलो॒कमव॑ दी॒ख्‍षाम॑दास्थ॒ स्वाहा᳚⁠॥ ४ ॥४॥ प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत्⁠। यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगाऽस॑ति⁠॥ ५ ॥५॥ इ॒मां त्वमि॑न्द्र मीढ्वः सुपु॒त्राꣳ सु॒भगां᳚ कुरु (कृणु)⁠। दशा᳚स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शं कृ॑धि⁠॥ ६ ॥६॥ अ॒ग्निरै॑तु प्रथ॒मो दे॒वता॑ना॒ꣳ॒ सो᳚ऽस्यै प्र॒जां मु॑ञ्चतु मृत्युपा॒शात्⁠। तद॒यꣳ राजा॒ वरु॒णोऽनु॑मन्यता॒य्ँयथे॒यꣴ स्त्री पौत्र॑म॒घं न रोदा᳚त्⁠॥ ७ ॥७॥ इ॒माम॒ग्निस्त्रा॑यतां॒ गार्‌ह॑पत्यः प्र॒जाम॑स्यै नयतु दी॒र्घमायुः॑⁠। अशू᳚न्योपस्था॒ जीव॑तामस्तु मा॒ता पौत्र॑मान॒न्दम॒भि प्रबु॑द्ध्यतामि॒यं⁠॥ ८ ॥८॥ मा ते॑ गृ॒हे नि॒शि घोष॒ उत्था॑द॒न्यत्र॒ त्वद्रु॑द॒त्यः॑ सव्ँवि॑शन्तु⁠। मा त्वव्ँवि॑के॒श्युर॒ आवधि॑ष्ठा जी॒वप॑त्नी पतिलो॒के विरा॑ज॒ पश्य॑न्ती प्र॒जाꣳ सु॑मन॒स्यमा॑नाम्⁠॥ ९ ॥९॥ द्यौस्ते॑ पृ॒ष्ठꣳ र॑ख्‍षतु वा॒युरू॒रू अ॒श्विनौ॑ च॒ स्तनं॒ धय॑न्तꣳ सवि॒ताऽभिर॑ख्‍षतु⁠। आ वास॑सः परि॒धाना॒द्बृह॒स्पति॒र् विश्वे॑दे॒वा अ॒भिर॑ख्‍षन्तु प॒श्चात्⁠॥ १० ॥१०॥ अ॒प्र॒ज॒स्तां पौ᳚त्र मृ॒त्युं पा॒प्मान॑मु॒त वा॒ऽघम्⁠। शी॒र्ष्णः स्रज॑मिवो॒न्मुच्य॑ द्वि॒षद्भ्यः॒ प्रति॑ मुञ्चामि॒ पाश᳚म्⁠॥ ११ ॥११॥ इ॒मं मे॑ वरुण॒ १२{ }, तत्त्वा॑ यामि॒ १३{ }, त्वन्नो॑ अग्ने॒१४{ }, स त्वन्नो॑ अग्ने॒१५ { } , त्वम॑ग्ने अ॒याऽस्य॒या १६ , सन्मन॑सा हि॒तः⁠। अ॒या सन्‌ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम्⁠॥ १७ ॥१७॥
विस्तारः — इ॒मं मे॑ वरुण॒१२, तत्त्वा॑ यामि॒ १३, त्वन्नो॑ अग्ने॒ १४, स त्वन्नो॑ अग्ने॒ १५
इ॒मं मे॑ वरुण॒१२, तत्त्वा॑ यामि॒ १३, त्वन्नो॑ अग्ने॒ १४, स त्वन्नो॑ अग्ने॒ १५ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय⁠। त्वाम॑व॒स्युरा च॑के⁠॥ १२ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑⁠। अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः⁠॥ १३ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासि सीष्ठाः⁠। यजि॑ष्ठो॒ वह्नि॑ तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्रमु॑मुग्द्ध्य॒स्मत्⁠॥ १४ स त्वंनो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ⁠। अव॑यख्‍ष्व नो॒ वरु॑ण॒ꣳ॒ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि⁠॥ १५
TS 2.1.11.6
(इ॒यम॒ष्टौ च॑) K4 (१८)
१.५

