रुद्र नमकं

रुद्रनमकचमकम् — रुद्रनमकम् एवं चमकम्

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
१

रुद्र नमकं

ओं⁠। ग॒णाना᳚न्त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं⁠। ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आन॑श्शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं⁠॥ श्री महागणपतये नमः⁠॥शं च॑ मे॒, मय॑श्च मे, प्रि॒यं च॑ मे, ऽनुका॒मश्च॑ मे॒, काम॑श्च मे , सौमन॒सश्च॑ मे, भ॒द्रं च॑ मे॒, श्रेय॑श्च मे॒, वस्य॑श्च मे॒, यश॑श्च मे॒, भग॑श्च मे॒, द्रवि॑णं च मे, य॒न्ता च॑ मे, ध॒र्ता च॑ मे॒, ख्‍षेम॑श्च मे॒, धृति॑श्च मे॒, विश्वं॑ च मे॒, मह॑श्च मे, स॒व्ँविच्च॑ मे॒, ज्ञात्र॑ञ्च मे॒, सूश्च॑ मे, प्र॒सूश्च॑ मे॒, सीरं॑ च मे, ल॒यश्च॑ म, ऋ॒तं च॑ मे॒, ऽमृतं॑ च मे, ऽय॒ख्‍ष्मं च॒ मे, ऽना॑मयच्च मे, जी॒वातु॑श्च मे, दीर्घायु॒त्वं च॑ मे, ऽनमि॒त्रं च॒ मे, ऽभ॑यं च मे, सु॒गं च॑ मे॒, शय॑नं च मे, सू॒षा च॑ मे, सु॒दिनं॑ च मे⁠॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑⁠॥प्रथमोऽनुवाकः ओं नमो भगवते॑ रुद्रा॒य⁠॥ ओं नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑⁠। नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑⁠। १.१ या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑⁠। शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय⁠। १.२ या ते॑ रुद्र शि॒वा त॒नूरघो॒रा ऽपा॑पकाशिनी⁠। तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि⁠। १.३ यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे⁠। शि॒वाङ्गि॑रित्र॒ ताङ्कु॑रु॒ मा हि॑ꣳसीः॒ पुरु॑षं॒ जग॑त्⁠। १.४ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि⁠। यथा॑ न॒स्सर्व॒मिज्जग॑द य॒ख्‍ष्मꣳ सु॒मना॒ अस॑त्⁠। १.५ अद्ध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्⁠। अही॑ꣴश्च॒ सर्वा᳚न् जं॒भय॒न् थ्सर्वा᳚श्च यातुधा॒न्यः॑⁠। १.६ अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुस्सु॑म॒ङ्गलः॑⁠। ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒ख्‍षु श्रि॒ताः स॑हस्र॒शो ऽवै॑षा॒ꣳ॒ हेड॑ ईमहे⁠। १.७ अ॒सौ यो॑ ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः⁠। उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑⁠। उ॒तैनं॒विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः⁠। १.८ नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒ख्‍षाय॑ मी॒ढुषे᳚⁠। अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ ऽकर॒न्नमः॑⁠। १.९ प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र् ज्यां⁠। याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप⁠। १.१० अ॒व॒तत्य॒ धनु॒स्त्वꣳ सह॑स्राख्‍ष॒ शते॑षुधे⁠। नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव⁠। १.११ विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त⁠। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑⁠। १.१२ या ते॑ हे॒तिर् मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑⁠। तया॒ऽस्मान्‌वि॒श्वत॒ स्त्वम॑य॒ख्‍ष्मया॒ परि॑ब्भुज⁠। १.१३ नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚⁠। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने⁠। १.१४ परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान् वृ॑णक्तु वि॒श्वतः॑⁠। अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्निधे॑हि॒ तं⁠॥ १.१५ नम॑स्ते अस्तु भगवन् विश्वेश्व॒राय॑ महादे॒वाय॑ त्य्रंब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑ कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑ सर्वेश्व॒राय॑ सदाशि॒वाय॑ (शङ्क॒राय॑) श्रीमन्महादे॒वाय॒ नमः॑⁠॥ द्वितीयोऽनुवाकः नमो॒ हिर॑ण्य बाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमो॒ नमो॑ वृ॒ख्‍षेभ्यो॒ हरि॑केशेभ्यः पशू॒नां पत॑ये॒ नमो॒ नम॑ स्स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ नमो॑ बभ्लु॒शाय॑ विव्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑केशायोपवी॒तिने॑ पु॒ष्टानां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒विने॒ ख्‍षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑ सू॒तायाह॑न्त्याय॒ वना॑नां॒ पत॑ये॒ नमो॒ नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒ख्‍षाणां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कख्‍षा॑णां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑ कृथ्स्नवी॒ताय॒ धाव॑ते॒ सत्त्व॑नां॒ पत॑ये॒ नमः॑⁠॥ २ तृतीयोऽनुवाकः नम॒ स्सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमः॑ ककु॒भाय॑ निष॒ङ्गिणे᳚ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नमो॒ नमः॑ सृका॒विभ्यो॒ जिघा॑ꣳसद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ ऽसि॒मद्भ्यो॒ नक्तं॒ चर॑द्भ्यः प्रकृ॒न्तानां॒ पत॑ये॒ नमो॒नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॒ इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमो ऽस्य॑द्भ्यो॒ विद्ध्य॑भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नम॑स्स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नम॑स्स॒भाभ्य॑ स्स॒भापी॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्यो ऽश्व॑पतिभ्यश्च वो॒ नमः॑⁠॥ ३ चतुर्त्थोऽनुवाकः नम॑ आव्या॒धिनी᳚भ्यो वि॒विद्ध्य॑न्तीभ्यश्च वो॒ नमो॒ नम॒ उग॑णाभ्य स्तृꣳह॒तीभ्य॑श्च वो॒ नमो॒ नमो॑ गृ॒थ्सेभ्यो॑ गृ॒थ्सेप॑तिभ्यश्च वो॒ नमो॒ नमो॒ व्राते᳚भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒ नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒ विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑ म॒हद्भ्यः॑ ख्‍षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ ऽर॒थेभ्य॑श्च वो॒ नमो॒ नमो॒ रथे᳚भ्यो॒ रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒ सेना᳚भ्य स्सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑ ख्‍ष॒त्तृभ्य॑ स्संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तख्‍ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒र्मारे᳚भ्यश्च वो॒ नमो॒ नमः॑ पु॒ञ्जिष्टे᳚भ्यो निषा॒देभ्य॑श्च वो॒ नमो॒ नम॑ इषु॒कृद्भ्यो॑ धन्व॒कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्य॑ श्श्व॒निभ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्य॒ श्श्वप॑तिभ्यश्च वो॒ नमः॑⁠॥ ४ पञ्चमोऽनुवाकः नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नम॑ श्श॒र्वाय॑ च पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒कण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒ नम॑ स्सहस्रा॒ख्‍षाय॑ च श॒तध॑न्वने च॒ नमो॑ गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढुष्ट॑माय॒ चेषु॑मते च॒ नमो᳚ ह्र॒स्वाय॑ च वाम॒नाय॑ च॒ नमो॑ बृह॒ते च॒ वर्‌षी॑यसे च॒ नमो॑ वृ॒द्धाय॑ च स॒व्ँवृद्ध्व॑ने च॒ नमो॒ अग्रि॑याय च प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒ नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒र्म्या॑य चावस्व॒न्या॑य च॒ नमः॑ स्रोत॒स्या॑य च॒ द्वीप्या॑य च⁠॥ ५ षष्ठोऽनुवाकः नमो᳚ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒जाय॑ चापर॒जाय॑ च॒ नमो॑ मद्ध्य॒माय॑ चापग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुद्ध्नि॑याय च॒ नम॑ स्सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒ याम्या॑य च॒ ख्‍षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒ खल्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य च॒ नमो॒ वन्या॑य च॒ कख्‍ष्या॑य च॒ नम॑ श्श्र॒वाय॑ च प्रतिश्र॒वाय॑ च॒ नम॑ आ॒शुषे॑णाय चा॒शुर॑थाय च॒ नमः॒ शूरा॑य चावभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च वरू॒थिने॑ च॒ नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च⁠॥ ६ सप्तमोऽनुवाकः नमो॑ दुन्दु॒भ्या॑य चाहन॒न्या॑य च॒ नमो॑ धृ॒ष्णवे॑ च प्रमृ॒शाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्रहि॑ताय च॒ नमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒ नम॑ स्ती॒ख्‍ष्णेष॑वे चायु॒धिने॑ च॒ नमः॑ स्वायु॒धाय॑ च सु॒धन्व॑ने च॒ नम॒ स्स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒ नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च॒ नमः॒ कूप्या॑य चाव॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒ नमो॑ मे॒घ्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒द्ध्रिया॑य चात॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑याय च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च⁠॥ ७ अष्टमोऽनुवाकः नमः॒ सोमा॑य च रु॒द्राय॑ च॒ नम॑स्ता॒म्राय॑ चारु॒णाय॑ च॒ नम॑श्श॒ङ्गाय॑ च पशु॒पत॑ये च॒ नम॑ उ॒ग्राय॑ च भी॒माय॑ च॒ नमो॑ अग्रेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमो॑ ह॒न्त्रे च॒ हनी॑यसे च॒ नमो॑ वृ॒ख्‍षेभ्यो॒ हरि॑केशेभ्यो॒ नम॑स्ता॒राय॒ नम॑श्शं॒भवे॑ च मयो॒भवे॑ च॒ नम॑श्शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नम॑श्शि॒वाय॑ च शि॒वत॑राय च॒ नम॒स्तीर्थ्या॑य च॒ कूल्या॑य च॒ नमः॑ पा॒र्या॑य चावा॒र्या॑य च॒ नमः॑ प्र॒तर॑णाय चो॒त्तर॑णाय च॒ नम॑ आता॒र्या॑य चाला॒द्या॑य च॒ नम॒श्शष्प्या॑य च॒ फेन्या॑य च॒ नमः॑ सिक॒त्या॑य च प्रवा॒ह्या॑य च⁠॥ ८ नवमोऽनुवाकः नम॑ इरि॒ण्या॑य च प्रप॒थ्या॑य च॒ नमः॑ किꣳशि॒लाय॑ च॒ ख्‍षय॑णाय च॒ नमः॑ कप॒र्दिने॑ च पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒ नम॒ स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य च गह्वरे॒ष्ठाय॑ च॒ नमो᳚ ह्रद॒य्या॑य च निवे॒ष्प्या॑य च॒ नमः॑ पाꣳस॒व्या॑य च रज॒स्या॑य च॒ नमः॒ शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒ लोप्या॑य चोल॒प्या॑य च॒ नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यो॒ नमो॑ विख्‍षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्‌ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑⁠॥ ९ दशमोऽनुवाकः द्रापे॒ अन्ध॑सस्पते॒ दरि॑द्र॒न्नील॑लोहित⁠। ए॒षां पुरु॑षाणामे॒षां प॑शू॒नां मा भेर् माऽरो॒ मो ए॑षां॒ किञ्च॒नाम॑मत्⁠। १०.१ या ते॑ रुद्र शि॒वा त॒नूश्शि॒वा वि॒श्वाह॑भेषजी⁠। शि॒वा रु॒द्रस्य॑ भेष॒जी तया॑ नो मृड जी॒वसे᳚⁠। १०.२ इ॒माꣳ रु॒द्राय॑ त॒वसे॑ कप॒र्दिने᳚ ख्‍ष॒यद्वी॑राय॒ प्रभ॑रामहे म॒तिं⁠। यथा॑ नः॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं॑ पु॒ष्टं ग्रामे॑ अ॒स्मिन्नना॑तुरं⁠। १०.३ मृ॒डा नो॑ रुद्रो॒ तनो॒ मय॑स्कृधि ख्‍ष॒यद्वी॑राय॒ नम॑सा विधेम ते⁠। यच्छञ्च॒ योश्च॒ मनु॑राय॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ⁠। १०.४ मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उख्‍ष॑न्तमु॒त मा न॑ उख्‍षि॒तं⁠। मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑ स्त॒नुवो॑ रुद्र रीरिषः⁠। १०.५ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः⁠। वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्‌ह॒विष्म॑न्तो॒ नम॑सा विधेम ते⁠। १०.६ आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने ख्‍ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु⁠। रख्‍षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्‌हाः᳚⁠। १०.