दिक् पालक मन्त्राः

दिक्पालकमन्त्राः

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
१.(देवता॒ इन्द्रः) (दिक् पूर्वं)
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्रं᳚⁠। हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्र॑ꣴ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑⁠॥
२.(देवताअग्निः) (दिक्दख्‍षिण पूर्वं/आग्नेय दिक्)
त्वन्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः⁠। यजि॑ष्ठो॒ वह्नि॑तम॒ श्शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्र मु॑मुग्द्ध्य॒स्मत्⁠॥
३.(देवता॒ यमः) (दिक् दख्‍षिणं)
सु॒गन्नः॒ पन्था॒मभ॑यं कृणोतु⁠। यस्मि॒न्नख्‍ष॑त्रे य॒म एति॒ राजा᳚⁠। यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः⁠। तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम⁠। अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु⁠॥
४.(देवता निर्‌ऋतिः) (दिक् दख्‍षिण पश्चिमं)
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्वे॑षि⁠। अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्‌ऋते॒ तुभ्य॑मस्तु⁠॥
५.(देवता वरुणः) (दिक् पश्चिमं)
तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑⁠। अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः⁠॥
६. (देवता वायुः) (दिक् उत्तर पश्चिमं)
आ नो॑ नि॒युद्भि॑श्श॒तिनी॑भिरद्ध्व॒रं⁠। स॒ह॒स्रिणी॑ भि॒रुप॑याहि य॒ज्ञं⁠। वायो॑ अ॒स्मिन्‌ह॒विषि॑ मादयस्व⁠। यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑ नः⁠॥
७. (देवता सोमः) (दिक् उत्तरं)
व॒यꣳ सो॑म व्र॒ते तव॑⁠। मन॑स्त॒नूषु॒ बिभ्र॑तः⁠। प्र॒जाव॑न्तो अशीमहि⁠॥
८. (देवता ईशानः) (दिक् उत्तर पूर्वं)
RV 1.89.5
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚⁠। धि॒यं॒जि॒न्वमव॑से हूमहे व॒यं⁠। पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द् वृ॒धे र॑ख्‍षि॒ता पा॒युरद॑ब्धस्स्व॒स्तये᳚⁠॥
९. (देवता॒ ब्रह्म) [दिक् ऊर्द्ध्वं (श्क्य्)]
RV 8.63.1.2
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृ॒त्रहत्ये॒ भर॑हूतौ स॒जोषाः᳚⁠। य श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मा अ॑वन्तु दे॒वाः⁠॥
१०. (देवता विष्णुः) [दिक् अधरं (फतालम्)]
स्यो॒ना पृ॑थि॒वि भवा॑ऽनृख्‍ष॒रा नि॒वेश॑नी⁠। यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚⁠॥
Sections१
Mantras१
Version5.0