अश्मास्थापनाद्यः

१.५.१ अश्मास्थापनं
आ ति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वꣴ स्थि॒रा भ॑व⁠। अ॒भिति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः⁠॥ १ ॥१॥
१.५.२ लाजहोमप्रदख्‍षिणादि.
इ॒यं ना॒र्युप॑ब्रूते॒ कुल्पा᳚न्यावपन्ति॒का⁠। दी॒र्घा॒युर॑स्तु मे॒ पति॒र् जीवा॑तु श॒रदः॑ श॒तम्⁠॥ २ ॥२॥ तुभ्य॒मग्रे॒ पर्य॑वहन्थ् सू॒र्याव्ँव॑ह॒तुना॑ स॒ह⁠। पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑ स॒ह⁠॥ ३ ॥३॥ पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा⁠। दी॒र्घा॒युर॑स्या॒ यः पतिः॒ स ए॑तु श॒रदः॑ श॒तम्⁠॥ ४ ॥४॥ विश्वा॑ उ॒त त्वया॑ व॒यं धारा॑ उद॒न्या॑ इव⁠। अति॑गाहेमहि॒ द्विषः॑⁠॥ ५ ॥५॥ आ ति॑ष्ठे॒ममश्मा॑नम्⁠॥ ६ ॥६॥ अ॒र्य॒मणं॒ नु दे॒वं क॒न्या॑ अ॒ग्निम॑यख्‍षत⁠। स इ॒मां दे॒वो अ॑द्ध्व॒रः प्रेतो मु॒ञ्चाति॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करत्⁠॥ ७ ॥७॥ तुभ्य॒मग्रे॒ पर्य॑वह॒न् ८, पुनः॒ पत्नी॑म॒ग्निर॑दा॒द् ९, विश्वा॑ उ॒त त्वया॑ व॒य १०, मा ति॑ष्ठे॒ममश्मा॑नम्⁠॥ ११ ॥११॥ त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्व॒धाव॒थ्स्व॑र्यं बि॒भर्‌षि॑⁠। अ॒ञ्जन्ति॑ वृ॒ख्‍षꣳ सुधि॑तं॒ न गोभि॒र्यद्दंप॑ती॒ सम॑नसा कृ॒णोषि॑⁠॥ १२ ॥१२॥ तुभ्य॒मग्रे॒ पर्य॑वह॒न् १३ पुनः॒ पत्नी॑म॒ग्निर॑दा॒द् १४ विश्वा॑ उ॒त त्वया॑ व॒यम्⁠॥ १५ ॥१५॥
१.५.३ योक्त्रविमोचनं
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाऽब॑ध्नाथ् सवि॒ता सु॒केतः॑⁠। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ स॒ह पत्या॑ करोमि (कृणोमि)⁠॥ १६ ॥१६॥ इ॒मव्ँविष्या॑मि॒ वरु॑णस्य॒ पाश॒य्ँयमब॑ध्नीत सवि॒ता सु॒शेवः॑⁠। धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या॑ करोमि (कृणोमि)⁠॥ १७ ॥१७॥
१.५.४ अनुगतस्यौपासनाग्नेः समाधान मन्त्राः
अ॒याश्चा॒ग्ने ऽस्य॑नभिश॒स्तीश्च॑ स॒त्यमि॑त्त्वम॒या अ॑सि⁠। अय॑सा॒ मन॑सा धृ॒तो॑ऽयसा॑ ह॒व्यमू॑हिषे॒ऽया नो॑ धेहि भेष॒जम्⁠॥ १८ ॥१८॥
(द्विषः॑ सु॒शेव॒ स्त्रीणि॑ च) K5 (२३)
१.६

विवाहे प्रयाणकाले स्थस्योत्तंभनी

१.६.१ प्रयाणकाले स्थस्योत्तंभनी
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः⁠। ऋ॒तेना॑दि॒त्यास्तिष्ठ॑न्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः⁠॥ १ ॥१॥
१.६.२ वाहयोजनं
विस्तारः — यु॒ञ्जन्ति॑ ब्र॒द्ध्नं(२), योगे॑योगे ३
यु॒ञ्जन्ति॑ ब्र॒द्ध्नं(२), योगे॑योगे ३ यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑त॒स्थुषः॑⁠। रोच॑न्ते रोच॒ना दि॒वि⁠॥ २ योगे॑योगे त॒वस्त॑र॒व्ँवाजे॑वाजे हवामहे⁠। सखा॑य॒ इन्द्र॑मू॒तये᳚⁠॥ ३
TS 7.4.20.1
१.६.३ आरोहणकालेऽभिमन्त्रणं
सु॒कि॒ꣳ॒शु॒कꣳ श॑ल्म॒लिव्ँवि॒श्वरू॑प॒ꣳ॒ हिर॑ण्यवर्णꣳ सु॒वृत॑ꣳ सुच॒क्रम्⁠। आरो॑ह वद्ध्व॒मृत॑स्य लो॒कꣴ स्यो॒नं पत्ये॑ वह॒तुं कृ॑णुष्व⁠॥ ४ ॥४॥ उदु॑त्त॒रमा॒रोह॑न्ती व्य॒स्यन्ती॑ पृतन्य॒तः⁠। मू॒र्द्धानं॒ पत्यु॒रारो॑ह प्र॒जया॑ च वि॒राड्भ॑व⁠॥ ५ ॥५॥ स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्वश्रु॒वां भ॑व⁠। नना᳚न्दरि स॒म्राज्ञी॑ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑⁠॥ ६ ॥६॥ स्नु॒षाणा॒ꣴ॒ श्वशु॑राणां प्र॒जाया᳚श्च॒ धन॑स्य च⁠। पती॑नां च देवृ॒णां च॑ सजा॒ताना᳚व्ँवि॒राड्भ॑व⁠॥ ७ ॥७॥
१.६.४ वर्त्मनोस्सूत्रस्तरणं
नी॒ल॒लो॒हि॒ते भ॑वतः कृ॒त्या स॒क्तिर्व्य॑ज्यते⁠। एध॑न्तेऽस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बद्ध्यते⁠॥ ८ ॥८॥
१.६.५ ततुपरि गमनं
ये व॒द्ध्वश्च॒न्द्रव्ँव॑ह॒तुय्ँयख्‍ष्मा॒ यन्ति॒ जना॒ꣳ॒ अनु॑⁠। पुन॒स्तान्‌य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः⁠॥ ९ ॥९॥ मा वि॑दन् परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंप॑ती⁠। सु॒गेभि॑र् दु॒र्गमती॑ता॒मप॑द्रा॒न्त्वरा॑तयः⁠॥ १० ॥१०॥ सु॒गं पन्था॑न॒मारु॑ख्‍ष॒मरि॑ष्टꣴ स्वस्ति॒वाह॑नम्⁠। यस्मि॑न् वी॒रो न रिष्य॑त्य॒न्येषा᳚व्ँवि॒न्दते॒ वसु॑⁠॥ ११ ॥११॥
(धन॑स्य च॒ नव॑ च) K6 (१९)
१.७

