तै.सं.१.१.१.१
इ॒षेत्वो॒र्जेत्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वोव॑स्सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्ष्मा मा वः॑ स्ते॒न ई॑शत॒ माऽघश॑ꣳसो रु॒द्रस्य॑ हे॒तिः परि॑वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर् यज॑मानस्य प॒शून् पा॑हि॥
१.१
प्रथमकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
१.२
द्वितीयकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
वा॒य॒व्य॑ꣴ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर् वै ख्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाति॑ख्षिप्रा दे॒वतेत्या॑हु॒स्सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्त॑व्ँवा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र् धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व [ ]
१.३
तृतीयकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॒ सतपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒ स वया॑ꣴस्यसृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तं दी᳚ख्षितवा॒दम॑पश्य॒त् तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत् तप॑स्त॒प्त्वा दी᳚ख्षितवा॒दव्ँवद॑ति प्र॒जा ए॒व तद्यज॑मानः [ ]
१.४
चतुर्थकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
यु॒ञ्जा॒नः प्र॑थ॒मं मन॑स्त॒त्वाय॑ सवि॒ता धियः॑। अ॒ग्निं ज्योति॑र् नि॒चाय्य॑ पृथि॒व्या अद्ध्याऽभ॑रत्॥ यु॒क्त्वाय॒ मन॑सा दे॒वान्थ् सुव॑र्य॒तो धि॒या दिवं᳚। बृ॒हज्ज्योतिः॑ करिष्य॒त स्स॑वि॒ता प्र सु॑वाति॒ तान्॥ यु॒क्तेन॒ मन॑सा व॒यं दे॒वस्य॑ सवि॒तु स्स॒वे। स॒व॒र्गेया॑य॒ शक्त्यै᳚॥ यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑। वि होत्रा॑ दधे वयुना॒ विदेक॒ इत् [ ]
१.५
पञ्चमकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
सा॒वि॒त्राणि॑ जुहोति॒ प्रसू᳚त्यै चतुर्गृही॒तेन॑ जुहोति॒ चतु॑ष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ च॑तस्रो॒ दिशो॑ दि॒ख्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दा॑ꣳसि दे॒वेभ्यो ऽपा᳚क्राम॒न्न वो॑ ऽभा॒गानि॑ ह॒व्यव्ँव॑ख्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृही॒तम॑धारयन् पुरोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दा॑ꣴस्ये॒व तत् प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यव्ँव॑हन्ति॒ यं का॒मये॑त [ ]
१.६
षष्टकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
