२.१
उपनयनमन्त्राः
२.१.१
ख्षुर कर्म
उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न्वपतु॥ १
॥१॥
आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से। ज्योक्च॒ सूर्यं॑ दृ॒शे॥ २
॥२॥
येनाव॑पथ्सवि॒ता ख्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒न् जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ॥ ३
॥३॥
येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्। तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚॥ ४
॥४॥
येन॒ भूय॒श्चरा᳚त्य॒यं ज्योक्च॒ पश्या॑ति॒ सूर्य᳚म्। तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚॥ ५
॥५॥
येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्। तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योख् सु॒मना॒ असाः᳚॥ ६
॥६॥
यत्ख्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशा॑न्। शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः॥ ७
॥७॥
उ॒प्त्वाय॒ केशा॒न्॒वरु॑णस्य॒ राज्ञो॒ बृह॒स्पति॑स्सवि॒ता सोमो॑ अ॒ग्निः। तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑॥ ८
॥८॥
(आयु॒षेऽव॑प॒त् पञ्च॑ च) K1 (१५)
२.२
उपनयनमन्त्राः
२.२.१
समिदाधानं
आ॒यु॒र्दा दे॑व ज॒रसं॑ गृणा॒नो घृ॒तप्र॑तीको घृ॒तपृ॑ष्ठो अग्ने। घृ॒तं पिब॑न्न॒मृतं॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रं ज॒रसे॑ नये॒मम्॥ १
॥१॥
२.२.२
अश्मास्तापनं
आति॑ष्ठे॒ममश्मा॑न॒मश्मे॑व॒ त्वꣴस्थि॒रो भ॑व। अ॒भिति॑ष्ठ पृतन्य॒तः सह॑स्व पृतनाय॒तः॥ २
॥२॥
२.२.३
वासः परिधानं
रे॒वती᳚स्त्वा॒ व्य॑ख्ष्ण॒न् कृत्ति॑का॒श्चाकृ॑न्तꣴस्त्वा। धियो॑ऽवय॒न्नव॒ग्ना अ॑वृञ्जन्थ्स॒हस्र॒मन्ता॑ꣳ अ॒भितो॑ अयच्छन्न्॥ ३
॥३॥
दे॒वीर्दे॒वाय॑ परि॒धी स॑वि॒त्रे। म॒हत्तदा॑सामभवन्महित्व॒नम्॥ ४
॥४॥
या अकृ॑न्त॒न्नव॑य॒न्॒या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त। तास्त्वा॑ दे॒वीर् ज॒रसे॒ सव्ँव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धथ्स्व॒ वासः॑॥ ५
॥५॥
परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षङ्कृणुत दी॒र्घमायुः॑। बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तथ्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑॥ ६
॥६॥
ज॒राङ्ग॑च्छासि॒ परि॑धथ्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा᳚। श॒तञ्च॑ जीव श॒रदः॑ सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ सव्ँव्य॑यस्व॥ ७
॥७॥
परी॒दव्ँवासो॒ अधि॑धाः स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा᳚। श॒तञ्च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒र्यो वि॑भजासि॒ जीव॑न्न्॥ ८
॥८॥
२.२.४
मौञ्ज्यजनि मन्त्राः
इ॒यन्दुरु॑क्तात् परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त्। प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वाना॑ꣳ सु॒भगा॒ मेख॑ले॒यम्॥ ९
॥९॥
ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रख्षः॒ सह॑माना॒ अरा॑तीः। सा नः॑ सम॒न्तमनु॒ परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते॒ मेख॑ले॒ मा रि॑षाम॥ १०
॥१०॥
मि॒त्रस्य॒ चख्षु॒र् धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थ॒विर॒ꣳ॒ समि॑द्धम्। अ॒ना॒ह॒न॒स्यव्ँवस॑नञ्जरि॒ष्णु परी॒दव्ँवा॒ज्यजिन॑न्दधे॒ऽहम्॥ ११
॥११॥
(वासो॒ मरि॑षाम॒ द्वे च॑) K2 (२१)
२.३
उपनयनमन्त्राः
२.३.१
अग्रेरुत्तरतोऽवस्थापनं प्रोख्षणं हस्तग्रहणं परिदानं उपनयनं कर्ण जपः प्रश्नप्रतिवचनं च
आ॒ग॒न्त्रा सम॑गन्महि॒ प्रसु॑ मृ॒त्युय्ँयु॑योतन। अरि॑ष्टाः॒ सञ्च॑रेमहि स्व॒स्ति च॑रतादि॒ह स्व॒स्त्या गृ॒हेभ्यः॑॥ १
॥१॥
स॒मु॒द्रादू॒र्मिर् मधु॑मा॒ꣳ॒ उदा॑रदुपा॒ꣳ॒शुना॒ सम॑मृत॒त्वम॑श्याम्। इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो॑ न॒ आय॑न्न्॥ २
॥२॥
अ॒ग्निष्टे॒ हस्त॑मग्रभी॒थ् ३, सोम॑स्ते॒ हस्त॑मग्रभीथ् ४, सवि॒ता ते॒ हस्त॑मग्रभी॒थ् ५, सर॑स्वती ते॒ हस्त॑मग्रभीत् ६, पू॒षा ते॒ हस्त॑मग्रभी ७, दर्य॒मा ते॒ हस्त॑मग्रभी॒ ८, दꣳशु॑स्ते॒ हस्त॑मग्रभी॒द् ९, भग॑स्ते॒ हस्त॑मग्रभीन् १०, मि॒त्रस्ते॒ हस्त॑मग्रभीन् ११, मि॒त्रस्त्वम॑सि॒ धर्म॑णा॒ऽग्निरा॑चा॒र्यस्तव॑॥ १२
॥१२॥
अ॒ग्नये᳚ त्वा॒ परि॑ददाम्यसौ॒ १३, सोमा॑य त्वा॒ परि॑ददाम्यसौ १४, सवि॒त्रे त्वा॒ परि॑ददाम्यसौ॒ १५, सर॑स्वत्यै त्वा॒ परि॑ददाम्यसौ १६, मृ॒त्यवे᳚ त्वा॒ परि॑ददाम्यसौ १७, य॒माय॑ त्वा॒ परि॑ददाम्यसौ १८, ग॒दाय॑ त्वा॒ परि॑ददाम्यसा॒ १९, वन्त॑काय त्वा॒ परि॑ददाम्यसा २०, व॒द्भ्यस्त्वा॒ परि॑ददाम्यसा॒ २१, वोष॑धीभ्यस्त्वा॒ परि॑ददाम्यसौ २२, पृथि॒व्यै त्वा॒ सवै᳚श्वान॒रायै॒ परि॑ददाम्यसौ॥ २३
॥२३॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व उप॑नये॒ऽसौ॥ २४
॥२४॥
सु॒प्र॒जाः प्र॒जया॑ भूयाः सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚॥ २५
॥२५॥
ब्र॒ह्म॒चर्य॒मागा॒मुप॒ मा न॑यस्व दे॒वेन॑ सवि॒त्रा प्रसू॑तः॥ २६
॥२६॥
को नामा᳚स्य॒सौ नामा᳚ऽस्मि॒ कस्य॑ ब्रह्मचा॒र्य॑स्यसौ प्रा॒णस्य॑ ब्रह्मचा॒र्य॑स्म्य॒सा २७ वे॒ष ते॑ देव सूर्य ब्रह्मचा॒री तं गो॑पाय॒ स मा मृ॑तै॒ष ते॑ सूर्यपु॒त्रः सुदी᳚र्घा॒युः स॒मामृ॑त। याꣴ स्व॒स्तिम॒ग्निर् वा॒युः सूर्य॑श्च॒न्द्रमा॒ आपोऽनु॑ स॒ञ्चर॑न्ति॒ ताꣴ स्व॒स्तिमनु॒ सञ्च॑रासौ॥ २८
॥२८॥
अवद्ध्व॑नामद्ध्वपते॒ श्रेष्ठ॒स्याद्ध्व॑नः पा॒रम॑शीय॥ २९
॥२९॥
(स॒मामृ॑त॒ द्वे च॒) K3 (१२)
२.४
उपनयनमन्त्राः
२.४.१
होम मन्त्राः
विस्तारः —
योगे॑योगे त॒वस्त॑र १,
योगे॑योगे त॒वस्त॑र १, मि॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीति॒ द्वे २ योगे॑योगे त॒वस्त॑र॒व्ँवाजे॑वाजे हवामहे। सखा॑य॒ इन्द्र॑मू॒तये᳚॥ १ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न्। मा॒ तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त्॥ २ श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना᳚म्। पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒द्ध्या री॑रिष॒तायु॒र् गन्तोः᳚॥ ३ अ॒ग्निष्ट॒ आयुः॑ प्रत॒रां द॑धात्व॒ग्निष्टे॒ पुष्टिं॑ प्रत॒रां कृ॑णोतु। इन्द्रो॑ म॒रुद्भि॑र्ऋतु॒धा कृ॑णोत्वादि॒त्यैस्ते॒ वसु॑भि॒राद॑धातु॥ ४ मे॒धां मह्य॒मङ्गि॑रसो मे॒धाꣳ स॑प्त॒र्॒षयो॑ ददुः। मे॒धां मह्यं॑ प्र॒जाप॑तिर् मे॒धाम॒ग्निर् द॑दातु मे॥ ५ अ॒फ्स॒रासु॑ च॒ या मे॒धा ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑। दैवी॒ या मा॑नु॒षी मे॒धा सा मामावि॑शतादि॒ह॥ ६ इ॒मं मे॑ वरुण॒७{ }, तत्त्वा॑ यामि॒ ८ { }, त्वन्नो॑ अग्ने॒ ९ { }. स त्वन्नो॑ अग्ने॒ १०{ }, त्वम॑ग्ने अ॒यासि॑॥ ११
TS 4.1.2.1
विस्तारः —
इ॒मं मे॑ वरुण॒७, तत्त्वा॑ यामि॒ ८ , त्वन्नो॑ अग्ने॒ ९ . स त्वन्नो॑ अग्ने॒ १०, त्वम॑ग्ने अ॒यासि॑ ११ .