७ स्तु॒हि श्रु॒तं ग॑र्त्त॒सद॒य्ँयुवा॑नं मृ॒गन्न भी॒ममु॑पह॒त्नुमु॒ग्रं⁠। मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚⁠। १०.८ परि॑णो रु॒द्रस्य॑ हे॒तिर् वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः⁠। अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय⁠। १०.९ मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑ स्सु॒मना॑ भव⁠। प॒र॒मे वृ॒ख्‍ष आयु॑धन्नि॒धाय॒ कृत्ति॒व्ँवसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि⁠। १०.१० विकि॑रिद॒ विलो॑हित॒ नम॑स्ते अस्तु भगवः⁠। यास्ते॑ स॒हस्र॑ꣳ हे॒तयो॒ऽन्यम॒स्मन्निव॑पन्तु॒ ताः⁠। १०.११ स॒हस्रा॑णि सहस्र॒धा बा॑हु॒वोस्तव॑ हे॒तयः॑⁠। तासा॒मीशा॑नो भगवः परा॒चीना॒ मुखा॑ कृधि⁠। १०.१२ एकादशोऽनुवाकः स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्यां᳚⁠। तेषा॑ꣳ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि⁠। ११.१ अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे᳚ऽन्तरि॑ख्‍षे भ॒वा अधि॑⁠। ११.२ नील॑ग्रीवाः शिति॒कण्ठाः᳚ श॒र्वा अ॒धः ख्‍ष॑माच॒राः⁠। ११.३ नील॑ग्रीवाश्शिति॒कण्ठा॒ दिव॑ꣳ रु॒द्रा उप॑श्रिताः⁠। ११.४ ये वृ॒ख्‍षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः⁠। ११.५ ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः⁠। ११.६ ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्⁠। ११.७ ये प॒थां प॑थि॒रख्‍ष॑य ऐलबृ॒दा य॒व्युधः॑⁠। ११.८ ये ती॒र्त्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑⁠। ११.९ य ए॒ताव॑न्तश्च॒ भूया॑ꣳसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे⁠। तेषा॑ꣳ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि⁠। ११.१० नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्याय्ँये᳚ऽन्तरि॑ख्‍षे॒ ये दि॒वि येषा॒मन्न॒व्ँवातो॑ व॒र्॒‌षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒र् दश॑दख्‍षि॒णा दश॑प्र॒तीची॒र् दशोदी॑ची॒र् दशो॒र्द्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि⁠॥ ११.११ त्य्रंबकादि महामन्त्रः त्य्रं॑बकय्ँयजामहे सुग॒न्धिं पु॑ष्टि॒वर्द्ध॑नं⁠। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान् मृ॒त्योर् मु॑ख्‍षीय॒ माऽमृता᳚त्⁠।यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना ऽऽवि॒वेश॒ त् अस्मै॑ रु॒द्राय॒ नमो॑ अस्तु⁠।तमु॑ष्टु॒हि यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ ख्‍षय॑ति भेष॒जस्य॑⁠। यख्‍ष्वा᳚म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर् दे॒वमसु॑रं दुवस्य⁠। ३ RV.५.४२. ११ अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः⁠। अ॒यं मे᳚ वि॒श्वभे᳚षजो॒यꣳ शि॒वाभि॑मर्‌शनः⁠। ४ RV १०.