विवाहे तीर्थादिव्यतिक्रमजपाद्यः

१.७.१ तीर्थादिव्यतिक्रमे जपः
ता म॑न्दसा॒ना मनु॑षो दुरो॒ण आध॒त्तꣳ र॒यिं द॒शवी॑रव्ँवच॒स्यवे᳚⁠। कृ॒तं ती॒र्थꣳ सु॑प्रपा॒णꣳ शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिꣳ ह॑तम्⁠॥ १ ॥१॥
१.७.२ नावोऽनुमन्त्रणं
अ॒यन्नो॑ म॒ह्याः पा॒रꣴ स्व॒स्ति ने॑ष॒द्वन॒स्पतिः॑⁠। सीरा॑ नः सु॒तरा॑ भव दीर्घायु॒त्वाय॒ वर्च॑से⁠॥ २ ॥२॥
१.७.३ तीर्त्त्वा जपः
अ॒स्य॒ पा॒रे नि॑र्‌ऋ॒थस्य॑ जी॒वा ज्योति॑रशीमहि⁠। म॒ह्या इ॑न्द्रः स्व॒स्तये᳚⁠॥ ३ ॥३॥
१.७.४ श्मशानादिव्यतिक्रमे होमः
यदृ॒ते चि॑दभि॒ श्रिषः॑ पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑⁠। सन्धा॑ता स॒न्धिं म॒घवा॑ पुरो॒वसु॒र् निष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑⁠॥ ४ ॥४॥ इडा॑मग्न ५ { }. इ॒मं मे॑ वरुण॒ ६ { }. तत्त्वा॑ यामि॒ ७ { }. त्वन्नो॑ अग्ने॒ ८ { }. स त्वन्नो॑ अग्ने॒ ९ { }. त्वम॑ग्ने अ॒यासि॑ { }⁠॥ १० ॥१०॥
विस्तारः — इडा॑मग्न ५, इ॒मं मे॑ वरुण॒ (६).
इडा॑मग्न ५, इ॒मं मे॑ वरुण॒ (६). तत्त्वा॑ यामि॒ ७, त्वन्नो॑ अग्ने॒ ८ , स त्वन्नो॑ अग्ने॒ ९, त्वम॑ग्ने अ॒यासि॑ १०. इडा॑मग्ने पुरु॒दꣳस॑ꣳ स॒निं गोः श॑श्वत्त॒मꣳ हव॑मानाय साध⁠। स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर् भू᳚त्व॒स्मे⁠॥ ५ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय⁠। त्वाम॑व॒स्युरा च॑के⁠॥ ६ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑⁠। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः⁠॥ ७ त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासि सीष्ठाः⁠। यजि॑ष्ठो॒ वह्नि॑ तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्रमु॑मुग्ध्य॒स्मत्⁠॥ ८ स त्वंनो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ⁠। अव॑ यख्‍ष्व नो॒ वरु॑ण॒ꣳ॒ ररा॑णो वी॒हि मृ॑डी॒कꣳ सु॒हवो॑ न एधि⁠॥ ९ त्वम॑ग्ने अ॒याऽसि॑⁠। अ॒या सन्मन॑सा हि॒तः⁠। अ॒या सन्‌ह॒व्यमू॑हिषे⁠। अ॒या नो॑ धेहि भेष॒जम्⁠। इ॒ष्टो अ॒ग्निराहु॑तः⁠। स्वाहा॑कृतः पिपर्तु नः⁠। स्व॒गा दे॒वेभ्य॑ इ॒दं नमः॑⁠॥ १०
TS 4.2.4.3
१.७.५ ख्‍षीरिवृख्‍षाद्यतिक्रमे जपः
ये ग॑न्ध॒र्वा अ॑फ्स॒रस॑श्च दे॒वीरे॒षु वृ॒ख्‍षेषु॑ वानस्प॒त्येष्वास॑ते⁠। शि॒वास्ते अ॒स्यै व॒द्ध्वै॑ भवन्तु॒ मा हि॑ꣳसिषुर् वह॒तुमू॒ह्यमा॑नाम्⁠॥ ११ ॥११॥
१.७.६ नद्याद्यतिक्रमे जपः
या ओष॑धयो॒ या न॒द्यो॑ यानि॒ धन्वा॑नि॒ ये वना᳚⁠। ते त्वा॑ वधु प्र॒जाव॑तीं॒ प्र त्वे मु॑ञ्च॒न्त्वꣳह॑सः⁠॥ १२ ॥१२॥
१.७.७ वद्ध गृहप्रदर्शनं
संका॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चख्‍षु॑षा॒ मैत्रे॑ण⁠। प॒र्याण॑द्धव्ँवि॒श्वरू॑प॒य्ँयद॒स्याꣴ स्यो॒नं पति॑भ्यः सवि॒ता कृ॑णोतु॒ तत्⁠॥ १३ ॥१३॥
१.७.८ वाहयोविमोकः
आवा॑मगन्थ् सुम॒तिर् वा॑जिनीवसू॒न्यश्वि॑ना हृ॒थ्सु कामा॑ꣳ अयꣳसत⁠। अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्यं॒णो दुर्या॑ꣳ अशीमहि⁠॥ १४ ॥१४॥ अ॒यन्नो॑ दे॒वः स॑वि॒ता बृह॒स्पति॑रिन्द्रा॒ग्नी मि॒त्रावरु॑णा स्व॒स्तये᳚⁠। त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सꣳररा॒णः काम॒ आया॑तं॒ कामा॑य त्वा॒ विमु॑ञ्चतु⁠॥ १५ ॥१५॥
(आस॑ते॒ नव॑ च) K7 (१९)
१.८