१.७.४
२.४.२
कूर्चारोहणं
रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षम्॥ १२
॥१२॥
२.४.३
सावित्री
तथ् स॑वि॒तुर्वरे᳚ण्य॒मित्ये॒षा { }॥ १३
॥१३॥
विस्तारः —
तथ् स॑वि॒तुर्वरे᳚ण्यं
तथ् स॑वि॒तुर्वरे᳚ण्यं तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ योनः॑ प्रचो॒दया᳚त्।
TS 1.5.6.4
२.४.४
ओष्टकर्णोपस्पर्शनं
अवृ॑धम॒सौ सौ᳚म्य प्रा॒ण स्वं मे॑ गोपाय॥ १४
॥१४॥
ब्रह्म॑ण आ॒णी स्थः॑॥ १५
॥१५॥
(त्वम॑ग्ने अ॒याऽसि॑ च॒त्वारि॑ च) K4 (१४)
२.५
उपनयनमन्त्राः
२.५.१
दण्डादानं
सु॒श्रवः॑ सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वꣳ सु॒श्रवः॑ सु॒श्रवा॑ अस्ये॒वम॒हꣳ सु॒श्रवः॑ सु॒श्रवा॑ भूयास॒य्ँयथा॒ त्वꣳ (सु॒श्रवः॑ सु॒श्रवो॑) सु॒श्रवो॑ दे॒वानां᳚ निधिगो॒पो᳚ऽस्ये॒वम॒हं ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णो निधिगो॒पो भू॑यासम्॥ १
॥१॥
२.५.२
कुमारवाचनं उत्थापनं आदित्योपस्थानं
हस्तग्रहणं च. स्मृ॒तं च॒ मेऽस्मृ॑तं च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तं २ नि॒न्दा च॒ मेऽनि॑न्दा च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तꣴ ३ श्र॒द्धा च॒ मेऽश्र॑द्धा च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तं ४ वि॒द्या च॒ मेऽवि॑द्या च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तꣴ ५ श्रु॒तं च॒ मेऽश्रु॑तं च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तꣳ ६ स॒त्यं च॒ मेऽनृ॑तं च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तं ७ तप॑श्च॒ मेऽत॑पश्च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तं ८ व्र॒तं च॒ मेऽव्र॑तं च मे॒ तन्म॑ उ॒भय॑व्ँव्र॒तं ९ यद् ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णि व्र॒तं, यद॒ग्नेः सेन्द्र॑स्य॒ सप्र॑जापतिकस्य॒ सदे॑वस्य॒ सदे॑वराजस्य॒ सम॑नुष्यस्य॒ सम॑नुष्यराजस्य॒ सपि॑तृकस्य॒ सपि॑तृराजस्य॒ सग॑न्धर्वाफ्सर॒स्कस्य॑। यन्म॑ आ॒त्मन॑ आ॒त्मनि॑ व्र॒तं तेना॒हꣳ सर्व॑व्रतो भूयासम्॥ १०
॥१०॥
उदायु॑षा स्वा॒युषोदोष॑धीना॒ꣳ॒ रसे॒नोत्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्थाम॒मृता॒ꣳ॒ अनु॑॥ ११
॥११॥
तच्चख्षु॑र्दे॒वहि॑तं पु॒रस्ता᳚च्छु॒क्रमु॒च्चर॑त्। पश्ये॑म श॒रदः॑श॒तं जीवे॑म श॒रदः॑श॒तं नन्दा॑म श॒रदः॑श॒तं मोदा॑म श॒रदः॑श॒तं भवा॑म श॒रदः॑श॒तꣳ शृ॒णवा॑म श॒रदः॑श॒तं प्रब्र॑वाम श॒रदः॑श॒तमजी॑ताः स्याम श॒रदः॑श॒तं ज्योक्च॒ सूर्यं॑ दृ॒शे॥ १२
॥१२॥
यस्मि॑न् भू॒तं च॒ भव्यं॑ च॒ सर्वे॑ लो॒काः स॒माहि॑ताः। तेन॑ गृह्णामि त्वाम॒हं मह्यं॑ गृह्णामि त्वाम॒हं प्र॒जाप॑तिना त्वा॒ मह्यं॑ गृह्णाम्यसौ॥ १३
॥१३॥
(सु॒श्रवः सु॒श्रव॑सम॒ष्टौ) K5 (८)
२.६
उपनयनमन्त्राः
२.६.१
समिदाधानं
परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्यायु॑षा च॒ धने॑न च। सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ सु॒वीरो॑ वी॒रैः सु॒वर्चा॒ वर्च॑सा सु॒पोषः॒ पोषैः᳚ सु॒गृहो॑ गृ॒हैः सु॒पतिः॒ पत्या॑ सुमे॒धा मे॒धया॑ सु॒ब्रह्मा ब्र॑ह्मचा॒रिभिः॑ (सु॒ब्रह्मा᳚ ब्रह्मचा॒रिभिः॑)॥ १
॥१॥
अ॒ग्नये॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे॒ यथा॒ त्वम॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑ ए॒वं मामायु॑षा॒ वर्च॑सा स॒न्या मे॒धया᳚ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒ समे॑धय॒ स्वाहा᳚॥ २
॥२॥
एधो᳚ऽस्येधिषी॒महि॒ स्वाहा᳚॥ ३
॥३॥
स॒मिद॑सि समेधिषी॒महि॒ स्वाहा᳚॥ ४
॥४॥
तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि॒ स्वाहा᳚॥ ५
॥५॥
अपो॑ अ॒द्यान्व॑चारिष॒ꣳ॒ रसे॑न॒ सम॑सृख्ष्महि। पय॑स्वाꣳ अग्न॒ आग॑म॒न्तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा᳚॥ ६
॥६॥
सं मा᳚ऽग्ने॒ वर्च॑सा सृज प्र॒जया॑ च॒ धने॑न च॒ स्वाहा᳚॥ ७
॥७॥
वि॒द्युन्मे॑ अस्य दे॒वा इन्द्रो॑ वि॒द्याथ् स॒हर्षि॑भिः॒ स्वाहा᳚॥ ८
॥८॥
अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा᳚॥ ९
॥९॥
द्यावा॑पृथि॒वीभ्या॒ꣴ॒ स्वाहा᳚॥ १०
॥१०॥
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒ तया॒ऽहव्ँवर्द्ध॑मानो भूयासमा॒प्याय॑मानश्च॒ स्वाहा᳚॥ ११
॥११॥
यो मा᳚ऽग्ने भा॒गिन॑ꣳ स॒न्तमथा॑भा॒गं चिकी॑र्षत्यभा॒गम॑ग्ने॒ तं कु॑रु॒ माम॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा᳚॥ १२
॥१२॥
स॒मिध॑मा॒धाया᳚ग्ने॒ सर्व॑व्रतो भूयास॒ꣴ॒ स्वाहा᳚॥ १३
॥१३॥
२.६.२
संशासनं वासस आदानं च.
ब्र॒ह्म॒चा॒र्य॑स्यपो॑ऽशान॒ कर्म॑ कुरु॒ मा सुषु॑प्थाः। भि॒ख्षा॒च॒र्यं॑ चराचार्याधी॒नो भ॑व॥ १४
॥१४॥
यस्य॑ ते प्रथमवा॒स्य॑ꣳ हरा॑म॒स्तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः। तन्त्वा॒ भ्रात॑रः सु॒वृधो॒ वर्द्ध॑मान॒मनु॑ जायन्तां ब॒हवः॒ सुजा॑तम्॥ १५ (उपनयनमन्त्राः समाप्तः)
॥१५॥
(स॒ह ऋषि॑भि॒स्स्वाहा॒ नव॑ च) K6 (१९)
२.७
समावर्तनमन्त्राः
२.७.१
समिधादानं
इ॒मꣴ स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ संम॑हेमा मनी॒षया᳚। भ॒द्रा हि नः॒ प्रम॑तिरस्य स॒ꣳ॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑॥ १
॥१॥
२.७.२
ख्षुर कर्म
त्य्रा॒यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्य्रायु॒षम्। यद्दे॒वानां᳚ त्य्रायु॒षं तन्मे॑ अस्तु त्य्रायु॒षम्॥ २
॥२॥
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिꣳसीः॥ ३ उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः { }। (४ तो११)
॥३॥
विस्तारः —
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः उ॒ष्णेन॑ वायवुद॒केनेह्यदि॑तिः॒ केशा॑न् वपतु॥ ४ आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑से। ज्योक्च॒ सूर्यं॑ दृ॒शे॥ ५ येनाव॑पथ् सवि॒ता ख्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्यायु॑ष्मा॒न् जर॑दष्टि॒र्यथाऽस॑द॒यम॒सौ॥ ६ येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्। तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚॥ ७ येन॒ भूय॒श्चरा᳚त्य॒यं ज्योक्च॒ पश्या॑ति॒ सूर्य᳚म्। तेना॒स्यायु॑षे वप॒ सौश्लो᳚क्याय स्व॒स्तये᳚॥ ८ येन॑ पू॒षा बृह॒स्पते॑र॒ग्नेरिन्द्र॑स्य॒ चायु॒षेऽव॑पत्। तेन॑ ते वपाम्यसा॒वायु॑षा॒ वर्च॑सा॒ यथा॒ ज्योख् सु॒मना॒ असाः᳚॥ ९ यत् ख्षु॒रेण॑ म॒र्चय॑ता सुपे॒शसा॒ वप्त्रा॒ वप॑सि॒ केशा॑न्। शु॒न्धि॒ शिरो॒ माऽस्यायुः॒ प्रमो॑षीः॥ १० उ॒प्त्वाय॒ केशा॒न्॒वरु॑णस्य॒ राज्ञो॒ बृह॒स्पतिः॑ सवि॒ता सोमो॑ अ॒ग्निः। तेभ्यो॑ नि॒धानं॑ बहु॒धाऽन्व॑विन्दन्नन्त॒रा द्यावा॑पृथि॒वी अ॒पः सुवः॑॥ ११
२.१.१
२.७.३
मेखलाया उपजूहनं
इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्य॑ पा॒प्मान॒मुप॑गूहा॒म्युत्त॑रो॒ऽसौ द्वि॒षद्भ्यः॑॥ १२
॥१२॥
२.७.४
स्नान मन्त्राः
आपो॒ हि ष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रो { } १३ तो १५,
॥१५॥
विस्तारः —
आपो॒ हि ष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रः
आपो॒ हि ष्ठा म॑यो॒भुव॒ इति॑ ति॒स्रः आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चख्ष॑से॥ १३ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥ १४ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥ १५ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का इति॑ ति॒स्रः { }॥ १६ तो१८
TS 4.1.5.1
विस्तारः —
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का इति॑ ति॒स्रः { }॥ १६१८ हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑। अ॒ग्निय्ँया गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥ १६ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्। म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥ १७ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति। याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥ १८
TS 5.6.1.1
२.७.५
दन्तधावमं वासः परिधानं च.