६०.१२ ये ते॑ स॒हस्र॑म॒युतं॒ पाशा॒ मृत्यो॒ मर्त्या॑य॒ हन्त॑वे⁠। तान्‌य॒ज्ञस्य॑ मा॒यया॒ सर्वा॒नव॑ यजामहे⁠।मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा᳚⁠।ओं नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि⁠॥ प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः⁠। तेनान्नेना᳚प्याय॒स्व⁠॥नमो रुद्राय विष्णवे मृत्यु॑र् मे पा॒हि⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

२

चमकं

प्रथमोऽनुवाकः ओं अग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒ङ्गिरः॑⁠। द्युं॒नैर्वाजे॑भि॒राग॑तं⁠॥ वाज॑श्च मे, प्रस॒वश्च॑ मे॒, प्रय॑तिश्च मे॒, प्रसि॑तिश्च मे, धी॒तिश्च॑ मे॒, क्रतु॑श्च मे॒, स्वर॑श्च मे॒, श्लोक॑श्च मे, श्रा॒वश्च॑ मे॒, श्रुति॑श्च मे॒, ज्योति॑श्च मे॒, सुव॑श्च मे, प्रा॒णश्च॑ मे, ऽपा॒नश्च॑ मे, व्या॒नश्च॒ मे, ऽसु॑श्च मे, चि॒त्तं च॑ म॒ , आधी॑तं च मे॒, वाक्च॑ मे॒, मन॑श्च मे॒, चख्‍षु॑श्च मे॒ , श्रोत्रं॑ च मे॒, दख्‍ष॑श्च मे॒, बलं॑ च म॒, ओज॑श्च मे॒ , सह॑श्च म॒, आयु॑श्च मे, ज॒रा च॑ म, आ॒त्मा च॑ मे, त॒नूश्च॑ मे॒, शर्म॑ च मे॒, वर्म॑ च॒ मे, ऽङ्गा॑नि च मे॒, ऽस्थानि॑ च मे॒, परू॑ꣳषि च मे॒, शरी॑राणि च मे⁠॥॥१॥
द्वितीयोऽनुवाकः ज्यैष्ठ्यं॑ च म॒, आधि॑पत्यं च मे, म॒न्युश्च॑ मे॒, भाम॑श्च॒ मे, ऽम॑श्च॒ मे, ऽंभ॑श्च मे, जे॒मा च॑ मे, महि॒मा च॑ मे, वरि॒मा च॑ मे, प्रथि॒मा च॑ मे, व॒र्ष्मा च॑ मे, द्राघु॒या च॑ मे, वृ॒द्धं च॑ मे॒, वृद्धि॑श्च मे, स॒त्यं च॑ मे, श्र॒द्धा च॑ मे॒, जग॑च्च मे॒, धनं॑ च मे॒, वश॑श्च मे॒, त्विषि॑श्च मे, क्री॒डा च॑ मे॒, मोद॑श्च मे, जा॒तं च॑ मे, जनि॒ष्यमा॑णं च मे, सू॒क्तं च॑ मे, सुकृ॒तं च॑ मे, वि॒त्तं च॑ मे॒, वेद्यं॑ च मे, भू॒तं च॑ मे, भवि॒ष्यच्च॑ मे, सु॒गं च॑ मे, सु॒पथं॑ च म, ऋ॒द्धं च॑ म॒, ऋद्धि॑श्च मे, क्लृ॒प्तं च॑ मे॒, क्लृप्ति॑श्च मे, म॒तिश्च॑ मे, सुम॒तिश्च॑ मे⁠॥॥२॥
तृतीयोऽनुवाकः शं च॑ मे॒, मय॑श्च मे, प्रि॒यं च॑ मे, ऽनुका॒मश्च॑ मे॒, काम॑श्च मे, सौमन॒सश्च॑ मे, भ॒द्रं च॑ मे॒, श्रेय॑श्च मे॒, वस्य॑श्च मे॒, यश॑श्च मे॒, भग॑श्च मे॒, द्रवि॑णं च मे, य॒न्ता च॑ मे, ध॒र्ता च॑ मे॒, ख्‍षेम॑श्च मे॒, धृति॑श्च मे॒, विश्वं॑ च मे॒, मह॑श्च मे, स॒व्ँविच्च॑ मे॒, ज्ञात्रं॑ च मे॒, सूश्च॑ मे, प्र॒सूश्च॑ मे॒, सीरं॑ च मे, ल॒यश्च॑ म , ऋ॒तं च॑ मे॒, ऽमृतं॑ च मे, ऽय॒ख्‍ष्मं च॒ मे, ऽना॑मयच्च मे, जी॒वातु॑श्च मे, दीर्घायु॒त्वं च॑ मे, ऽनमि॒त्रं च॒ मे, ऽभ॑यं च मे, सु॒गं च॑ मे॒, शय॑नं च मे, सू॒षा च॑ मे, सु॒दिनं॑ च मे⁠॥ ३ ( ३६ ) चतुर्त्थोऽनुवाकः ऊर्क्च॑ मे, सू॒नृता॑ च मे॒, पय॑श्च मे॒, रस॑श्च मे, घृ॒तं च॑ मे॒, मधु॑ च मे॒ , सग्धि॑श्च मे॒, सपी॑तिश्च मे, कृ॒षिश्च॑ मे॒, वृष्टि॑श्च मे॒, जैत्रं॑ च म॒, औद्भि॑द्यं च मे , र॒यिश्च॑ मे॒, राय॑श्च मे , पु॒ष्टं च॑ मे॒, पुष्टि॑श्च मे, वि॒भु च॑ मे, प्र॒भु च॑ मे, ब॒हु च॑ मे॒, भूय॑श्च मे, पू॒र्णं च॑ मे, पू॒र्णत॑रं च॒ मे, ऽख्‍षि॑तिश्च मे॒, कूय॑वाश्च॒ मे, ऽन्नं॑ च॒ मे, ऽख्‍षु॑च्च मे, व्री॒हय॑श्च मे॒, यवा᳚श्च मे॒, माषा᳚श्च मे॒, तिला᳚श्च मे, मु॒द्गाश्च॑ मे, ख॒ल्वा᳚श्च मे, गो॒धूमा᳚श्च मे, म॒सुरा᳚श्च मे, प्रि॒यंग॑वश्च॒ मे, ऽण॑वश्च मे, श्या॒माका᳚श्च मे, नी॒वारा᳚श्च मे ⁠॥॥४॥
पञ्चमोऽनुवाकः अश्मा॑ च मे॒, मृत्ति॑का च मे, गि॒रय॑श्च मे॒, पर्व॑ताश्च मे॒, सिक॑ताश्च मे॒, वन॒स्पत॑यश्च मे॒, हिर॑ण्यं च॒ मे, ऽय॑श्च मे॒ , सीसं॑ च मे॒, त्रपु॑श्च मे, श्या॒मं च॑ मे, लो॒हं च॑ मे॒, ऽग्निश्च॑ म॒, आप॑श्च मे, वी॒रुध॑श्च म॒, ओष॑धयश्च मे, कृष्टप॒च्यं च॑ मे, ऽकृष्टप॒च्यं च॑ मे, ग्रा॒म्याश्च॑ मे, प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां , वि॒त्तं च॑ मे॒, वित्ति॑श्च मे, भू॒तं च॑ मे॒, भूति॑श्च मे॒, वसु॑ च मे, वस॒तिश्च॑ मे॒, कर्म॑ च मे॒, शक्ति॑श्च॒ मे, ऽर्थ॑श्च म॒, एम॑श्च म॒, इति॑श्च मे॒, गति॑श्च मे⁠॥॥५॥
षष्ठोऽनुवाकः अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒, सोम॑श्च म॒ इन्द्र॑श्च मे, सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒, सर॑स्वती च म॒ इन्द्र॑श्च मे, पू॒षा च॑ म॒ इन्द्र॑श्च मे॒, बृह॒स्पति॑श्च म॒ इन्द्र॑श्च मे, मि॒त्रश्च॑ म॒ इन्द्र॑श्च मे॒, वरु॑णश्च म॒ इन्द्र॑श्च मे॒, त्वष्टा॑ च म॒ इन्द्र॑श्च मे, धा॒ता च॑ म॒ इन्द्र॑श्च मे॒, विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ , ऽश्विनौ॑ च म॒ इन्द्र॑श्च मे, म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒, विश्वे॑ च मे, दे॒वा इन्द्र॑श्च मे, पृथि॒वी च॑ म॒ इन्द्र॑श्च मे॒, ऽन्तरि॑ख्‍षं च म॒ इन्द्र॑श्च मे॒, द्यौश्च॑ म॒ इन्द्र॑श्च मे॒, दिश॑श्च म॒ इन्द्र॑श्च मे, मू॒र्द्धा च॑ म॒ इन्द्र॑श्च मे, प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ⁠॥॥६॥
सप्तमोऽनुवाकः अ॒ꣳ॒शुश्च॑ मे, र॒श्मिश्च॒मे, ऽदा᳚भ्यश्च॒ मे, ऽधि॑पतिश्च म, उपा॒ꣳ॒शुश्च॑ मे, ऽन्तर्या॒मश्च॑ म, ऐन्द्रवाय॒वश्च॑ मे, मैत्रावरु॒णश्च॑ म, आश्वि॒नश्च॑ मे, प्रतिप्र॒स्थान॑श्च मे, शु॒क्रश्च॑ मे, म॒न्थी च॑ म, आग्रय॒णश्च॑ मे, वैश्वदे॒वश्च॑ मे, ध्रु॒वश्च॑ मे, वैश्वान॒रश्च॑ म, ऋतुग्र॒हाश्च॑ मे, ऽतिग्रा॒ह्या᳚श्च म, ऐन्द्रा॒ग्नश्च॑ मे, वैश्वदे॒वश्च॑ मे, मरुत्व॒तीया᳚श्च मे, माहे॒न्द्रश्च॑ म, आदि॒त्यश्च॑ मे, सावि॒त्रश्च॑ मे, सारस्व॒तश्च॑ मे, पौ॒ष्णश्च॑ मे, पात्नीव॒तश्च॑ मे, हारियोज॒नश्च॑ मे⁠॥॥७॥