विवाहे चर्मास्तरणाद्यः

१.८.१ चर्मास्तरणं
शर्म॒ वर्मे॒दमाह॑रा॒स्यै नार्या॑ उप॒स्तिरे᳚⁠। सिनी॑वालि॒ प्रजा॑यतामि॒यं भग॑स्य सुम॒ताव॑सत्⁠॥ १ ॥१॥
१.८.२ गृहप्रवेशे वाचनं
गृ॒हान्भ॒द्रान्थ्सु॒मन॑सः॒ प्रप॒द्येऽवी॑रघ्नी वी॒रव॑तः सु॒वीरा॑न्⁠। इरा॒व्ँवह॑तो घृ॒तमु॒ख्‍षमा॑णा॒स्तेष्व॒हꣳ सु॒मनाः॒ सव्ँवि॑शामि⁠॥ २ ॥२॥
१.८.३ प्रविश्य होमः
आग॑न् गो॒ष्ठं महि॑षी॒ गोभि॒रश्वै॒रायु॑ष्मत्पत्नी प्र॒जया᳚ स्व॒र्वित्⁠। ब॒ह्वीं प्र॒जां ज॒नय॑न्ती सुरत्ने॒मम॒ग्निꣳ श॒तहि॑माः सपर्यात्⁠॥ अ॒यम॒ग्निर् गृ॒हप॑तिः सुस॒ꣳ॒सत् पु॑ष्टि॒वर्द्ध॑नः⁠। यथा॒ भग॑स्या॒भ्यां दद॑द्र॒यिं पुष्टि॒मथो᳚ प्र॒जाम्⁠॥ ४ ॥४॥ प्र॒जाया॑ आभ्यां प्रजापत॒ इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम्⁠। यथैन॑यो॒र् न प्र॑मी॒याता॑ उ॒भयो॒र् जीव॑तोः प्र॒जा⁠॥ ५ ॥५॥ तेन॑ भू॒तेन॑ ह॒विषा॒ऽयमाप्या॑यतां॒ पुनः॑⁠। जा॒याय्ँयाम॑स्मा॒ आवा᳚ख्‍षु॒स्ताꣳ रसे॑ना॒भिव॑र्द्धताम्⁠॥ ६ ॥६॥ अ॒भिव॑र्द्धतां॒ पय॑सा॒ऽभि रा॒ष्ट्रेण॑ वर्द्धताम्⁠। र॒य्या स॒हस्र॑पोषसे॒मौ स्ता॒मन॑पेख्‍षितौ⁠॥ ७ ॥७॥ इ॒हैव स्तं॒ मा वियो᳚ष्ट॒व्ँविश्व॒मायु॒र्व्य॑श्नुतम्⁠। म॒ह्या इ॑न्द्रः स्व॒स्तये᳚⁠॥ ८ ॥८॥ ध्रु॒वैधि पो᳚ष्या॒ मयि॒ मह्यं॑ त्वाऽदा॒द्बृह॒स्पतिः॑⁠। मया॒ पत्या᳚ प्र॒जाव॑ती॒ सञ्जी॑व श॒रद॑श्श॒तम्⁠। ९ ॥९॥ त्वष्टा॑ जा॒याम॑जनय॒त् त्वष्टा᳚ऽस्यै॒ त्वां पति᳚म्⁠। त्वष्टा॑ स॒हस्र॒मायू॑ꣳषि दी॒र्घमायुः॑ कृणोतु वां⁠॥ १० ॥१०॥ इ॒मं मे॑ वरुण॒११{ }, तत्त्वा॑ यामि॒१२{ }, त्वन्नो॑ अग्ने॒१३ { }, स त्वन्नो॑ अग्ने॒१४{ }, त्वम॑ग्ने अ॒याऽसि॑ { }⁠॥ १५ ॥१५॥
विस्तारः — इ॒मं मे॑ वरुण॒११, तत्त्वा॑ यामि॒१२ , त्वन्नो॑ अग्ने॒१३ , स त्वन्नो॑ अग्ने॒१४, त्वम॑ग्ने
इ॒मं मे॑ वरुण॒११, तत्त्वा॑ यामि॒१२ , त्वन्नो॑ अग्ने॒१३ , स त्वन्नो॑ अग्ने॒१४, त्वम॑ग्ने अ॒याऽसि॑
१.७.४
(जीव॑तोः प्र॒जावा॒मेकं॑ च) K8 (२१)
१.९

विवाहे चर्मोपवेशनाद्यः

१.९.१ चर्मोपवेशनं
इ॒ह गावः॒ प्रजा॑यध्वमि॒हाश्वा॑ इ॒ह पूरु॑षाः⁠। इ॒हो स॒हस्र॑दख्‍षिणो रा॒यस्पोषो॒ निषी॑दतु⁠॥ १ ॥१॥
१.९.२ षालकाय फलदानं
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी दृ॒ढा⁠। अथो॒ नख्‍ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आधि॑तः⁠॥ २ ॥२॥ प्रस्वः स्थः॒ प्रेयं प्र॒जया॒ भुव॑ने शोचेष्ट⁠॥ ३ ॥३॥
१.९.३ गृहप्रवेशे जपः
इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑द्ध्यताम॒स्मिन् गृ॒हे गार्‌ह॑पत्याय जागृहि⁠। ए॒ना पत्या॑ त॒न्व॑ꣳ सꣳसृ॑ज॒स्वाथा॒ जीव्री॑ वि॒दथ॒माव॑दासि⁠॥ ४ ॥४॥ सु॒म॒ङ्ग॒लीरि॒यव्ँव॒धूरि॒माꣳ स॑मेत॒ पश्य॑त⁠। सौभा᳚ग्यम॒स्यै द॒त्वायाथास्त॒व्ँविपरे॑तन⁠॥ ५ ॥५॥
१.९.४ ध्रुवारुन्धाति दर्शनं
ध्रु॒वख्‍षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वम॑सि ध्रु॒वतः॑ स्थि॒तं⁠। त्वन्नख्‍ष॑त्राणां मे॒थ्यसि॒ स मा॑ पाहि पृतन्य॒तः⁠॥ ६ ॥६॥ स॒प्त॒र्॒‌षयः॑ प्रथ॒मां कृत्ति॑कानामरुन्ध॒तीम्⁠। यद्ध्रु॒वता॒ꣳ॒ ह नि॒न्युः षट्कृत्ति॑का मुख्ययो॒गव्ँवह॑न्ती॒यम॒स्माक॑मेधत्वष्ट॒मी⁠॥ ७ ॥७॥
१.९.५ उपकारणसमापनयोः काण्डर्षीणामनन्तरं होमः
सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म्⁠। सनिं॑ मे॒धाम॑यासिषम्⁠॥ ८ ॥८॥
१.९.६ स्वयं प्रज्वलितेऽग्नौ समिदाधानं
उद्दी᳚प्यस्व जातवेदोऽप॒घ्नन्निर्‌ऋ॑तिं॒ मम॑⁠। प॒शूꣴश्च॒ मह्य॒माव॑ह॒ जीव॑नञ्च॒ दिशो॑ दिश (दश)⁠॥ ९ ॥९॥ मा नो॑ हिꣳसीज्जातवेदो॒ गामश्वं॒ पुरु॑षं॒ जग॑त्⁠। अबि॑भ्र॒दग्न॒ आग॑हि श्रि॒या मा॒ परि॑पातय⁠॥ १० ॥१०॥
(ध्रु॒वतः॑ स्थि॒तं नव॑ च) K9 (१९)
१.१०