अ॒न्नाद्या॑य॒ व्यू॑हद्ध्वं दीर्घा॒युर॒हम॑न्ना॒दो भू॑यासम्। सोमो॒ राजा॒ ऽयमाग॑म॒थ्स मे॒ मुखं॒ प्रवे᳚ख्ष्यति॒ भगे॑न स॒ह वर्च॑सा॥ १९
॥१९॥
सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि॒ स्वा मा॑ त॒नूरावि॑श॥ २०
॥२०॥
२.७.६
देवताभ्यश्चन्दनप्रदानं.
नमो᳚ ग्र॒हाय॑ चाभिग्र॒हाय॑ च २१ नमः॑ शाकजं ज॒भाभ्यां॒ २२ नम॒स्ताभ्यो॑ दे॒वता᳚भ्यो॒ या अ॑भिग्रा॒हिणीः᳚॥ २३
॥२३॥
२.७.७
आत्मनोऽनुलेपः
अ॒फ्स॒रः सु॒ यो ग॒न्धो ग॑न्ध॒र्वेषु॑ च॒ यद्यशः॑। दैवो॒ यो मा॑नु॒षो ग॒न्धः स मा॑ ग॒न्धः सु॑र॒भिर् जु॑षताम्॥ २४
॥२४॥
२.७.८
उदपात्रे सौवर्णमणिपरिप्लावनं
इ॒यमोष॑धे॒ त्राय॑माणा॒ सह॑माना॒ सह॑स्वती। सा मा॒ हिर॑ण्यवर्चसं ब्रह्मवर्च॒सिनं॑ मा करोतु॥ २५
॥२५॥
२.७.९
ग्रीवास्वाबन्धनं
अपा॑शो॒ऽस्युरो॑ मे॒ मा सꣳ शा॑रीः शि॒वोमोप॑ तिष्ठस्व दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। श॒तꣳ श॒रद्भ्य॒ आयु॑षे॒ वर्च॑से जी॒वात्वै पुण्या॑य॥ २६
॥२६॥
२.७.१०
वाससः परिधानं
रे॒वती᳚स्त्वा॒ व्य॑ख्ष्ण॒न्नित्ये॒ताः { }॥ २७ तो ३२
॥३२॥
विस्तारः —
रे॒वती᳚स्त्वा॒ व्य॑ख्ष्ण॒न्
रे॒वती᳚स्त्वा॒ व्य॑ख्ष्ण॒न् रे॒वती᳚स्त्वा॒ व्य॑ख्ष्ण॒न् कृत्ति॑का॒श्चाकृ॑न्तꣴस्त्वा। धियो॑ऽवय॒न्नव॒ग्ना अ॑वृञ्जन्थ्स॒हस्र॒मन्ता॑ꣳ अ॒भितो॑ अयच्छन्न्॥ २७ दे॒वीर् दे॒वाय॑ परि॒धी स॑वि॒त्रे। म॒हत्तदा॑सामभवन्महित्व॒नम्॥ २८ या अकृ॑न्त॒न्नव॑य॒न्॒या अत॑न्वत॒ याश्च॑ दे॒वीरन्ता॑न॒भितो॑ऽददन्त। तास्त्वा॑ दे॒वीर्ज॒रसे॒ सव्ँव्य॑य॒न्त्वायु॑ष्मानि॒दं परि॑धथ्स्व॒ वासः॑॥ २९ परि॑धत्त धत्त॒ वास॑सैनꣳ श॒तायु॑षं कृणुत दी॒र्घमायुः॑। बृह॒स्पतिः॒ प्राय॑च्छ॒द्वास॑ ए॒तथ्सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑॥ ३० ज॒रां ग॑च्छासि॒ परि॑धथ्स्व॒ वासो॒ भवा॑ कृष्टी॒नाम॑भिशस्ति॒पावा᳚। श॒तं च॑ जीव श॒रदः॑ सु॒वर्चा॑ रा॒यश्च॒ पोष॒मुप॒ सव्ँव्य॑यस्व॥ ३१ परी॒दव्ँवासो॒ अधि॑धाः स्व॒स्तयेऽभू॑रापी॒नाम॑भिशस्ति॒पावा᳚। श॒तं च॑ जीव श॒रदः॑ पुरू॒चीर्वसू॑नि चा॒र्यो वि॑भजासि॒ जीव॑न्न्॥ ३२
२.२.४.
(स॒ह वर्च॑सा॒ नव॑ च) K7 (१९)
२.८
समावर्तनमन्त्राः
२.८.१
होमः
आ॒यु॒ष्य॑व्ँवर्च॒स्य॑ꣳ सु॒वीर्य॑ꣳ रा॒यस्पोष॒मौद्भि॑द्यम्। इ॒दꣳ हिर॑ण्यं॒ जैत्य्रा॒यावि॑शतां॒ माम्॥ १
॥१॥
उ॒च्चै॒र्वा॒दि पृ॑तना॒जि स॑त्रासा॒हं ध॑नञ्ज॒यम्। सर्वाः॒ समृ॑द्धी॒र्॒ऋद्ध॑यो॒ हिर॑ण्ये॒ऽस्मिन्थ् स॒माहि॑ताः॥ २
॥२॥
शु॒नम॒हꣳ हिर॑ण्यस्य पि॒तुरि॑व॒ नामा᳚ग्रभैषम्। तं मा॒ हिर॑ण्यवर्चसं पू॒रुषु॑ प्रि॒यं कु॑रु॥ ३
॥३॥
प्रि॒यं मा॑ दे॒वेषु॑ कुरु प्रि॒यं मा॒ ब्रह्म॑णे कुरु। प्रि॒यव्ँवि॒श्ये॑षु शू॒द्रेषु॑ प्रि॒यꣳ राज॑सु मा कुरु॥ ४
॥४॥
या ति॒रश्ची॑ नि॒पद्य॑से॒ऽहव्ँवि॒धर॑णी॒ इति॑। तां त्वा॑ घृ॒तस्य॒ धार॑या॒ यजे॑ स॒ꣳ॒राध॑नीम॒हं॥ ५
॥५॥
स॒ꣳ॒राध॑न्यै दे॒व्यै स्वाहा᳚ ६, प्र॒साध॑न्यै दे॒व्यै स्वाहा᳚॥ ७
॥७॥
स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे। ल॒ख्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳसृ॑जामसि॥ ८
॥८॥
२.८.२
स्रग्बन्धनं
शुभि॑के॒ शिर॒ आ रो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑। मुख॑ꣳ हि॒ मम॑ शोभय॒ भूया॑ꣳसं च॒ भगं॑ कुरु॥ ९
॥९॥
यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै। इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा॥ १०
॥१०॥
२.८.३
आञ्जनमन्त्रः
यदाञ्ज॑नं त्रैककु॒दं जा॒तꣳ हि॒मव॑त उ॒परि॑। तेन॑ वामाञ्जे॒ तेज॑से॒ वर्च॑से॒ भगा॑य च॥ ११ (स॒ꣳ॒राध॑नीम॒हं नव॑ च) (ख्८) (१९)
॥११॥
२.९
समावर्तनमन्त्राः
२.९.१
आञ्जनमन्त्रः
मयि॑ पर्वतपूरु॒षं १, मयि॑ पर्वतवर्च॒सं २, मयि॑ पर्वतभेष॒जं ३, मयि॑ पर्वतायु॒षम्॥ ४
॥४॥
२.९.२
अदर्शवेख्षण उपानद्ग्रहण दण्डादान् दिगुपस्थान नख्षत्रचन्द्रोपस्थानानि.
यन्मे॒ वर्चः॑ प॒राग॑तमा॒त्मान॑मुप॒तिष्ठ॑ति। इ॒दं तत्पुन॒राद॑दे दीर्घायु॒त्वाय॒ वर्च॑से॥ ५
॥५॥
प्र॒ति॒ष्ठे स्थो॑ दे॒वता॑नां॒ मा मा॒ सन्ता᳚प्तम्॥ ६
॥६॥
प्र॒जाप॑तेः॒ शर॑णमसि॒ ब्रह्म॑णः छ॒दिर्वि॑श्वज॒नस्य॑ छा॒याऽसि॑ स॒र्वतो॑ मा पाहि॥ ७
॥७॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒माद॑दे द्विष॒तो व॒धायेन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नः॒ शर्म॑ मे भव॒ यत्पा॒पं तन्निवा॑रय॥ ८ देवीः᳚ षडुर्वी॒र् इत्ये॒षा। (९१०) { }
॥८॥
विस्तारः —
देवीः᳚ षडुर्वी॒र् इत्ये॒षा .