अष्टमोऽनुवाकः इ॒द्ध्मश्च॑ मे, ब॒र्॒‌हिश्च॑ मे॒, वेदि॑श्च मे॒, धिष्णि॑याश्च मे॒, स्रुच॑श्च मे, चम॒साश्च॑ मे॒, ग्रावा॑णश्च मे॒, स्वर॑वश्च म, उपर॒वाश्च॑ मे, ऽधि॒षव॑णे च मे, द्रोणकल॒शश्च॑ मे, वाय॒व्या॑नि च मे, पूत॒भृच्च॑ म, आधव॒नीय॑श्च म॒, आग्नी᳚द्ध्रं च मे, हवि॒र्द्धानं॑ च मे, गृ॒हाश्च॑ मे॒, सद॑श्च मे, पुरो॒डाशा᳚श्च मे, पच॒ताश्च॑ मे, ऽवभृ॒थश्च॑ मे, स्वगाका॒रश्च॑ मे⁠॥॥८॥
नवमोऽनुवाकः अ॒ग्निश्च॑ मे, घ॒र्मश्च॑ मे॒ ऽर्कश्च॑ मे॒, सूर्य॑श्च मे, प्रा॒णश्च॑ मे, ऽश्वमे॒धश्च॑ मे, पृथि॒वी च॒ मे, ऽदि॑तिश्च मे॒, दिति॑श्च मे॒, द्यौश्च॑ मे॒, शक्व॑रीर॒ङ्गुल॑यो॒ दिश॑श्च मे, य॒ज्ञेन॑ कल्पन्ता॒मृक्च॑ मे॒, साम॑ च मे॒, स्तोम॑श्च मे॒, यजु॑श्च मे, दी॒ख्‍षा च॑ मे॒, तप॑श्च म, ऋ॒तुश्च॑ मे , व्र॒तं च॑ मे, ऽहोरा॒त्रयो᳚र् वृ॒ष्ट्या, बृ॑हद्रथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेतां⁠॥॥९॥
दशमोऽनुवाकः गर्भा᳚श्च मे, व॒थ्साश्च॑ मे॒, त्य्रवि॑श्च मे, त्य्र॒वीच॑ मे , दित्य॒वाट् च॑ मे, दित्यौ॒ही च॑ मे॒, पञ्चा॑विश्च मे, पञ्चा॒वी च॑ मे, त्रिव॒थ्सश्च॑ मे, त्रिव॒थ्सा च॑ मे, तुर्य॒वाट् च॑ मे, तुर्यौ॒ही च॑ मे, पष्ठ॒वाट् च॑ मे, पष्ठौ॒ही च॑ म, उ॒ख्‍षा च॑ मे, व॒शा च॑ म, ऋष॒भश्च॑ मे, वे॒हच्च॑ मे, ऽन॒ड्वान् च॑ मे, धे॒नुश्च॑ म॒, आयु॑र्य॒ज्ञेन॑ कल्पतां, प्रा॒णो य॒ज्ञेन॑ कल्पता मपा॒नो य॒ज्ञेन॑ कल्पतां , व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चख्‍षु॑र्य॒ज्ञेन॑ कल्पता॒ꣴ॒, श्रोत्र॑य्ँय॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒ , वाग्य॒ज्ञेन॑ कल्पता मा॒त्मा य॒ज्ञेन॑ कल्पतां , य॒ज्ञो य॒ज्ञेन॑ कल्पतां⁠॥॥१०॥
एकादशोऽनुवाकः एका॑ च मे, ति॒स्रश्च॑ मे॒, पञ्च॑ च मे, स॒प्त च॑ मे॒, नव॑ च म॒, एका॑दश च मे॒, त्रयो॑दश च मे॒, पञ्च॑दश च मे, स॒प्तद॑श च मे॒, नव॑दश च म॒, एक॑विꣳशतिश्च मे॒, त्रयो॑विꣳशतिश्च मे॒, पञ्च॑विꣳशतिश्च मे, स॒प्तवि॑ꣳशतिश्च मे॒, नव॑विꣳशतिश्च म॒, एक॑त्रिꣳशच्च मे॒, त्रय॑स्त्रिꣳशच्च मे॒, चत॑स्रश्च मे॒, ऽष्टौ च॑ मे॒ , द्वाद॑श च मे॒, षोड॑श च मे, विꣳश॒तिश्च॑ मे॒, चतु॑र्विꣳशतिश्च मे॒, ऽष्टावि॑ꣳशतिश्च मे॒ द्वात्रि॑ꣳशच्च मे॒, षट्त्रि॑ꣳशच्च मे, चत्वारि॒ꣳ॒शच्च॑ मे॒ , चतु॑श्चचत्वारिꣳशच्च मे॒ ऽष्टाच॑त्वारिꣳशच्च मे॒, वाज॑श्च प्रस॒वश्चा॑पि॒जश्च॒ क्रतु॑श्च॒ सुव॑श्च मू॒र्द्धा च॒ व्यश्ञि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च⁠।इडा॑ देव॒हूर् मनु॑र् यज्ञ॒नीर् बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒द् विश्वे॑दे॒वाः सू᳚क्त॒वाचः॒ पृथि॑विमात॒र् मा मा॑ हिꣳसी॒र् मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वख्‍ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मतीं दे॒वेभ्यो॒ वाच॑मुद्यासꣳ शुश्रू॒षेण्यां᳚ मनु॒ष्ये᳚भ्य॒स्तं मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरो ऽनु॑मदन्तु⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sections२
Mantras११
Version5.0