विवाहे दाण्डोत्थापन मन्त्राद्यः

१.१०.१ दाण्डोत्थापन मन्त्रौ
उ॒दी॒र्ष्वातो॑ विश्वावसो॒ नम॑सेडामहे त्वा⁠। अ॒न्यामि॑च्छ प्रफ॒र्व्य॑ꣳ सञ्जा॒यां पत्या॑ सृज⁠॥ १ ॥१॥ उ॒दी॒र्ष्वातः॒ पति॑वती॒ ह्ये॑षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ट्टे⁠। अ॒न्यामि॑च्छ पितृ॒षद॒व्ँव्य॑क्ता॒ꣳ॒ स ते॑ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि⁠॥ २ ॥२॥
१.१०.२ चतुर्थी होमः
अग्ने᳚ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑ख्‍ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा᳚⁠॥ ३ ॥३॥ वायो᳚ प्रायश्चित्त॒ ४ *, आदि॑त्य प्रायश्चित्ते॒ ५ *, प्रजा॑पते प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑ख्‍ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒ तां कृ॑णोमि॒ स्वाहा᳚⁠॥ ६ ॥६॥
अनुषङ्गः — ४–५
वायो᳚ प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑ख्‍ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒तां कृ॑णोमि॒ स्वाहा᳚ ॥४॥
आदि॑त्य प्रायश्चित्ते॒ त्वं दे॒वानां॒ प्राय॑श्चित्तिरसि ब्राह्म॒णस्त्वा॑ ना॒थका॑मः॒ प्रप॑द्ये॒ याऽस्यां प॑ति॒घ्नी त॒नूः प्र॑जा॒घ्नी प॑शु॒घ्नी ल॑ख्‍ष्मि॒घ्नी जा॑र॒घ्नीम॑स्यै॒तां कृ॑णोमि॒ स्वाहा᳚ ॥५॥
दद्ध्मः॒ स्वाहा᳚ ॥७॥
तप॒स्य॑श्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जंभे॑ दद्ध्मः॒ स्वाहा᳚ ॥८॥
पू॒र्णमा॑सश्च॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तमे॑षां॒ जंभे॑ दद्ध्मः॒ स्वाहा᳚ ॥९॥
भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोꣴ स्वाहा᳚ ॥१०॥
(उ॒दी॒र्ष्वातो॒ दश॑) K10 (१०)
१.११

विवाहे वधवरयोरन्योन्य समीख्‍षणाद्यः

१.११.१ वधवरयोरन्योन्यं समीख्‍षणं
अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू॑तम्⁠। इ॒ह प्र॒जामि॒ह र॒यिꣳ ररा॑णः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकाम⁠॥ १ ॥१॥ अप॑श्यं त्वा॒ मन॑सा॒ दीद्ध्या॑ना॒ꣴ॒ स्वायां᳚ त॒नूꣳ ऋ॒त्विये॒ नाथ॑मानाम्⁠। उप॒ मामु॒च्चा यु॑व॒तिर् बुभू॑याः॒ प्रजा॑यस्व प्र॒जया॑ पुत्रकामे⁠॥ २ ॥२॥
१.११.२ आज्यशेषेण हृदयदेशे समञ्जनं
सम॑ञ्जन्तु॒ विश्वे॑ दे॒वाः समापो॒ हृद॑यानि नौ⁠। सं मा॑त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री॑ दिदेष्टु नौ⁠॥ ३ ॥३॥
१.११.३ समञ्जने जपः
प्रजा॑पते त॒न्वं॑ मे जुषस्व॒ त्वष्ट॑र् दे॒वेभिः॑ स॒हसा॒म इ॑न्द्र⁠। विश्वै᳚र् दे॒वै रा॒तिभिः॑ सꣳररा॒णः पु॒ꣳ॒सां ब॑हू॒नां मा॒तरः॑ स्याम⁠॥ ४ ॥४॥ आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा⁠। अदु॑र्मङ्गलीः पतिलो॒कमावि॑श॒ शन्नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे⁠॥ ५ ॥५॥ तां पू॑षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॑ वप॑न्ति⁠। या न॑ ऊ॒रू उ॑श॒ती वि॒स्रया॑तै॒ यस्या॑मु॒शन्तः॒ प्रह॑रेम॒ शेफ᳚म्⁠॥ ६ ॥६॥
(शं चतु॑ष्पदे॒ द्वे च॑) K11 (१२)
१.१२