प्रा॒चिन॑वꣳशं करोति देवमनु॒ष्या दिशो॒ व्य॑भजन्त॒ प्राची᳚न्दे॒वा द॑ख्षि॒णा पि॒तरः॑ प्र॒तीचीं᳚ मनु॒ष्या॑ उदी॑चीꣳ रु॒द्रा यत् प्रा॒चीन॑वꣳशशं क॒रोति॑ देवलो॒कमे॒व तद्यज॑मान उ॒पाव॑र्त्तते॒ परि॑ श्रयत्य॒न्तर्हि॑तो॒ हि दे॑वलो॒को म॑नुष्यलो॒कान्नास्माल्ँलो॒काथ् स्वे॑तव्य मि॒वेत्या॑हुः॒ कोहि तद्वेद॒ यद्य॒मुष्मि॑ल्ँलो॒केऽस्ति॑ वा॒ नवेति॑ दि॒ख्ष्व॑ती का॒शान् क॑रोति [ ]
१.७
सप्तमकाण्डे प्रथमप्रश्नः प्रथमपञ्चातिः
प्र॒जन॑नं॒ ज्योति॑र॒ग्निर्दे॒वता॑नां॒ ज्योति॑र् वि॒राट् छन्द॑सां॒ ज्योति॑र्वि॒राड्वा॒चो᳚ऽग्नौ सन्ति॑ष्ठते वि॒राज॑म॒भि सं प॑द्यते॒ तस्मा॒त् तज्ज्योति॑रुच्यते॒ द्वौ स्तोमौ᳚ प्रातस्सव॒नव्ँव॑हतो॒ यथा᳚ प्रा॒णश्चा॑ पा॒नश्च॒ द्वौ माद्ध्य॑न्दिन॒ꣳ॒ सव॑न॒य्ँयथा॒ चख्षु॑श्च॒ श्रोत्र॑ञ्च॒ द्वौ तृ॑तीयसव॒नय्ँयथा॒ वाक्च॑ प्रति॒ष्ठा च॒ पुरु॑षसम्मितो॒ वा ए॒ष य॒ज्ञोऽस्थू॑रिः [ ]
१.८
सप्तमकाण्डे पञ्चमप्रश्नः अन्त्यपञ्चातिः
स॒मु॒द्र उ॒दर॑म॒न्तरि॑ख्षं पा॒युर् द्यावा॑पृथि॒वी आ॒ण्डौ ग्रावा॒ शेप॒स्सोमो॒रेतो॒ यज्ज॑ञ्ज॒भ्यते॒ तद्वि द्यो॑तते॒ यद्वि॑धूनु॒ते तथ् स्त॑नयति॒ यन्मेह॑ति॒ तद् व॑र्षति॒ वागे॒वास्य॒ वागह॒र् वा अश्व॑स्य॒ जाय॑मानस्य महि॒मा पु॒रस्ता᳚ज्जायते॒ रात्रि॑रेनं महि॒मा प॒श्चादनु॑जायत ए॒तौ वै म॑हि॒माना॒वश्व॑म॒भितः॒ सं ब॑भूवतु॒र्॒हयो॑ दे॒वान॑वह॒दर्वाऽसु॑रान्वा॒जी ग॑न्ध॒र्वानश्वो॑ मनु॒ष्या᳚न् थ्समु॒द्रो वा अश्व॑स्य॒ योनि॑ स्समु॒द्रो बन्धुः॑॥
१.९
तैत्तिरीय यजुब्राह्मणं प्रथमाष्टके प्रथमप्रश्नः प्रथम दशिनि
ब्रह्म॒ सन्ध॑त्तं॒ तन्मे॑ जिन्वतं। ख्ष॒त्रꣳ सन्ध॑त्तं॒ तन्मे॑ जिन्वतं। इष॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं। ऊर्ज॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं। र॒यिꣳ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं। पुष्टि॒ꣳ॒ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं। प्र॒जाꣳ सन्ध॑त्तं॒ ताम्मे॑ जिन्वतं। प॒शून्थ् सन्ध॑त्तं॒ तान्मे॑ जिन्वतं। स्तु॒तो॑ऽसि॒ जन॑धाः। दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु॥ [ ] सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒न् परी॑हि।
१.१०
द्वितीयाष्टके प्रथमप्रश्नः प्रथम दशिनि
अङ्गि॑रसो॒ वै स॒त्रमा॑सत। तेषां॒ पृश्ञि॑र् घर्म॒धुगा॑सीत्। सर्जी॒षेणा॑जीवत्। ते᳚ऽब्रुवन्न्। कस्मै॒ नु स॒त्रमा᳚स्महे। ये᳚ऽस्या ओष॑धी॒र् न ज॒नया॑म॒ इति॑। ते दि॒वो वृष्टि॑मसृजन्त। याव॑न्तः स्तो॒का अ॒वाप॑द्यन्त। ताव॑ती॒रोष॑धयोऽजायन्त। ता जा॒ताः पि॒तरो॑ वि॒षेणा॑ लिंपन्न्॥ [ ] तासां᳚ ज॒ग्ध्वा रुप्य॒न्त्यैत्।
१.११
तृतीयाष्टके प्रथमप्रश्नः प्रथम दशिनि