देवीः᳚ षडुर्वी॒र् इत्ये॒षा . देवीः᳚ षडुर्वीरु॒रुणः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयद्ध्वम्॥ ९ माहा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन्न्॥ १० (समावर्तनमन्त्राः समाप्तः)
TS 4.7.14.2
२.९.३
मधुपर्कमन्त्राः
रा॒ष्ट्र॒भृद॑स्याचार्यास॒न्दी मा त्वद्यो॑षꣳ ११ राष्ट्र॒भृद॑सि सम्राडास॒न्दी मा त्वद्यो॑षꣳ १२ राष्ट्र॒भृद॑स्यधिपत्न्यास॒न्दी मा त्वद्यो॑षम्॥ १३
॥१३॥
आपः॑ पादाव॒नेज॑नीर् द्वि॒षन्तं॑ नाशयन्तु मे। अ॒स्मिन् कुले᳚ ब्रह्मवर्च॒स्य॑सानि॥ १४
॥१४॥
मयि॒ महो॒ मयि॒ यशो॒ मयी᳚न्द्रि॒यव्ँवी॒र्य᳚म्॥ १५
॥१५॥
आ मा॑ ऽऽग॒न्॒यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च। तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम्॥ १६
॥१६॥
वि॒राजो॒ दोहो॑ऽसि वि॒राजो॒ दोह॑मशीय॒ मम॒ पद्या॑य॒ विरा॑ज॥ १७
॥१७॥
स॒मु॒द्रव्ँवः॒ प्रहि॑णोमि॒ स्वाय्ँयोनि॒मपि॑गच्छत। अच्छि॑द्रः प्र॒जया॑ भूयासं॒ मा परा॑सेचि॒ मत्पयः॑॥ १८
॥१८॥
(अ॒सा॒नि॒ षट्च॑) K9 (१६)
२.१०
मधुपर्कमन्त्राः
२.१०.१
मधुपर्कमन्त्राः
त्र॒य्यै वि॒द्यायै॒ यशो॑ऽसि॒ यश॑सो॒ यशो॑सि॒ ब्रह्म॑णो॒ दीप्ति॑रसि। तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम्॥ १
॥१॥
आ मा॑ ग॒न्नित्ये॒षा { }॥ २
॥२॥
विस्तारः —
आ मा॑ ग॒न्
आ मा॑ ग॒न् आ मा॑ ऽऽग॒न्॒यश॑सा॒ वर्च॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च। तं मा᳚ प्रि॒यं प्र॒जानां᳚ कु॒र्वधि॑पतिं पशू॒नाम्॥ २ अ॒मृ॒तो॒प॒स्तर॑णमस्य ३ , मृतापि॒धानम॑सि॥ ४ यन्मधु॑नो मध॒व्यं॑ पर॒मम॒न्नाद्य॑व्ँवी॒र्य᳚म्। तेना॒हं मधु॑नो मध॒व्ये॑न पर॒मेणा॒न्नाद्ये॑न वी॒र्ये॑ण पर॒मो᳚ऽन्ना॒दो म॑ध॒व्यो॑ऽसानि॥ ५ गौर॒स्यप॑हतपा॒प्माऽप॑ पा॒प्मानं॑ जहि॒ मम॑ चा॒मुष्य॑ च। अ॒ग्निः प्राश्ना॑तु प्रथ॒मः स हि वेद॒ यथा॑ ह॒विः॥ ६ (अन॑ष्ट) अरि॑ष्टम॒स्माकं॑ कृ॒ण्वन् ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णेभ्यः॑॥ ७ य॒ज्ञो व॑र्द्धताय्ँय॒ज्ञस्य॒ वृद्धि॒मनु॑ व॒र्द्धाप॑चितिर॒स्यप॑चितं मा कु॒र्वप॑चितो॒ऽहं म॑नु॒ष्ये॑षु भूयासं॥ ८ गौर्धे॑नुभ॒व्या ९ , मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू॑ना॒ꣳ॒ स्वसा॑ऽऽदि॒त्याना॑म॒मृत॑स्य॒ नाभिः॑ (१०)। प्रणु॒ वोचं॑ चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिव्ँवधिष्ट॥ १० पिब॑तूद॒कं तृणा᳚न्यत्तु। ओमुथ्सृ॒जत॥ ११ भू॒तं (सु॒भू॒तं)। १२ सा वि॒राट्॥ १३ तन्मा ख्षा॑यि॒ तस्य॒ तेऽशी॑य तन्म॒ ऊर्जं॑ धाः। ओं कल्प॒यत॥ १४
२.९.१६
(भू॒या॒स॒म॒ष्टौ च॑) K10 (१८)
२.११
सीमन्तोन्नयनं
२.११.१
होममन्त्राः
विस्तारः —
धा॒ता द॑दातु नो र॒यिमिति ४
धा॒ता द॑दातु नो र॒यिमिति ४ धा॒ता द॑दातु नो र॒यिमीशा॑नो॒ जग॑त॒स्पतिः॑। स नः॑ पू॒र्णेन॑ वावनत्॥ १ धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे धा॒तेदव्ँविश्वं॒ भुव॑नं जजान। धा॒ता पु॒त्रय्ँयज॑मानाय॒ दाता॒ तस्मा॑ उ ह॒व्यं घृ॒तव॑द्विधेम॥ २ धा॒ता द॑दातु नो र॒यिं प्राचीं᳚ जी॒वातु॒मख्षि॑ताम्। व॒यं दे॒वस्य॑ धीमहि सुम॒तिꣳ स॒त्यरा॑धसः॥ ३ धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि प्र॒जाका॑माय मी॒ढुषे॑ दुरो॒णे। तस्मै॑ दे॒वा अ॒मृताः॒ सव्ँव्य॑यन्ता॒व्ँविश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः᳚॥ ४
TS 3.3.11.2
विस्तारः —
यस्त्वा॑ हृ॒दा की॒रिणा॒ यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नो ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि। जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम्॥ ५ यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम्। अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तꣳ र॒यिं न॑शते स्व॒स्ति॥ ६ त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न् काम॑कातयः। न त्वामि॒न्द्राति॑रिच्यते॥ ७ उ॒क्थ उ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ सु॒तासः॑। यदी॑ꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑ख्षा॒ अव॑से॒ हव॑न्ते॥ ८
TS 1.4.46.1
विस्तारः —
रा॒काम॒हं १०, यास्ते॑ राके ११ रा॒काम॒हꣳ सु॒हवा॑ꣳ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚। सीव्य॒त्वपः॑ सू॒च्याऽच्छि॑द्यमानया॒ ददा॑तु वी॒रꣳ श॒तदा॑यमु॒क्थ्य᳚म्॥ १० यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र् ददा॑सि दा॒शुषे॒ वसू॑नि। ताभि॑र् नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षꣳ सु॑भगे॒ ररा॑णा॥ ११
TS 3.3.11.5
२.११.२
वीणागानमन्त्रौ
यौग॑न्धरिरे॒व नो॒ राजेति॒ साल्वी॑रवादिषुः। विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑ण यमुने॒ तव॑॥ १२
॥१२॥
सोम॑ ए॒व नो॒ राजेत्या॑हुर् ब्राह्म॒णीः प्र॒जाः। विवृ॑त्तचक्रा॒ आसी॑ना॒स्तीरे॑णासौ॒ तव॑॥ १३
॥१३॥
२.११.३
पुंसवनं
पु॒ꣳ॒सु॒वन॑मसि॥ १४
॥१४॥
२.११.४
ख्ष्रिप्रं सवनं
आ॒भिष्ट्वा॒हं द॒शभि॑र॒भिमृ॑शामि॒ दश॒मास्या॑य॒ सूत॑वे॥ १५
॥१५॥
यथै॒व सोमः॒ पव॑ते॒ यथा॑ समु॒द्र एज॑ति। ए॒वं ते गर्भ॒ एज॑तु स॒ह ज॒रायु॑णा नि॒ष्क्रम्य॒ प्रति॑तिष्ठ॒त्वायु॑षि ब्रह्मवर्च॒सि यश॑सि वी॒र्ये᳚ऽन्नाद्ये᳚॥ १६
॥१६॥
दश॒ मासा॒ञ् छश॑यानो धा॒त्रा हि तथा॑ कृ॒तम्। ऐतु॒ गर्भो॒ अख्षि॑तो जी॒वो जीव॑न्त्याः॥ १७
॥१७॥
आ॒यम॑नीर्यमयत॒ गर्भ॒मापो॑ देवीः॒ सर॑स्वतीः। ऐतु॒ गर्भो॒ अख्षि॑तो जी॒वो जीव॑न्त्याः॥ १८
॥१८॥
२.११.५
जरायुणाऽवाक्पतने यजुर्भ्यामवोख्षणं तिल॒दे ऽव॑पद्यस्व॒ न मा॒ꣳ॒सम॑सि॒ नोदल᳚म्।
स्थ॒वि॒त्य्रव॑पद्यस्व॒ न मा॒ꣳ॒सेषु॒ न स्नाव॑सु॒ न ब॒द्धम॑सि म॒ज्जसु॑॥ १९
॥१९॥
निरै॑तु॒ पृश्नि॒ शेव॑लꣳ शु॒ने ज॒राय्व॒त्तवे᳚॥ २० (जात कर्म मन्त्राः प्रारंभः)
॥२०॥
२.११.६
जात कर्म ( २.११.६ फुल्ल्, २.१२ फुल्ल् , २.१३ पर्त्)
विस्तारः —
दि॒वस्परि॑