विवाहे समावेशन जपः

१.१२.१ समावेशनकाले जपः
आरो॑हो॒रुमुप॑बर्‌हस्व बा॒हुं परि॑ष्वजस्व जा॒याꣳ सु॑मन॒स्यमा॑नः⁠। तस्यां᳚ पुष्यतं मिथु॒नौ सयो॑नी ब॒ह्वीं प्र॒जां ज॒नय॑न्तौ॒ सरे॑तसा⁠॥ १ ॥१॥ आ॒र्द्रयाऽर॑ण्या॒ यत्राम॑न्थ॒त्पुरु॑षं॒ पुरु॑षेण श॒क्रः⁠। तदे॒तौ मि॑थु॒नौ सयो॑नी प्र॒जया॒ऽमृते॑ने॒ह ग॑च्छतम्⁠॥ २ ॥२॥ अ॒हं गर्भ॒मद॑धा॒मोष॑धीष्व॒हव्ँविश्वे॑षु॒ भुव॑नेष्व॒न्तः⁠। अ॒हं प्र॒जा अ॑जनयं पितृ॒णाम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान्⁠॥ ३ ॥३॥ पु॒त्रिणे॒मा कु॑मा॒रिणा॒ विश्व॒मायु॒र् व्य॑श्नुतम्⁠। उ॒भा हिर॑ण्यपेशसा वी॒तिहो᳚त्रा कृ॒तद्व॑सू⁠॥ ४ ॥४॥ द॒श॒स्यं त्वा॒ऽमृता॑य॒ कꣳ शमूधो॑ रोम॒शꣳ ह॑थो दे॒वेषु॑ कृ॒णुतो॒ दुवः॑⁠॥ ५ (विवाहमन्त्राः समाप्तः) ॥५॥
(आरो॑ह॒ नव॑) K12 (९)
१.१३

गर्भधाने ऋतुसमावेशः

१.१३.१ ऋतुसमावेशनकाले भार्याया अभिमन्त्रणंविष्णु॒र् योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिꣳशतु⁠।
आसि॑ञ्चतु प्र॒जाप॑तिर् धा॒ता गर्भं॑ दधातु ते⁠॥ १ ॥१॥ गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति⁠। गर्भ॑न्ते अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा⁠॥ २ ॥२॥ हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना᳚⁠। तन्ते॒ गर्भ॑ꣳ हवामहे दश॒मे मा॒सि सूत॑वे⁠॥ ३ ॥३॥ यथे॒यं पृ॑थि॒वी म॒ही तिष्ठ॑न्ती॒ गर्भ॑माद॒धे⁠। ए॒वं त्वं गर्भ॒माध॑थ्स्व दश॒मे मा॒सि सूत॑वे⁠॥ ४ ॥४॥ यथा॑ पृथि॒व्य॑ग्निगर्भा॒ द्यौर्यथेन्द्रे॑ण ग॒र्भिणी᳚⁠। वा॒युर्यथा॑ दि॒शां गर्भ॑ ए॒वं गर्भं॑ दधामि ते⁠॥ ५ ॥५॥ विष्णो॒ श्रेष्ठे॑न रू॒पेणा॒स्यां नार्यां᳚ गवी॒न्या᳚म्⁠। पुमा॑ꣳसं॒ गर्भ॒माधे॑हि दश॒मे मा॒सि सूत॑वे⁠॥ ६ ॥६॥ नेज॑मेष॒ परा॑पत॒ सुपु॑त्रः॒ पुन॒राप॑त⁠। अ॒स्यै मे पु॒त्रका॑मायै॒ गर्भ॒माधे॑हि॒ यः पुमा॑न्⁠॥ ७ ॥७॥ व्यस्य॒ योनिं॒ प्रति॒ रेतो॑ गृहाण॒ पुमा᳚न् पु॒त्रो धी॑यतां॒ गर्भो॑ अ॒न्तः⁠। तं मा॒ता दश॒मासो॑ बिभर्तु॒ स जा॑यताव्ँवी॒रत॑मः॒ स्वाना᳚म्⁠॥ ८ आ ते॒ गर्भो॒ योनि॑मेतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्⁠। आ वी॒रो जा॑यतां पु॒त्रस्ते॑ दश॒मास्यः॑⁠॥ ९ (१३) ॥८॥
(गर्भं॑ दधामि ते॒ऽष्टौ च॑) K13 (१८)
१.१४

ऋतुसमावेशनकाले भार्याया अभिमन्त्रणं

१.१४.१ ऋतुसमावेशनकाले भार्याया अभिमन्त्रणं
क॒रोमि॑ ते प्राजाप॒त्यमा गर्भो॒ योनि॑मेतु ते⁠। अनू॑नः पू॒र्णो जा॑यता॒मश्लो॒णोऽपि॑शाचधीतः⁠॥ १ ॥१॥ पुमा॑ꣴस्ते पु॒त्रो ना॑रि॒ तं पुमा॒ननु॑जायताम्⁠। तानि॑ भ॒द्राणि॒ बीजा᳚न्यृष॒भा ज॑नयन्तु नौ⁠॥ २ ॥२॥ यानि॑ भ॒द्राणि॒ बीजा᳚न्यृष॒भा ज॑नय॒न्ति नः॑⁠। तैस्त्वं पु॒त्रान्‌वि॑न्दस्व॒ सा प्र॒सूर्धे॑नु॒का भ॑व⁠॥ ३ ॥३॥ काम॒ प्रमृ॑द्ध्यतां॒ मह्य॒मप॑राजितमे॒व मे᳚⁠। यं कामं॑ का॒मये॑ देव॒ तं मे॑ वायो॒ सम॑र्द्धय⁠॥ ४ (गर्भधाने ऋतुसमावेश मन्त्राः समाप्तः) ॥४॥
१.१४.२ अर्थप्राध्वस्य परिख्‍षवपरिकासने जपः
अ॒नु॒ह॒वं प॑रिह॒वं प॑रीवा॒दं प॑रिख्‍ष॒पम्⁠। दुःस्व॑प्नं॒ दुरु॑दितं॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हं⁠॥ ५ ॥५॥ अनु॑हूतं॒ परि॑हूतꣳ श॒कुने॒र्यदशा॑कु॒नम्⁠। मृ॒गस्य॑ सृ॒तम॑ख्‍ष्णया॒ तद्द्वि॒षद्भ्यो॑ दिशाम्य॒हम्⁠॥ ६ ॥६॥
१.१४.३ चित्रियस्य वनस्पतेरभिमन्त्रणं
आ॒रात्ते॑ अ॒ग्निर॑स्त्वा॒रात्प॑र॒शुर॑स्तु ते⁠। नि॒वा॒ते त्वा॒ऽभि व॑र्‌षतु स्व॒स्ति ते᳚ऽस्तु वनस्पते स्व॒स्ति मे᳚ऽस्तु वनस्पते⁠॥ ७ ॥७॥
१.१४.४ शकृद्रितेरुपस्थानं
नमः॑ शकृ॒थ्सदे॑ रु॒द्राय॒ नमो॑ रु॒द्राय॑ शकृ॒थ्सदे᳚⁠। गो॒ष्ठम॑सि॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः॒ [ ] ८ ॥८॥
१.१४.५ सिग्वातस्याभिमन्त्रणं
सिग॑सि॒ नसि॒ वज्रो॒ नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः⁠॥ ९ ॥९॥
१.१४.६ शकुनेरभिमन्त्रणं
उ॒द्गा॒तेव॑ श॒कुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शꣳससि⁠। स् व॒स्ति नः॑ श॒कुने॑ अस्तु॒ प्रति॑ नः सु॒मना॑ भव⁠॥ १० ॥१०॥
(अ॒हम॒ष्टौ च॑) K14 (१८)
१.१५