अ॒ग्निर्नः॑ पातु॒ कृत्ति॑काः। नख्ष॑त्रं दे॒वमि॑न्द्रि॒यं। इ॒दमा॑साव्ँविचख्ष॒णं। ह॒विरा॒सं जु॑होतन। यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑। यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚। स कृत्ति॑काभिर॒भि स॒व्ँवसा॑नः। अ॒ग्निर् नो॑ दे॒वस्सु॑वि॒ते द॑धातु। प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚। वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः॥ [ ] सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु।
१.१२
तृतीयाष्टके नवमप्रश्नः प्रथम दशिनि
प्र॒जाप॑तिरश्वमे॒धम॑सृजत। सो᳚ऽस्माथ्सृ॒ष्टोऽपा᳚क्रामत्। तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त। तमा᳚प्नोत्। तमा॒प्त्वा ऽष्टा॑द॒शिभि॒रवा॑रुन्ध। यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚। य॒ज्ञमे॒व तैरा॒प्त्वा यज॑मा॒नो ऽव॑रुन्धे। स॒व्ँव॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा। यद॑ष्टाद॒शिनः॑। द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑। स॒व्ँव॒थ्स॒रो᳚ऽष्टा द॒शः॥
१.१३
तृतीयाष्टके नवमप्रश्नः अन्त्य दशिनि
यद् द॑र्शपूर्णमा॒सौ यज॑ते। अश्व॑स्यै॒व मेद्ध्य॑स्य प॒देप॑दे जुहोति। ए॒तद॑नुकृति ह स्म॒ वै पु॒रा। अश्व॑स्य॒ मेद्ध्य॑स्य प॒देप॑दे जुह्वति। यो वा अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त्त॑न॒व्ँवेद॑। अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुहोति। अ॒सौ वा आ॑दि॒त्योऽश्वः॑। स आ॑हव॒नीय॒माग॑च्छति। तद्विव॑र्त्तते। यद॑ग्निहो॒त्रं जु॒होति॑। अश्व॑स्यै॒व मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुहोति। ए॒तद॑नुकृति ह स्म॒ वै पु॒रा। अश्व॑स्य॒ मेद्ध्य॑स्य वि॒वर्त्त॑ने विवर्त्तने जुह्वति।
१.१४
काटके प्रथम प्रश्नः प्रथम दशिनि
सं॒ज्ञान॑व्ँवि॒ज्ञानं॑ प्र॒ज्ञानं॑ जा॒नद॑भिजा॒नत्। सं॒कल्प॑मानं प्र॒कल्प॑मानमुप॒कल्प॑मान॒मुप॑क्लृप्तं क्लृ॒प्तं। श्रेयो॒ वसी॑य आ॒यथ् संभू॑तं भू॒तं। चि॒त्रः के॒तुः प्र॒भाना॒भान्थ्सं॒भान्। ज्योतिष्मा॒ꣴ॒ स्तेज॑स्वाना॒तप॒ꣴ॒ स्तप॑न्नभि॒तप॑न्न्। रो॒च॒नो रोच॑मानश्शोभ॒नश्शोभ॑मानः क॒ल्याणः॑। दर्शा॑ दृ॒ष्टा द॑र्श॒ता वि॒श्वरू॑पा सुदर्श॒ना। आ॒प्याय॑माना॒ प्याय॑माना॒ प्याया॑ सू॒नृतेरा᳚। आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी। दा॒ता प्र॑दा॒ताऽऽन॒न्दो मोदः॑ प्रमो॒दः॥ [ ] आ॒वे॒शय॑न्निवे॒शय᳚न्थ् स॒व्ँवेश॑नः॒ सꣳशा᳚न्तश्शा॒न्तः।
१.१५
काटके तृतीयप्रश्नः अन्त्य दशिनि
