आशीर्वाद मन्त्राः

आशीर्वादमन्त्राः

ओं नमः परमात्मने, श्री महागणपतये नमः,

श्री गुरुभ्यो नमः⁠। ह॒रिः॒ ओं⁠॥

ॐ
न तत्र सूर्यो भाति न च॑न्द्रता॒र॒कं॒ नेमा विद्युतो भान्ति कुतो॑यम॒ऽग्निः⁠। तमेव भान्त मनु भा॑ति स॒र्वं॒ तस्य भासा सर्वमिदं॑ विभा॒ति⁠॥ २. पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्थोमोतिऽरा॒त्र उ॑त्त॒म मह॑र्भवति (मह॑द्भवति॒) सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚प्नोति॒ सर्वं॑ जयति⁠॥३. ऋ॒ध्यास्म॑ ह॒व्यैर् नम॑सोप॒ सद्य॑⁠। मि॒त्रं दे॒वं मि॑त्र॒धेय॑न्नो अस्तु⁠। अ॒नु॒रा॒धान्‌ह॒विषा॑ व॒र्द्धय॑न्तः⁠। श॒तं जी॑वेम श॒रद॒स्सवी॑राः⁠॥४. नवो॑नवो भवति॒ जाय॑मा॒नोऽह्ना᳚ङ्के॒तुरु॒षसा॑मे॒त्यग्रे᳚⁠। भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑⁠॥५. श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति⁠॥६. सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒माꣳ स॑मेत॒ पश्य॑त⁠। सौभा᳚ग्य म॒स्यै द॒त्वायाथास्तं॒ वि परे॑तन⁠॥ RV १०.८५.३३ ७. इ॒मां त्वमि॑न्द्र मीड्व स्सुपु॒त्राꣳ सु॒भगां᳚ कुरु⁠। दशा᳚स्यां पु॒त्रानाधे॑हि॒ पति॑मेकाद॒शं कृ॑धि⁠॥ RV १०.८५.४५ ८. य॒शस्क॑रं॒ बल॑वन्तं प्र॒भुत्वं᳚ तमे॒व रा᳚जाधि॒पति॑र् बभूव⁠। सङ्की᳚र्ण नागाश्व॒पति॑र् नराणां सुम॒ङ्गल्यं᳚ सततं दी॒र्घमायुः॑⁠॥ R V ख् ७.५.९.२ ९. सं॒ज्ञान॑व्ँवि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत्⁠। स॒ङ्कल्प॑मानं प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑क्लृप्तं क्लृ॒प्तं⁠। श्रेयो॒ वसी॑य आ॒यथ् स्संभू॑तं भू॒तं⁠। चि॒त्रः के॒तुः प्र॒भाना॒भान्थ्सं॒भान्⁠। ज्यो॑तिष्मा॒ꣴ॒ स्तेज॑स्वाना॒तप॒ꣴ॒ स्तप॑न्नभि॒तप॑न्न्⁠। रो॒च॒नो रोच॑मानश्शोभ॒नश्शोभ॑मानः क॒ल्याणः॑⁠॥१०. आब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒माऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्य॑श्शूरो॑ महार॒थो जा॑यतां॒ दोग्ध्री॑ धे॒नुर् वोडा॑ ऽन॒ड्वाना॒शुस्सप्तिः॒ पुर॑न्धि॒र् योषा॑ जि॒ष्णू र॑थे॒ष्ठा स्स॒भेयो॒ युवाऽऽस्य यज॑मानस्य वी॒रो जा॑यतां निका॒मेनि॑कामे नः प॒र्जन्यो॑ वर्‌षतु फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्तां योगख्‍षे॒मो नः॑ कल्पतां⁠॥११. ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚⁠। ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚⁠। ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै⁠। ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै⁠। ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा᳚स्तु⁠॥