दंपत्योर्हृदयविश्लेषे हृदयसंसर्गेफ्सोर्होमः

१.१५.१ दंपत्योर्हृदयविश्लेषे हृदयसंसर्गेफ्सोर्होमः प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे प्रा॒तर् मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚⁠।
प्रा॒तर् भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रꣳ हु॑वेम⁠॥ १ ॥१॥ प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता⁠। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒ख्‍षीत्याह॑⁠॥ २ ॥२॥ भग॒ प्रणे॑त॒र् भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑व॒ दद॑न्नः⁠। भग॒ प्रणो॑ जनय॒ गोभि॒रश्वै॒र् भग॒ प्रनृभि॑र् नृ॒वन्तः॑ स्याम⁠॥ ३ ॥३॥ उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्रपि॒त्व उ॒त मध्ये॒ अह्ना᳚म्⁠। उ॒तोदि॑ता मघव॒न्थ् सूर्य॑स्य व॒यं दे॒वाना॑ꣳ सुम॒तौ स्या॑म⁠॥ ४ ॥४॥ भग॑ ए॒व भग॑वाꣳ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम⁠। तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि॒ स नो॑ भग पुर ए॒ता भ॑वे॒ह⁠॥ ५ ॥५॥ सम॑ध्व॒रायो॒षसो॑ ऽनमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑⁠। अ॒र्वा॒ची॒नव्ँव॑सु॒विदं॒ भग॑न्नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु⁠॥ ६ ॥६॥ अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः⁠। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः⁠॥ ७ ॥७॥
(भ॒वे॒ह च॒त्वारि॑ च) K15 (१४)
१.१६

पत्युर्वशीकरणं कर्म

१.१६.१ पत्युर्वशीकरणं कर्म
इ॒मां खना॒म्योष॑धीव्ँवी॒रुधं॒ बल॑वत्तमाम्⁠। यया॑ स॒पत्नीं॒ बाध॑ते॒ यया॑ सव्ँवि॒न्दते॒ पति᳚म्⁠॥ १ ॥१॥ उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒ सह॑माने॒ सह॑स्वति⁠। स॒पत्नीं᳚ मे॒ परा॑धम॒ पतिं॑ मे॒ केव॑लं कृधि⁠॥ २ ॥२॥ उत्त॑रा॒ऽहमुत्त॑र॒ उत्त॒रेदुत्त॑राभ्यः⁠। अथा॑ स॒पत्नी॒ या ममाध॑रा॒ साऽध॑राभ्यः⁠॥ ३ ॥३॥ न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒ नो अ॒स्मिन् र॑मते॒ जने᳚⁠। परा॑मे॒व प॑रा॒वत॑ꣳ स॒पत्नीं᳚ नाशयामसि⁠॥ ४ ॥४॥ अ॒हम॑स्मि॒ सह॑मा॒नाऽथ॒ त्वम॑सि सास॒हिः⁠। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं᳚ मे सहावहै⁠॥ ५ ॥५॥ उप॑ तेऽधा॒ꣳ॒ सह॑मानाम॒भि त्वा॑ऽधा॒ꣳ॒ सही॑यसा⁠। मामनु॒ प्र ते॒ मनो॑ व॒थ्सं गौरि॑व धावतु प॒था वारि॑व धावतु⁠॥ ६ ॥६॥
(स॒हा॒व॒है॒ द्वे च॑) K16 (१२)
१.१७

सपत्नीबाधनं कर्म

१.१७.१ सपत्नीबाधनं कर्म
उद॒सौ सूर्यो॑ अगा॒दुद॒यं मा॑म॒को भगः॑⁠। अ॒हं तद्विद्व॒ला प॑ति॒मभ्य॑साख्‍षि विषास॒हिः⁠॥ १ ॥१॥ अ॒हं के॒तुर॒हं मू॒र्द्धाऽहमु॒ग्रा वि॒वाच॑नी⁠। ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया॑ उ॒वाच॑रेत्⁠॥ २ ॥२॥ मम॑ पु॒त्राः श॑त्रु॒हणोऽथो॑ मे दुहि॒ता वि॒राट्⁠। उ॒ताहम॑स्मि॒ सञ्ज॑या॒ पत्यु॑र्मे॒ श्लोक॑ उत्त॒मः⁠॥ ३ ॥३॥ येनेन्द्रो॑ ह॒विषा॑ कृ॒त्य॑भवद्दि॒व्यु॑त्त॒मः⁠। अ॒हं तद॑क्रि देवा असप॒त्ना किला॑भवम्⁠॥ ४ ॥४॥ अ॒स॒प॒त्ना स॑पत्नि॒घ्नी जय॑न्त्यभि॒भूव॑री (भूव॑रीः)⁠। आवि॑थ्सि॒ सर्वा॑सा॒ꣳ॒ राधो॒ वर्चो॒ अस्थे॑यसामिव⁠॥ ५ ॥५॥ सम॑जैषमि॒मा अ॒हꣳ स॒पत्नी॑रभि॒भूव॑रीः⁠। यथा॒ऽहम॑स्य वी॒रस्य॑ वि॒राजा॑मि॒ धन॑स्य च⁠॥ ६ ॥६॥
(अस्थे॑यसामिव॒ द्वे च॑) K17 (१२)
१.१८