तस्यै॒वात्मा प॑द॒वित्तव्ँवि॑दित्वा। न कर्म॑णा लिप्यते॒ पाप॑केन। पञ्च॑पञ्चा॒शत॑ स्त्रि॒वृत॑ स्सव्ँवथ्स॒राः। पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः। पञ्च॑पञ्चा॒शत॑ स्सप्तद॒शाः। पञ्च॑पञ्चा॒शत॑ एकवि॒ꣳ॒शाः। वि॒श्व॒सृजा॑ꣳ स॒हस्र॑सव्ँवथ्सरं। ए॒तेन॒ वै वि॑श्व॒सृ॑ज इ॒दव्ँविश्व॑मसृजन्त। यद्विश्व॒मसृ॑जन्त। तस्मा᳚द्विश्व॒सृजः॑। विश्व॑मेना॒ननु॒ प्रजा॑यते। ब्रह्म॑ण॒स्सायु॑ज्यꣳ सलो॒कता᳚य्ँयन्ति। ए॒ता सा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यं। सा॒र्ष्टिता॑ꣳ समान लो॒कता᳚य्ँयन्ति। य ए॒तदु॑प॒यन्ति॑। ये चै॑न॒त् प्राहुः॑। येभ्य॑श्चैन॒त् प्राहुः॑॥
१.१६
आरण्यके प्रथमप्रश्नः प्रथम दशिनि
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवाः। भ॒द्रं प॑श्येमा॒ख्षभि॒र् यज॑त्राः। स्थि॒रैरङ्गै᳚स्तुष्ठु॒वाꣳ स॑स्त॒नूभिः॑। व्यशे॑म दे॒वहि॑त॒य्ँयदायुः॑। स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः। स्व॒स्ति न॒स्तार्ख्ष्यो॒ अरि॑ष्टनेमिः। स्व॒स्ति नो॒ बृह॒स्पति॑र् दधातु। आप॑मापाम॒पस्सर्वाः᳚। अ॒स्माद॒स्मादि॒तोऽ मुतः॑॥ [ ] अ॒ग्निर्वा॒युश्च॒ सूर्य॑श्च।
१.१७
आरण्यके दशमप्रश्नः अन्त्य दशिनि
तस्यै॒वव्ँवि॒दुषो॑ य॒ज्ञस्या॒त्मा यज॑मानश्र॒द्धापत्नी॒ शरी॑रमि॒द्ध्ममुरो॒ वेदि॒र्लोमा॑नि ब॒र्॒हिर्वे॒दश्शिखा॒ हृद॑य॒य्ँयूपः॒ काम॒ आज्यं॑ म॒न्युः प॒शुस्तपो॒ऽग्निर्दम॑श्शमयि॒ता दख्षि॑णा॒वाग्घोता᳚ प्रा॒ण उ॑द्गा॒ता , चख्षु॑रद्ध्व॒र्युर्मनो॒ ब्रह्मा॒ श्रोत्र॑म॒ग्नी द्याव॒द्ध्रिय॑ते॒ सा दी॒ख्षा यदश्ना॑ति॒ तद्धवि॒र्यत्पिब॑ति॒ तद॑स्य सोमपा॒नय्ँयद्रम॑ते॒ तदु॑प॒ सदो॒ यथ् सं॒चर॑त्युप॒विश॑त्यु॒त्तिष्ठ॑ते च॒ सप्र॑व॒र्ग्यो॑ यन्मुखं॒ तदा॑हव॒नीयो॒ या व्याहृ॑तिराहु॒तिर्यद॑स्य , वि॒ज्ञानं॒ तज्जु॒होति॒ यथ्सा॒यं प्रा॒तर॑त्ति॒ तथ्स॒मिधं॒ यत्प्रा॒तर् म॒द्ध्यन्दि॑न सा॒यं च॒ तानि॒ सव॑नानि॒ ये अ॑होरा॒त्रे ते द॑र्शपूर्णमा॒सौ ये᳚र्द्ध मा॒साश्च॒ मासा᳚श्च॒ ते चा॑तुर्मा॒स्यानि॒ य ऋ॒तव॒स्ते प॑शुब॒न्धा ये स॑व्ँवथ्स॒राश्च॑ परिवथ्स॒राश्च॒ तेऽह॑र्ग॒णास्स॑र्व वेद॒सव्ँवा , ए॒तथ् स॒त्रय्ँयन्मर॑णं॒ तद॑व॒भृथ॑ ए॒तद्वै ज॑रामर्यमग्निहो॒त्रꣳ स॒त्रय्ँय ए॒वव्ँवि॒द्वानु॑द॒गय॑ने प्र॒मीय॑ते दे॒वाना॑मे॒व म॑हि॒मानं॑ ग॒त्वाऽऽदि॒त्यस्य॒ सायु॑ज्यं , गच्छ॒त्यथ॒ यो द॑ख्षि॒णे प्र॒मीय॑ते पितृ॒णामे॒व म॑हि॒मानं॑ ग॒त्वा च॒न्द्रम॑स॒ स्सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तौ वै सू᳚र्या चन्द्र॒मसौ᳚र्महि॒मानौ᳚ ब्राह्म॒णो वि॒द्वान॒भिज॑यति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑ माप्नोति॒ तस्मा᳚द् ब्र॒ह्मणो॑ महि॒मान॑मित्युप॒निषत्॥
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