दि॒वस्परि॑ दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒फ्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः॥ २१ वि॒द्मा ते॑ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ सद्म॒ विभृ॑तं पुरु॒त्रा। वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुथ्स॒य्ँयत॑ आज॒गन्थ॑॥ २२ स॒मु॒द्रे त्वा॑ नृ॒मणा॑ अ॒फ्स्व॑न्तर्नृ॒चख्षा॑ ईधे दि॒वो अ॑ग्न॒ ऊध॑न्न्। तृ॒तीये᳚ त्वा॒ रज॑सि तस्थि॒वाꣳस॑मृ॒तस्य॒ योनौ॑ महि॒षा अ॑हिन्वन्न्॥ २३ अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः ख्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन्न्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः॥ २४ उ॒शिक् पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ निधा॑यि। इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑ख्षत्॥ २५ विश्व॑स्य के॒तुर् भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः। वी॒डुं चि॒दद्रि॑मभिनत् परा॒यन् जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑॥ २६ श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः। वसोः᳚ सू॒नुः सह॑सो अ॒फ्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा॑मिधा॒नः॥ २७ यस्ते॑ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे॑व घृ॒तव॑न्तमग्ने। प्र तं न॑य प्रत॒राव्ँवस्यो॒ अच्छा॒भि द्यु॒म्नं दे॒वभ॑क्तय्ँयविष्ठ॥ २८ आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थ उ॑क्थ॒ आभ॑ज श॒स्यमा॑ने। प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः॥ २९ त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून् विश्वा॒ वसू॑नि दधिरे॒ वार्या॑णि। त्वया॑ स॒ह द्रवि॑णमि॒च्छमा॑ना व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः॥ ३० दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः। अ॒ग्निर॒मृतो॑ अभव॒द्वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयथ् सु॒रेताः᳚॥ ३१ अ॒स्मिन्न॒हꣳ स॒हस्रं॑ पुष्या॒म्येध॑मान॒स्स्वे वशे᳚॥ ३२ अङ्गा॑दङ्गा॒थ्सं भ॑वसि॒ हृद॑या॒दधि॑ जायसे। आ॒त्मा वै पु॑त्र॒नामा॑ऽसि॒ स जी॑व श॒रदः॑श॒तम्॥ ३३
TS 4.2.2.1
(अ॒न्नाद्ये॑ जायस॒ एकं॑ च) K11 (२१)
२.१२
जात कर्म
२.१२.१
मूधन्यवघ्रानं
अश्मा॑ भव पर॒शुर् भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव। प॒शू॒नां त्वा॑ हिङ्का॒रेणा॒भिजि॑घ्राम्यसौ॥ १
॥१॥
२.१२.२
दख्षिणे कर्णे जपः
मे॒धां ते॑ दे॒वः स॑वि॒ता मे॒धां दे॒वी सर॑स्वती। मे॒धां ते॑ अ॒श्विनौ॑ दे॒वावाध॑त्तां॒ पुष्क॑रस्रजा॥ २
॥२॥
२.१२.३
प्राशनमन्त्राः
त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वय्य॒ग्निस्तेजो॑ दधातु॒ ३ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयीन्द्र॑ इन्द्रि॒यं द॑धातु॒ ४ त्वयि॑ मे॒धां त्वयि॑ प्र॒जां त्वयि॒ सूर्यो॒ भ्राजो॑ दधातु॥ ५
॥५॥
२.१२.४
स्रापनमन्त्राः
ख्षे॒त्रि॒यै त्वा॒ निर्ऋ॑त्यै त्वा द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त्। अ॒ना॒गसं॒ ब्रह्म॑णे त्वा करोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे इ॒मे॥ ६
॥६॥
शं ते॑ अ॒ग्निः स॒हाद्भिर॑स्तु॒ शं द्यावा॑पृथि॒वी स॒हौष॑धीभिः। शम॒न्तरि॑ख्षꣳ स॒ह वाते॑न ते॒ शं ते॒ चत॑स्रः प्र॒दिशो॑ भवन्तु॥ ७
॥७॥
या दैवी॒श्चत॑स्रः प्र॒दिशो॒ वात॑पत्नीर॒भि सूर्यो॑ विच॒ष्टे। तासां᳚ त्वा ज॒रस॒ आद॑धामि॒ प्र यख्ष्म॑ एतु॒ निर्ऋ॑तिं परा॒चैः॥ ८
॥८॥
अमो॑चि॒ यख्ष्मा᳚द्दुरि॒तादव॑र्त्यै द्रु॒हः पाशा॒न् निर्ऋ॑त्यै॒ चोद॑मोचि। अहा॒ अव॑र्ति॒मवि॑दथ्स्यो॒नमप्य॑भूद्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के॥ ९
॥९॥
सूर्य॑मृ॒तं तम॑सो॒ ग्राह्या॒ यद्दे॒वा अमु॑ञ्च॒न्नसृ॑ज॒न्व्ये॑नसः। ए॒वम॒हमि॒मं ख्षे᳚त्रि॒याज्जा॑मिश॒ꣳ॒ साद् द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा᳚त्॥ १०
॥१०॥
२.१२.५
पृषदाज्य प्राशनं
भूस्स्वाहा॒ भुव॒स्स्वाहा॒ सुव॒स्स्वाहोꣴ स्वाहा᳚॥ ११
॥११॥
(वि॒च॒ष्टे षट्च॑) K12 (१६)
२.१३
जातकर्म
२.१३.१
मातुरङ्के कुमारमादधाति
मा ते॑ कुमा॒रꣳ रख्षो॑ वधी॒न्मा धे॒नुर॑त्यासा॒रिणी᳚। प्रि॒या धन॑स्य भूया॒ एध॑माना॒ स्वे गृ॒हे॥ १
॥१॥
२.१३.२
स्तनं धापयति
अ॒यं कु॑मा॒रो ज॒रां ध॑यतु दी॒र्घमायुः॑। यस्मै॒ त्वꣴ स्तन॒ प्रप्या॒यायु॒र्वर्चो॒ यशो॒ बल᳚म्॥ २
॥२॥
२.१३.३
पृथिव्यभिमर्शनं
यद्भूमे॒र्॒हृद॑यं दि॒वि च॒न्द्रम॑सि श्रि॒तम्। तदु॑र्वि पश्यं॒ माऽहं पौत्र॒मघ॑ꣳ रुदम्॥ ३
॥३॥
यत्ते॑ सुसी॒मे हृद॑य॒व्ँवेदा॒हं तत् प्र॒जाप॑तौ। वेदा॑म॒ तस्य॑ ते व॒यं माऽहं पौत्र॒मघ॑ꣳ रुदम्॥ ४
॥४॥
२.१३.४
कुमाराभिमर्शनं
नाम॑यति॒ न रु॑दति॒ यत्र॑ व॒यव्ँव॑दामसि॒ यत्र॑ चा॒भिमृ॑शामसि॥ ५
॥५॥
२.१३.५
शिरस्त उद्कुंभनिधानं
आपः॑ सु॒प्तेषु॑ जाग्रत॒ रख्षा॑ꣳसि॒ निरि॒तो नु॑दद्ध्वं॥ ६
॥६॥
२.१३.६
फलीकरणमिश्रसर्षपहोमः
अ॒यं क॒लिं प॒तय॑न्तꣴ श्वा॒नमि॒वोद्वृ॑द्धम्। अ॒जाव्ँवाशि॑तामिव मरुतः॒ पर्या᳚द्ध्व॒ꣴ॒ स्वाहा᳚॥ ७
॥७॥
शण्डे॒रथः॒ शण्डि॑केर उलूख॒लः। च्यव॑नो॒ नश्य॑तादि॒तः स्वाहा᳚॥ ८
॥८॥
अयः॒ शण्डो॒ मर्क॑ उप॒वीर॑ उलूख॒लः। च्यव॑नो॒ नश्य॑तादि॒तः स्वाहा᳚॥ ९
॥९॥
के॒शिनीः॒ श्वलो॒मिनीः॒ खजा॑पो॒ऽजोप॑काशिनीः। अपे॑त॒ नश्य॑तादि॒तः स्वाहा᳚॥ १०
॥१०॥
मि॒श्रवा॑ससः कौबेर॒का र॑ख्षोरा॒जेन॒ प्रेषि॑ताः। ग्राम॒ꣳ॒ सजा॑नयो गच्छन्ती॒च्छन्तो॑ऽपरि॒दाकृ॒तान्थ् स्वाहा᳚॥ ११
॥११॥
ए॒तान् घ्न॑तै॒तान्गृ॑ह्णी॒तेत्य॒यं ब्रह्म॑णस्पु॒त्रः। तान॒ग्निः पर्य॑सर॒त्तानिन्द्र॒स्तान्बृह॒स्पतिः॑। तान॒हव्ँवे॑द ब्राह्म॒णः प्र॑मृश॒तः कू॑टद॒न्तान्वि॑के॒शाल्ँलं॑बनस्त॒नान्थ् स्वाहा᳚॥ १२ (निरि॒तो नु॑द्ध्व॒ꣴ॒ स्वाहा॒ त्रीणि॑ च ) (ख्१३) (२३)
॥१२॥
२.१४
जातकर्म
२.१४.१
फलीकरणमिश्रसर्षपहोमः
न॒क्त॒ञ्चा॒रिण॑ उरस्पे॒शाञ्छू॑लह॒स्तान् क॑पाल॒पान्। पूर्व॑ एषां पि॒तेत्यु॒च्चैःश्रा᳚व्यक॒र्णकः॑। मा॒ता ज॑घ॒न्या॑ सर्प॑ति॒ ग्रामे॑ विधु॒रमि॒च्छन्ती॒ स्वाहा᳚॥ १
॥१॥
नि॒शी॒थ॒चा॒रिणी॒ स्वसा॑ स॒न्धिना॒ प्रेख्ष॑ते॒ कुल᳚म्। या स्वप॑न्तं बो॒धय॑ति॒ यस्यै॒ विजा॑तायां॒ मनः॑। तासां॒ त्वं कृ॑ष्ण॒वर्त्म॑ने क्लो॒मान॒ꣳ॒ हृद॑य॒य्ँयकृ॑त्। अग्ने॒ अख्षी॑णि नि॒र्दह॒ स्वाहा᳚॥ २ प्रवासादेल्य कार्यं
॥२॥
२.१४.२
पुत्रस्याभिमन्त्रणं
अङ्गा॑दङ्गा॒थ् संभ॑वसि॒ हृद॑या॒दधि॑ जायसे। वे॒दो वै पुत्र॒नामा॑ऽसि॒ सजी॑व श॒रदः॑श॒तम्॥ ३
॥३॥
२.१४.३
मूर्धन्यवध्राणं
विस्तारः —
अश्मा॑ भ॒वेत्ये॒षा
अश्मा॑ भ॒वेत्ये॒षा अश्मा॑ भव पर॒शुर् भ॑व॒ हिर॑ण्य॒मस्तृ॑तं भव। प॒शू॒नां त्वा॑ हिङ्का॒रेणा॒भिजि॑घ्राम्यसौ॥ १
२.१२.१
२.१४.४
दख्षिणे कर्णे जपः
विस्तारः —
अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ५
अ॒ग्निरायु॑ष्मा॒निति॒ पञ्च॑अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ५ सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभि॒रायु॑ष्मा॒न् तेन॒त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ६ य॒ज्ञ आयु॑ष्मा॒न्थ्स दख्षि॑णाभि॒रायु॑ष्मा॒न् तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ७ ब्रह्मायु॑ष्म॒त् तद् ब्रा᳚ह्म॒णैरायु॑ष्म॒त् तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ८ दे॒वा आयु॑ष्मन्त॒स्ते॑ ऽमृते॒नायु॑ष्मन्त॒स्तेन॒त्वा ऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥ ९
TS 2.3.10.3
२.१४.५
कुमार्या अभिमन्त्रणं
सर्व॑स्मादा॒त्मनः॒ संभू॑ताऽसि॒ सा जी॑व श॒रदः॑श॒तम्॥ १०
॥१०॥
२.१४.६
अन्नप्राशन मन्त्राः