वध्वाः यख्‍ष्मादिहरं कर्म

१.१८.१ वध्वाः यख्‍ष्मादिहरं कर्म
अ॒ख्‍षीभ्या᳚न्ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ चुबु॑का॒दधि॑⁠। यख्‍ष्म॑ꣳ शीर्‌ष॒ण्यं॑ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ विवृ॑हामि ते⁠॥ १ ॥१॥ ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्योऽनू॒क्या᳚त्⁠। यख्‍ष्मं॑ दोष॒ण्य॑मꣳसा᳚भ्यां बा॒हुभ्या॒व्ँविवृ॑हामि ते⁠॥ २ ॥२॥ आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्‌हृद॑या॒दधि॑⁠। यख्‍ष्मं॒ मत॑स्नाभ्याय्ँय॒क्नः प्ला॒शिभ्यो॒ विवृ॑हामि ते⁠॥ ३ ॥३॥ ऊ॒रुभ्यां᳚ तेऽष्ठी॒वद्भ्यां॒ जङ्घा᳚भ्यां॒ प्रप॑दाभ्याम्⁠। यख्‍ष्म॒ꣴ॒ श्रोणी᳚भ्यां भा॒सदा᳚द्ध्व॒ꣳ॒ससो॒ विवृ॑हामि ते⁠॥ ४ ॥४॥ मेह॑नाद्वल॒ङ्कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑⁠। यख्‍ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मव्ँविवृ॑हामि ते⁠॥ ५ ॥५॥ अङ्गा॑दङ्गा॒ल्लोम्नो॑लोम्नो जा॒तं पर्व॑णिपर्वणि⁠। यख्‍ष्म॒ꣳ॒ सर्व॑स्मादा॒त्मन॒स्तमि॒मव्ँविवृ॑हामि ते⁠॥ ६ ॥६॥ परा॑देहि शाब॒ल्यं॑ ब्र॒ह्मभ्यो॒ विभ॑जा॒ वसु॑⁠। कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒याऽऽवि॑शते॒ पति᳚म्⁠॥ ७ ॥७॥ अ॒श्ली॒ला त॒नूर्भ॑वति॒ (त॒नूर्भ॑व॒) रुश॑ती पा॒पया॑ऽमु॒या⁠। पति॒र्यद्व॒द्ध्वै॑ वास॑सा॒ स्वमङ्ग॑मभि॒ धिथ्स॑ति⁠॥ ८ ॥८॥ क्रू॒रमे॒तत् कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे⁠। सू॒र्याय्ँयः प्र॒त्यख्‍ष॑व्ँवि॒द्याथ्स ए॒तत् प्रति॑गृह्णीयात्⁠॥ ९ ॥९॥ आ॒शस॑नव्ँवि॒शस॑न॒मथो॑ अधि वि॒चर्त॑नम्⁠। सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत श॑ꣳसति⁠॥ १० (इ॒मव्ँविवृ॑हामि तेशꣳसति ) (ख्१८) (२०) ॥१०॥
(अ॒ख्‍षीभ्यां᳚ ग्री॒वाभ्य॑ आ॒न्त्रेभ्य॑ ऊ॒रुभ्यां॒ मेह॑ना॒दङ्गा॑दङ्गा॒त् परो॑देहि स॒प्त)

कोर्वै

प्रपाठक-कोर्वै:
(प्र॒सु॒ग्मन्ता॒ऽष्टाद॑श॒ हिर॑ण्यवर्णाः॒ पञ्च॑दश॒ सोमः॑ प्रथ॒मः षोड॑श॒ सोमा॑य जनि॒विदे॒ ऽष्टाद॒शा ति॑ष्ठे॒मं त्रयो॑विꣳशतिः स॒त्येन॒ ता म॑न्दसा॒ नैका॒न्नवि॑ꣳशति॒ रेका॒न्नवि॑ꣳशतिः॒ शर्म॒ वर्मैक॑विꣳशति रि॒ह गाव॒ एका॒न्नवि॑ꣳशति रुदी॒ष्वर्तो॒ दशा प॑श्यन् त्वा॒ द्वाद॒शा रो॑हो॒रुं नव॒ विष्णु॒र्योनिं॑ क॒रोमि॑ ते॒ ऽष्टाद॑शा ष्टादश प्रा॒तर॒ग्निं चतु॑र्दशे॒ मां खना॒ म्युद॒सौ सूर्यो॒ द्वाद॑श द्वादशा॒ ख्‍षीभ्यां᳚ ते विꣳश॒ति र॒ष्टाद॑श )
क्रम-कोर्वै:
(प्र॒सु॒ग्मन्ता ऽप॑श्यन् त्वा॒ऽष्टाद॑श)
प्रथम-अन्तिम-पदम्:
(प्र॒सु॒ग्मन्ता॒ तानि॑ ब्र॒ह्मोत श॑ꣳसति )
हरिः॑ ओं
एकाग्निकाण्डे प्रथम प्रपाठकः समाप्तः
खण्डाः उपविभागाः
१८ ६०