१२. आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर् वरे᳚ण्यः⁠। पुन॑स्ते प्रा॒ण आ य॑ति॒ (ओर् आ या॑ति॒) परा॒ यख्‍ष्म॑ꣳ सुवामि ते⁠। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि⁠। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑ख्‍षतादि॒मं⁠॥१३. पु॒रस्ता॒द् दश॑होतार॒मुद॑ञ्च॒मुप॑दधाति यावत्प॒दं⁠। हृद॑य॒य्ँयजु॑षी॒ पत्न्यौ॑ च⁠। द॒ख्‍षि॒ण॒तः प्राञ्च॒ञ्चतु॑र्‌होतारं⁠। प॒श्चादुद॑ञ्चं॒ पञ्च॑होतारं⁠। उ॒त्त॒र॒तः प्राञ्च॒ꣳ॒ षड्ढो॑तारं⁠। उ॒परि॑ष्टा॒त् प्राञ्च॑ꣳ स॒प्तहो॑तारं⁠। हृद॑य॒य्ँयजू॑ꣳषि॒ पत्न्यै॑श्च⁠। य॒था॒व॒का॒शं ग्रहा॑न्⁠। य॒था॒व॒का॒शं प्र॑तिग्र॒हाल्ँलो॑कं पृ॒णाश्च॑⁠। सर्वा॑ हास्यै॒ता दे॒वताः᳚ प्री॒ता अ॒भीष्टा॑ भवन्ति⁠॥सह॒ वै दे॒वानां॒ चासु॑राणां च य॒ज्ञौ प्रत॑तावास्तां व॒यꣴ स्व॒र्गल्ँलो॒कमे᳚ष्यामो व॒यमे᳚ष्याम॒ इति॒ तेऽसु॑रास्स॒न्नह्य॒ सह॑सै॒वाच॑रन् ब्रह्म॒चर्ये॑ण॒ तप॑सैव दे॒वास्ते ऽसु॑रा अमुह्य॒ꣴ॒स्ते न प्राजा॑न॒ꣴ॒स्ते परा॑भवन्त न स्व॒र्गल्ँलो॒कमा॑य॒न् प्रसृ॑तेन॒ वै य॒ज्ञेन॑ दे॒वाः स्व॒र्गल्ँलो॒कमा॑य॒न्नप्रसृ॑ते॒नासु॑रा॒न् परा॑ऽभावय॒न् प्रसृ॑तो ह॒ वै य॑ज्ञोपवी॒तिनो॑ य॒ज्ञो ऽप्र॑सृ॒तो ऽनु॑पवी॒तिनो॒ यत् किञ्च॑ ब्राह्म॒णो य॑ज्ञोपवी॒त्यधी॑ते॒ यज॑त ए॒व तत् तस्मा᳚द् यज्ञोपवी॒त्ये॑वाधी॑यीत या॒जये॒द् यजे॑त वा य॒ज्ञस्य॒ प्रसृ॑त्या॒ अजि॑न॒व्ँवासो॑ वा दख्‍षिण॒त उ॑प॒वीय॒ दख्‍षि॑णं बा॒हुमुद्ध॑र॒तेऽव॑ धत्ते स॒व्यमिति॑ यज्ञोपवी॒तमे॒तदे॒व विप॑रीतं प्राचीनावी॒तꣳ स॒व्ँवीतं॑ मानु॒षं⁠॥रख्‍षा॑ꣳसि॒ हवा॑ पुरोऽनुवा॒के तपोग्र॑मतिष्ठन्त॒ तान् प्र॒जाप॑तिर् व॒रेणो॒पाम॑न्त्रयत॒ तानि॒ वर॑मवृणीतादि॒त्यो नो॒ योद्धा॒ इति॒ तान् प्र॒जाप॑तिरब्रवी॒द् योध॑य॒द्ध्वमिति॒ तस्मा॒दुत्ति॑ष्ठन्त॒ꣳ॒ हवा॒ तानि॒ रख्‍षा॑ꣴस्यादि॒त्यं योध॑यन्ति॒ याव॑दस्त॒मन्वगा॒त्तानि॑ ह॒ वा ए॒तानि॒ रख्‍षा॑ꣳसि गायत्रि॒या ऽभि॑मन्त्रिते॒नांभ॑सा शाम्यन्ति॒ तदु॑ ह॒ वा ए॒ते ब्र॑ह्मवा॒दिनः॑ पू॒र्वाभि॑मु॒खाः स॒न्ध्यायां᳚ गायत्रि॒या ऽभि॑मन्त्रिता॒ आप॑ ऊ॒र्द्ध्वव्ँविख्‍षि॑पन्ति॒ ता ए॒ता आपो॑ व॒ज्रीभू॒त्वा तानि॒ रख्‍षा॑ꣳसि म॒न्देहाऽरु॑णे द्वी॒पे प्रख्‍षि॑पन्ति॒ यत् प्र॑दख्‍षि॒णं प्रक्र॑मन्ति॒ तेन॑ पा॒प्मान॒मव॑धून्वन्त॒द्यन्त॑मस्त॒य्ँयन्त॑मादि॒त्यम॑भिध्या॒यन् कु॒र्वन् ब्रा᳚ह्म॒णो वि॒द्वान्थ्स॒कलं॑ भ॒द्रम॑श्नुते॒ ऽसावा॑दि॒त्यो ब्र॒ह्मेति॒ ब्रह्मै॒व सन् ब्रह्मा॒प्येति॒ य ए॒वव्ँवेद॑⁠॥ओं⁠। स॒ह ना॑ ववतु⁠। स॒ह नौ॑ भुनक्तु⁠। स॒ह वी॒र्यं॑ करवावहै⁠। ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहैः᳚⁠। ओं शान्तिः॒ शान्तिः॒ शान्तिः॑⁠। ओं अथपुरुषो ह वै नारायणोऽ कामयत प्रजाः सृ॑जेये॒ति⁠। ना॒रा॒य॒णात् प्रा॑णो जा॒यते⁠। मनः सर्वेन्द्रि॑याणि॒ च⁠। खं वायुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी⁠। ना॒रा॒य॒णात् ब्र॑ह्मा जा॒यते⁠। ना॒रा॒य॒णात् रु॑द्रो जा॒यते⁠। ना॒रा॒य॒णादि॑न्द्रो जा॒यते⁠। ना॒रा॒य॒णात् प्रजापतयः प्र॑जाय॒न्ते⁠। ना॒रा॒य॒णात् द्वादशादित्या रुद्रा वसवस्सर्वाणि च छ॑न्दा॒ꣳ॒सि⁠। ना॒रा॒य॒णादेव समु॑त्पद्य॒न्ते⁠। ना॒रा॒य॒णे प्र॑वर्त्त॒न्ते⁠। ना॒रा॒य॒णे प्र॑लीय॒न्ते⁠। ओं⁠। अथनित्यो ना॑राय॒णः⁠। ब्र॒ह्मा ना॑राय॒णः⁠। शि॒वश्च॑ नाराय॒णः⁠। श॒क्रश्च॑ नाराय॒णः⁠। द्या॒वा॒पृ॒थि॒व्यौ च॑ नाराय॒णः⁠। का॒लश्च॑ नाराय॒णः⁠। दि॒शश्च॑ नाराय॒णः⁠। ऊ॒र्द्ध्वश्च॑ नाराय॒णः⁠। अ॒धश्च॑ नाराय॒णः⁠। अ॒न्त॒र्ब॒हिश्च॑ नाराय॒णः⁠। नारायण एवे॑दꣳ स॒र्वं⁠। यत् भू॒तं यच्च॒ भव्यं᳚⁠। निष्कलो निरञ्चनो निर्विकल्पो निराख्यातः शुद्धो देव एको॑ नाराय॒णः⁠। न द्वि॒तियो᳚ऽस्ति॒ कश्चि॑त्⁠। य ए॑वं वे॒द⁠। स विष्णुरेव भवति स विष्णुरे॑व भ॒वति⁠। ओमित्य॑ग्रे व्या॒हरेत्⁠। नम इ॑ति प॒श्चात्⁠। ना॒रा॒य॒णायेत्यु॑परि॒ष्टात्⁠। ओमि॑त्ये॑का॒ख्‍षरं⁠। नम इति॑ द्वे अ॒ख्‍षरे⁠। ना॒रा॒य॒णायेति पञ्चा᳚ख्‍षरा॒णि⁠। एतद्वै नारयणस्याष्टाख्‍ष॑रं प॒दं⁠। यो ह वै नारयणस्याष्टाख्‍षरं पद॑मद्ध्ये॒ति⁠। अनपब्रुवस्सर्वमा॑युरे॒ति⁠। विन्दते प्रा॑जाप॒त्यगुं रायस्पोषं॑ गौप॒त्यं⁠। ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नु॑त इ॒ति⁠। य ए॑वं वे॒द⁠। प्रत्यगानन्दं ब्रह्मपुरुषं प्रणव॑ स्वरू॒पं⁠। अकार उकार मका॑र इ॒ति⁠। तानेकधा समभरत्तदेत॑दोमि॒ति⁠। युमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒ संसा॑रब॒न्धनात्⁠। ओं नमो नारायणायेति म॑न्त्रोपा॒सकः⁠। वैकुण्ठभुवनलोकं॑ गमि॒ष्यति⁠। तदिदं परं पुण्डरीकं वि॑ज्ञान॒घनं⁠। तस्मात् तदिदा॑वन् मा॒त्रं⁠। ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनों⁠। सर्वभूत स्थमेकं॑ नारा॒यणं⁠। कारणरूपमकार प॑रब्र॒ह्मों⁠। एतदथर्व शिरो॑योऽधी॒ते⁠। प्रा॒तरधी॑या॒नो॒ रात्रिकृतं पापं॑ नाश॒यति⁠। सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति⁠। माद्ध्यन्दिनमादित्याभिमुखो॑ऽधीया॒नः⁠। पञ्चपातकोपपातका᳚त् प्रमु॒च्यते⁠। सर्व वेदपारायण पु॑ण्यं ल॒भते⁠। नारायणसायुज्यम॑वाप्नो॒ति॒ नारायणसायुज्य म॑वाप्नो॒ति⁠। य ए॑वं वे॒द⁠। इत्यु॑प॒निष॑त्⁠॥

॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

Sections४
Mantras४
Version5.0