भूर॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयः सन्त्वसौ॥ ११
॥११॥
भुवो॒ऽपाꣳ१२, सुव॑र॒पां१३, भूर्भुव॒स्सुव॑र॒पां त्वौष॑धीना॒ꣳ॒ रसं॒ प्राश॑यामि शि॒वास्त॒ आप॒ ओष॑धयः सन्त्वनमी॒वास्त॒ आप॒ ओष॑धयः सन्त्वसौ॥ १४
॥१४॥
२.१४.७
चौळ मन्त्राः
विस्तारः —
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः
उ॒ष्णेन॑ वायवुद॒केनेत्ये॒षः (शमे अस् एआख् २.७.२. अबोवे ) जातर्कर्म मन्त्राः समाप्तः)
(ए॒षा च॒त्वारि॑ च) K14 (१४)
२.१५
गृहनिर्माण प्रवेशौ
२.१५.१
गृहनिर्माणप्रवेशौ
यद्भूमेः᳚ क्रू॒रं तदि॒तो ह॑रामि॒ परा॑चीं॒ निर्ऋ॑तिं॒ निर्वा॑हयामि। इ॒दꣴ श्रेयो॑ऽव॒सान॒माग॑न्म देवा॒ गोम॒दश्वा॑वदि॒दम॑स्तु॒ प्र भूम॑॥ १
॥१॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृख्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚॥ २
॥२॥
इ॒हैव ति॑ष्ठ॒ निमि॑ता॒ तिल्व॑ला स्या॒दिरा॑वती। मद्ध्ये॒ ताल्प्य॑स्य तिष्ठा॒न्मा त्वा॒ प्राप॑न्नघा॒यवः॑॥ ३
॥३॥
आ त्वा॑ कुमा॒रस्तरु॑ण॒ आ व॒थ्सो जग॑ता स॒ह। आ त्वा॑ परि॒स्रुतः॑ कुं॒भा आ द॒ध्नः कल॑शीरयन्न्॥ ४
॥४॥
ऋ॒तेन॒ स्थूणा॑व॒धिरो॑ह व॒ꣳ॒शोग्रो॑ वि॒राज॒न्नप॑सेध॒ शत्रू॑न्॥ ५
॥५॥
ब्रह्म॑ च ते ख्ष॒त्रं च॒ पूर्वे॒ स्थूणे॑ अ॒भिर॑ख्षतु॥ ६
॥६॥
य॒ज्ञश्च॒ दख्षि॑णाश्च॒ दख्षि॑णे॥ ७
॥७॥
इ॒षश्चो॒र्जश्चाप॑रे ८ , मि॒त्रश्च॒ वरु॑ण॒श्चोत्त॑रे ९, ध॒र्मस्ते॒ स्थूणा॑ राजः॒ १०, श्रीस्ते॒ स्तूपः॑॥ ११
॥११॥
उ॒द्ध्रि॒यमा॑ण॒ उद्ध॑र पा॒प्मनो॑ मा॒ यदवि॑द्वा॒न्॒यच्च॑ वि॒द्वाꣴश्च॒कार॑। अह्ना॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ रात्य्रा॒ यदेनः॑ कृ॒तम॑स्ति पा॒पꣳ सर्व॑स्मा॒न् मोद्धृ॒तो मु॑ञ्च॒ तस्मा᳚त्॥ १२
॥१२॥
इन्द्र॑स्य गृ॒हा वसु॑मन्तो वरू॒थिन॒स्तान॒हꣳ सु॒मन॑सः॒ प्रप॑द्ये॥ १३
॥१३॥
अ॒मृ॒ता॒हु॒तिम॒मृता॑यां जुहोम्य॒ग्निं पृ॑थि॒व्याम॒मृत॑स्य॒ जित्यै॒ तया॑ऽन॒न्तं काम॑म॒हं ज॑यानि प्र॒जाप॑ति॒र्यं प्र॑थ॒मो जि॒गाया॒ग्निम॑ग्नौ॒ स्वाहा᳚॥ १४ अन्न॑पत॒ इत्ये॒षा॥ १५ { }
॥१४॥
विस्तारः —
अन्न॑पत॒ इत्ये॒षा
अन्न॑पत॒ इत्ये॒षा अन्न॑प॒तेऽन्न॑स्य नो देह्यनमी॒वस्य॑ शु॒ष्मिणः॑। प्र प्र॑दा॒तारं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे॥ १५ अरि॑ष्टा अ॒स्माक॑व्ँवी॒राः स॑न्तु॒ मा परा॑सेचि मे॒ धन᳚म्॥ १६ भूमि॒र्भूमि॑मगान्मा॒ता मा॒तर॒मप्य॑गात्। भू॒यास्म॑ पु॒त्रैः प॒शुभि॒र् यो नो॒ द्वेष्टि॒ स भि॑द्यतां॥ १७ वास्तो᳚ष्पत॒ इति॒ द्वे। १८ तो १९ { }
TS 4.2.3.1
विस्तारः —
वास्तो᳚ष्पत॒ इति॒ द्वे वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान्थ् स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः। यत् त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे॥ १८ वास्तो᳚ष्पते श॒ग्मया॑ स॒ꣳ॒सदा॑ ते सख्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या᳚। आवः॒ ख्षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑नः॥ १९ वास्तो᳚ष्पते प्र॒तर॑णो न एधि॒ गोभि॒रश्वे॑भिरिन्दो। अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान् प्रति॑ नो जुषस्व॥ २० अ॒मी॒व॒हा वास्तो᳚ष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन्न्। सखा॑ सु॒शेव॑ एधि नः॥ २१ शि॒व॒ꣳ॒ शि॒वम्॥ २२ (अ॒भि र॑ख्षतु भिद्यता॒ꣳ॒ षट्च॑ ) (ख्१५) (२६)
TS 3.4.10.1
२.१६
स्वग्रगृहीतस्याभिमन्त्रणं
२.१६.१
स्वग्रगृहीतस्याभिमन्त्रणं
कू॒र्कु॒रः सुकू᳚र्कु॒रः कू᳚र्कु॒रो वा॑लबन्ध॒नः। उ॒परि॑ष्टा॒द्यदेजा॑य तृ॒तीय॑स्या इ॒तो दि॒वः॥ १
॥१॥
औल॑ब॒ इत्तमुपा᳚ह्वयथा॒र्जीञ्छ्या॒मः श॒बलः॑। अ॒धोरा॑म उलुंब॒लः सा॑रमे॒यो ह॒ धाव॑ति समु॒द्रम॑व॒चाक॑शत्॥ २
॥२॥
बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्र॑ꣳ सुबीरि॒णः। सुबी॑रिण॒ सृज॒ सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत्॥ ३
॥३॥
तथ्स॒त्यय्ँयत्त्वेन्द्रो᳚ऽब्रवी॒द्गाः स्पा॑शय॒स्वेति॒ तास्त्वꣴ स्पा॑शयि॒त्वा ऽऽग॑च्छ॒स्तं त्वा᳚ऽब्रवी॒दवि॑द॒ हा(३) इत्यवि॑द॒ꣳ॒ हीति॒ वर॑व्ँवृणी॒ष्वेति॑ कुमा॒रमे॒वाहव्ँवर॑व्ँवृण॒ इत्य॑ब्रवीर् वि॒गृह्य॑ बा॒हू प्ल॒वसे॒ द्याम॑व॒ चाक॑शत्॥ ४
॥४॥
बि॒भ्रन्निष्कं॑ च रु॒क्मं च॒ शुना॒मग्र॑ꣳ सुबीरि॒णः। सुबी॑रिण॒ सृज॒ सृज॒ शुन॑क॒ सृजैक॑व्रात्य॒ सृज॒च्छत्॥ ५
॥५॥
तथ्स॒त्यय्ँयत्ते॑ सर॒मा मा॒ता लोहि॑तः पि॒ता। अ॒मी एके॑ सरस्य॒का अ॑व॒धाव॑त तृ॒तीय॑स्या इ॒तो दि॒वः॥ ६
॥६॥
तेक॑श्च ससरम त॒ण्डश्च॒ तूल॑श्च॒ वितू॑ल॒श्चार्जु॑नश्च॒ लोहि॑तश्च। दु॒ला ह॒ नाम॑ वो मा॒ता मन्था॑क॒को ह॑वः पि॒ता। स॒न्तख्षा॑ हन्ति च॒क्री वो॒ न सीस॑रीदत॥ ७
॥७॥
छद॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर। सम॑श्वा॒ वृष॑णः प॒दो न सीस॑रीदत॥ ८
॥८॥
छद॒पेहि॑ सीसरम सारमेय॒ नम॑स्ते अस्तु सीसर। श्वान॒मिच्छ्वा ऽद॒न्न पु॑रुष॒ञ्छत्॥ ९
॥९॥
२.१६.२
शङ्खग्रहगृहीतस्याभिमन्त्रणं ए॒ते ते॒ प्रति॑दृश्येते समा॒नव॑सने उ॒भे।
ते अ॒हꣳ सा॒रये॑ण॒ मुस॑ले॒नाव॑हन्म्यु॒लूख॑ले॥ १०
॥१०॥
ह॒तःश॒ङ्खो ह॒तःश॑ङ्खपि॒ता ह॒तःश॑ङ्खकुतुर्व॒कः। अप्ये॑षाꣴ स्थ॒पति॑र्ह॒तः॥ ११
॥११॥
ऋषि॑र्बो॒धः प्रबो॑धः॒ स्वप्नो॑ मात॒रिश्वा᳚। ते ते᳚ प्रा॒णान्थ् स्प॑रि॒ष्यन्ति॒ मा भै॑षी॒र् न म॑रि॒ष्यसि॑॥ १२ (सर्पबलिः मन्त्राः प्रारंभः)
॥१२॥
२.१६.३
सर्पबलिः
ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिर् ज॒ग्धो व्य॑द्ध्व॒रः स्वाहा॑ १३ , ज॒ग्धो व्य॑द्ध्व॒रो ज॒ग्धो मश॑को ज॒ग्धा वितृ॑ष्टिः॒ स्वाहा॑ १४, ज॒ग्धा वितृ॑ष्टिर् ज॒ग्धो व्य॑द्ध्व॒रो ज॒ग्धो मश॑कः॒ स्वाहा᳚॥ १५
॥१५॥
(पि॒ता ऽव॑हन्म्यु॒लूख॑ले॒ पञ्च॑ च) K16 (२५)
२.१७
सर्पबलिः
२.१७.१
सर्पबलिः
इन्द्र॑ जहि दन्द॒शूकं॑ प॒ख्षिण॒य्ँयस्स॑रीसृ॒पः। दं॒ख्ष्यन्तं॑ च द॒शन्तं॑ च॒ सर्वा॒ꣴ॒स्तानि॑न्द्र जंभय॒ स्वाहा᳚॥ १
॥१॥
अ॒फ्सु जा॑त॒ सरे॑वृद्ध दे॒वाना॒मपि॑ हस्त्य। त्वम॑ग्न इन्द्र॒ प्रेषि॑तः॒ स नो॒ मा हि॑ꣳसीः॒ स्वाहा᳚॥ २
॥२॥
त्राण॑मसि परि॒त्राण॑मसि परि॒धिर॑सि। अन्ने॑न मनु॒ष्या॑ꣴ स्त्रायसे॒ तृणैः᳚ प॒शून् ग॒र्तेन॑ स॒र्पान्य॒ज्ञेन॑ दे॒वान्थ्स्व॒धया॑ पि॒तृन्थ्स्वाहा᳚॥ ३
॥३॥
तथ्स॒त्यय्ँयत्ते॑ऽमावा॒स्या॑यां च पौर्णमा॒स्यां च॒ विष॑ब॒लिꣳ हर॑न्ति॒ सर्व॑ उदरस॒र्पिणः॑। तत्ते॒ प्रेर॑ते॒ त्वयि॒ सव्ँवि॑शन्ति॒ त्वयि॑ नः स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि॥ ४ नमो॑ अस्तु स॒र्पेभ्य॒ इति॑ ति॒स्रः। (५७) { }
॥४॥
विस्तारः —
नमो॑ अस्तु स॒र्पेभ्यः
नमो॑ अस्तु स॒र्पेभ्यः नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑। ये अ॒न्तरि॑ख्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥ ५ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा॑म॒फ्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥ ६ या इष॑वो यातु॒धाना॑ना॒य्ँये वा॒ वन॒स्पती॒ꣳ॒रनु॑। ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑॥ ७ नमो॑ अस्तु स॒र्पेभ्यो॒ ये पार्थि॑वा॒ य आ᳚न्तरि॒ख्ष्या॑ ये दि॒व्या॑ ये दि॒श्याः᳚। तेभ्य॑ इ॒मं ब॒लिꣳ ह॑रिष्यामि॒ तेभ्य॑ इ॒मं ब॒लिमहा॑र्षम्॥ ८ तख्ष॑क॒ वैशा॑लेय धृ॒तरा᳚ष्ट्रैरावत॒स्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि॥ ९ धृ॒तरा᳚ष्ट्रैरावत॒ तख्ष॑क॒स्ते वै॑शाले॒यो जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि॥ १० अ॒हि॒ꣳ॒सा॒ति॒ब॒लस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि॥ ११ अ॒ति॒ब॒ला॒हि॒ꣳ॒सस्ते जी॑वा॒स्त्वयि॑ नस्स॒तस्त्वयि॑ स॒द्भ्यो व॒र्॒षाभ्यो॑ नः॒ परि॑देहि॥ १२ ये द॑न्द॒शूकाः॒ पार्थि॑वा॒स्ताꣴस्त्वमि॒तः प॒रो गव्यू॑तिं॒ निवे॑शय। सन्ति॒ वै नः॑ श॒फिनः॒ सन्ति॑ द॒ण्डिन॒स्ते वो॒ नेद्धि॒नसा॒न् न्येद्यू॒यम॒स्मान्हि॒नसा॑त॥ १३ स॒मीची॒ नामा॑सि॒ प्राची॒ (१४१९) { } दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः॥ २०२५ { }
TS 4.2.8.3
विस्तारः —
स॒मीची॒ नामा॑सि॒ प्राची॒ स॒मीची॒ नामा॑सि॒ प्राची॒ दिक् तस्या᳚स्ते॒ ऽग्निरधि॑पति रसि॒तो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १४ ओ॒ज॒स्विनी॒ नामा॑सि दख्षि॒णा दिक् तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कू रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १५ प्राची॒ नामा॑सि प्र॒तीची॒ दिक् तस्या᳚स्ते॒ सोमोऽधि॑पति स्स्व॒जो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १६ अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक् तस्या᳚स्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑ राजी रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १७ अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक् तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पति श्श्वि॒त्रो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १८ व॒शिनी॒ नामा॑सी॒यं दिक् तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ १९
TS 5.5.10.1
विस्तारः —
दिग्घे॒तयो॒ नाम॒ स्थेति॒ द्वाद॑श पर्या॒याः हे॒तयो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः पु॒रो गृ॒हा अ॒ग्निर् व॒ इष॑व स्सलि॒लो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २० नि॒लिं॒पा नाम॑ स्थ॒ तेषा᳚व्ँवो दख्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒ स्सग॑रो वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २१ व॒ज्रिणो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः प॒श्चाद्गृ॒हा स्स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रो वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २२ अ॒व॒स्था वा॑ नो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑व स्समु॒द्रो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २३ अधि॑पतयो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उ॒परि॑ गृ॒हा व॒र्॒षव्ँव॒ इष॒वो ऽव॑स्वान्वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २४ क्र॒व्या नाम॑स्थ॒ पार्थि॑वा॒स्तेषा᳚व्ँव इ॒ह गृ॒हा अन्न॑व्ँव॒ इष॑वो निमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ २५ अप॑श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च। स॒प्त च॒ मानु॑षीरि॒मास्ति॒स्रश्च॑ रा॒जब॑न्धवीः॥ २६ न वै श्वे॒तस्या᳚द्ध्याचा॒रे ऽहि॑र् ज॒घान॒ कञ्च॒न। श्वे॒ताय॑ वैद॒र्वाय॒ नमो॒ नमः॑ श्वे॒ताय॑ वैद॒र्वाय॑॥ २७
TS 5.5.10.3
(दि॒श्या॑ रा॒जब॑न्घवी॒र् द्वे च॑) K17 (२२)
२.१८
आग्रयणाद्यः
२.१८.१
आग्रयणं
प॒र॒मे॒ष्ठ्यसि॑ पर॒मां मा॒ꣴ॒ श्रियं॑ गमय १ ,
॥१॥
२.१८.२
हेमन्तप्रत्यवरोहणं.
प्र॒त्यव॑रूढो नो हेम॒न्तः॥ २
॥२॥
प्रति॑ख्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे ३ प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑॥ ४
॥४॥
प्रति॑प्र॒जायां॒ प्रति॑तिष्ठामि॒ भव्ये᳚॥ ५
॥५॥
इ॒ह धृति॑रि॒ह विधृ॑ति ६ रि॒ह रन्ति॑रि॒ह रम॑तिः॥ ७ स्यो॒ना पृ॑थिवि॒ ८ { }, बडि॒त्था पर्व॑ताना॒मिति॒ द्वे॥ ९ { }
॥७॥
विस्तारः —
स्यो॒ना पृ॑थिवि॒
स्यो॒ना पृ॑थिवि॒ स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृख्ष॒रा नि॒वेश॑नी। यच्छा॑ नः॒ शर्म॑ स॒प्रथाः᳚॥ ८
२.१५.१
विस्तारः —
बडि॒त्था पर्व॑ताना॒मिति॒ द्वे बडि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि। प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि॥
TS 2.2.12.2
२.१८.३
ईशान बलिः
आ त्वा॑ वहन्तु॒ हर॑यः॒ सचे॑तसः श्वे॒तैरश्वैः᳚ स॒ह के॑तु॒मद्भिः॑। वाता॑जिरै॒र् मम॑ ह॒व्याय॑ श॒र्वो १० प॑स्पृशतु मी॒ढ्वान् मी॒ढुषे॒ स्वाहो ११ प॑स्पृशतु मी॒ढुषी॑ मी॒ढुष्यै॒ स्वाहा॑ १२ जय॒न्तोप॑स्पृश जय॒न्ताय॒ स्वाहा॑ १३ भ॒वाय॑ दे॒वाय॒ स्वाहा॑ १४ श॒र्वाय॑ दे॒वाय॒ स्वाहे १५ शा॑नाय दे॒वाय॒ स्वाहा॑ १६ पशु॒पत॑ये दे॒वाय॒ स्वाहा॑ १७ रु॒द्राय॑ दे॒वाय॒ स्वाहो॒ १८ ग्राय॑ दे॒वाय॒ स्वाहा॑ १९ भी॒माय॑ दे॒वाय॒ स्वाहा॑ २० मह॒ते दे॒वाय॒ स्वाहा॑ २१ भ॒वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २२ श॒र्वस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहे २३ शा॑नस्य दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २४ पशु॒पते᳚र् दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २५ रु॒द्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहो॒ २६ ग्रस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २७ भी॒मस्य॑ दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २८ मह॒तो दे॒वस्य॒ पत्न्यै॒ स्वाहा॑ २९ जय॒न्ताय॒ स्वाहा॒ ३० ऽग्नये᳚ स्विष्ट॒कृते॒ सुहु॑तहु॒त आहु॑तीनां॒ कामा॑नाꣳ समर्द्धयि॒त्रे स्वाहा᳚॥ ३१ स्व॒स्ति नः॑ पूर्ण॒मुखः॒ परि॑क्रामतु ३२ गृह॒पोप॑स्पृश गृह॒पाय॒ स्वाहा॑ ३३ गृह॒प्युप॑स्पृश गृह॒प्यै स्वाहा॑ ३४ घो॒षिण॒ उप॑स्पृशत घो॒षिभ्यः॒ स्वाहा᳚ ३५ श्वा॒सिन॒ उप॑स्पृशत श्वा॒सिभ्यः॒ स्वाहा॑ ३६ विचि॒न्वन्त॒ उप॑स्पृशत विचि॒न्वद्भ्यः॒ स्वाहा᳚ ३७ प्रपु॒न्वन्त॒ उप॑स्पृशत प्रपु॒न्वद्भ्यः॒ स्वाहा॑ ३८ सम॒श्नन्त॒ उप॑स्पृशत सम॒श्नद्भ्यः॒ स्वाहा॑ ३९ देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा॒ ४० या आख्या॑ता॒ याश्चाना᳚ख्याता देवसे॒ना उप॑स्पृशत देवसे॒नाभ्यः॒ स्वाहा᳚ ४१ द्वारा॒पोप॑स्पृश द्वारा॒पाय॒ स्वाहा᳚ ४२ द्वारा॒प्युप॑स्पृश द्वारा॒प्यै स्वाहा᳚ ४३ ऽन्वासा॒रिण॒ उप॑स्पृशतान्वासा॒रिभ्यः॒ स्वाहा॑ ४४ निष॒ङ्गिन्नुप॑स्पृश निष॒ङ्गिणे॒ स्वाहा॒ ४५ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ ४६ ख्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे॥ ४७ ४८{ }
॥३१॥
विस्तारः —
ख्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे
ख्षेत्र॑स्य॒ पति॑ना व॒यमिति॒ द्वे ख्षेत्र॑स्य॒ पति॑ना व॒यꣳ हि॒तेने॑व जयामसि। गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚॥ ४७ ख्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुख्ष्व। म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृडयन्तु।
TS 1.1.14.2
(प॒र॒मे॒ष्ठ्यसि॑ पर॒माम॒ष्टौ) K18 (८)
२.१९
मासिश्राद्धं
२.१९.१
मासिश्राद्धं
यन्मे॑ मा॒ता प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता। तन्मे॒ रेतः॑ पि॒ता वृ॑ङ्क्तामा॒ ऽऽभुर॒न्यो ऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚॥ १
॥१॥
यास्तिष्ठ॑न्ति॒ या धाव॑न्ति॒ या आ᳚र्द्रो॒घ्नीः परि॑ त॒स्थुषीः᳚। अ॒द्भिर् विश्व॑स्य भ॒र्त्रीभि॑र॒न्तर॒न्यं पि॒तुर्द॑धे॒ऽमुष्मै॒ स्वाहा᳚॥ २
॥२॥
यन्मे॑ पिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता। तन्मे॒ रेतः॑ पिताम॒हो वृ॑ङ्क्तां मा॒ ऽऽभुर॒न्यो ऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚॥ ३
॥३॥
अ॒न्तर्द॑धे॒ पर्व॑तैर॒न्तर्मह्या॑ पृथि॒व्या। आ॒भिर् दि॒ग्भिर॑न॒न्ताभि॑र॒न्तर॒न्यं पि॑ताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚॥ ४
॥४॥
यन्मे᳚ प्रपिताम॒ही प्रलु॑लोभ॒ चर॒त्यन॑नुव्रता। तन्मे॒ रेतः॑ प्रपिताम॒हो वृ॑ङ्क्तां मा॒ ऽऽभुर॒न्यो ऽव॑पद्यताम॒मुष्मै॒ स्वाहा᳚॥ ५
॥५॥
अ॒न्तर्द॑ध ऋ॒तुभि॑रहोरा॒त्रै स्स॑ (श्च॑) स॒न्धिभिः॑। अ॒र्द्ध॒मा॒सैश्च॒ मासै᳚श्चा॒न्तर॒न्यं प्र॑पिताम॒हाद्द॑धे॒ऽमुष्मै॒ स्वाहा᳚॥ ६
॥६॥
ये चे॒ह पि॒तरो॒ ये च॒ नेह॒ याꣴश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑ वि॒द्म। अग्ने॒ तान्वे᳚त्थ॒ यदि॒ ते जा॑तवेद॒स्तया᳚ प्र॒त्तꣴ स्व॒धया॑ मदन्तु॒ स्वाहा᳚॥ ७
॥७॥
स्वाहा॑ पि॒त्रे॥ ८
॥८॥
पि॒त्रे स्वाहा᳚॥ ९
॥९॥
स्वाहा॑ पि॒त्रे॥ १०
॥१०॥
पि॒त्रे स्वाहा᳚॥ ११
॥११॥
स्व॒धा स्वाहा᳚॥ १२
॥१२॥
अ॒ग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚॥ १३
॥१३॥
ए॒ष ते॑ तत॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न्॒यावा॑न॒ग्निश्च॑ पृथि॒वी च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीन्त ए॒तां मात्रां᳚ ददामि॒ यथा॒ ऽग्निरख्षि॒तो ऽनु॑पदस्त ए॒वं मह्यं॑ पि॒त्रे ऽख्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तै स्स॒होप॑जीव॒र्चस्ते॑ महि १४, मै॒ष ते॑ पितामह॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न्॒यावा॑न्वा॒युश्चा॒न्तरि॑ख्षञ्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ वा॒युरख्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ पिताम॒हायाख्षि॒तोऽनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तैस्स॒होप॑जीव॒ सामा॑नि ते महिमै॒ष १५, ते᳚ प्रपितामह॒ मधु॑माꣳ ऊ॒र्मिः सर॑स्वा॒न्॒यावा॑नादि॒त्यश्च॒ द्यौश्च॒ ताव॑त्यस्य मा॒त्रा ताव॑तीं त ए॒तां मात्रां᳚ ददामि॒ यथा॑ऽऽदि॒त्योऽख्षि॒तोऽनु॑पदस्त ए॒वं मह्यं॑ प्रपिताम॒हायाऽख्षि॒तोनु॑पदस्तः स्व॒धा भ॑व॒ तां त्वꣴ स्व॒धां तैस्स॒होप॑जीव॒ यजू॑ꣳषि ते महि॒मा॥ १६
॥१६॥
(अ॒मुष्मै॒ स्वाहा᳚ स्व॒धा स्वाहै कं॑ च) K19 (२१)
२.२०
मासिश्राद्धं
२.२०.१
मासिश्राद्धं
पृ॒थि॒वी ते॒ पात्रं॒ द्यौर॑पि॒धानं॒ ब्रह्म॑णस्त्वा॒ मुखे॑ जुहोमि ब्राह्म॒णानां᳚ त्वा प्राणापा॒नयो᳚र् जुहो॒म्यख्षि॑तमसि॒ मैषां᳚ ख्षेष्ठा अ॒मुत्रा॒मुष्मि॑ल्ँलो॒के॥ १
॥१॥
मा॒र्जय॑न्तां॒ मम॑ पि॒तरो॑ २ , मा॒र्जय॑न्तां॒ मम॑ पिताम॒हा ३, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒हा ४ मा॒र्जय॑न्तां॒ मम॑ मा॒तरो॑ ५, मा॒र्जय॑न्तां॒ मम॑ पिताम॒ह्यो॑ ६, मा॒र्जय॑न्तां॒ मम॑ प्रपिताम॒ह्यः॑॥ ७
॥७॥
ए॒तत् ते॑ ततासौ॒ ये च॒ त्वामन्वे॒ ८, तत् ते॑ पितामहासौ॒ ये च॒ त्वामन्वे॒ ९, तत् ते᳚ प्रपितामहासौ॒ ये च॒ त्वामन्वे॒ १०, तत् ते॑ मातरसौ॒ याश्च॒ त्वा मन्वे॒ ११, तत् ते॑ पितामह्यसौ॒ याश्च॒ त्वामन्वे॒ १२, तत् ते᳚ प्रपितामह्यसौ॒ याश्च॒ त्वामनु॑॥ १३ मा॒र्जय॑न्तां॒ मम॑ पि॒तर॒ इत्ये॒ते॥ १४१९
॥१३॥
ये च॒ वोऽत्र॒ ये चा॒स्मास्वाश॑ꣳसन्ते॒ २०, याश्च॒ वोऽत्र॒ याश्चा॒स्मास्वाश॑ꣳसन्ते॒ २१, ते च॑ वहन्तां॒ २२, ताश्च॑ वहन्तां॒ २३, तृप्य॑न्तु भवन्त॒ २४, स्तृप्य॑न्तु भवत्य॒ २५, स्तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त॥ २६
॥२६॥
पु॒त्रान् पौत्रा॑न॒भि त॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः। स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒ दुहा॑ना॒ आपो॑ दे॒वीरु॒भया॑ꣴ स्तर्पयन्तु॥ २७
॥२७॥
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त॥ २८
॥२८॥
प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि॒ ब्रह्म॑णि म आ॒त्माऽमृ॑त॒त्वाय॑॥ २९ (मासि श्राद्ध मन्त्राः समाप्तः) ( अष्टकाद्य मन्त्राः प्रारंभः)
॥२९॥
२.२०.२
अष्टका
यां जनाः᳚ प्रति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमि॑वाय॒तीं। स॒व्ँव॒थ्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली स्वाहा᳚॥ ३०
॥३०॥
वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रैना॒न्॒वे᳚त्थ॒ निहि॑तान् परा॒के। मेद॑सः॒ कूल्या॒ उप॒ तान् ख्ष॑रन्तु स॒त्या ए॒ता आ॒शिषः॑ (ए॑षामा॒शिषः) सन्तु॒ कामैः॒ स्वाहा᳚॥ ३१
॥३१॥
यां जनाः᳚ प्रतिनन्द॒न्तीत्ये॒षा॥ ३२ इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः॥ ३३ तो ३५ { }
॥३२॥
विस्तारः —
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः.
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॒दिति॑ ति॒स्रः. इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां च॑रति॒ प्रवि॑ष्टा। व॒धूर्ज॑जान नव॒गज्जनि॑त्री॒ त्रय॑ एनां महि॒मानः॑ सचन्ते॥ ३३ छन्द॑स्वती उ॒षसा॒ पेपि॑शाने समा॒नय्ँयोनि॒मनु॑ स॒ञ्चर॑न्ती। सूर्य॑पत्नी॒ वि च॑रतः प्रजान॒ती के॒तुं कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा॥ ३४ ऋ॒तस्य॒ पन्था॒मनु॑ ति॒स्र आगु॒स्त्रयो॑ घ॒र्मासो॒ अनु॒ ज्योति॒षाऽऽगुः॑। प्र॒जामेका॒ रख्ष॒त्यूर्ज॒मेका᳚ व्र॒तमेका॑ रख्षति देवयू॒नाम्॥ ३५ ए॒का॒ष्ट॒कां प॑श्यत॒ दोह॑माना॒मन्नं॑ मा॒ꣳ॒सव॑द्घृ॒तव॑थ्स्व॒धाव॑त्। तद्ब्रा᳚ह्म॒णैर॑तिपू॒तम॑न॒न्तम॑ख्ष॒य्यम॒मुष्मि॑ल्ँलो॒के स्फीतिं॑ गच्छतु मे पि॒तृभ्यः॒ स्वाहा᳚॥ ३६ औ॒लू॒ख॒ला ग्रावा॑णो॒ घोष॑मक्रत ह॒विः कृ॒ण्वन्तः॑ परिवथ्स॒रीण᳚म्। ए॒का॒ष्ट॒का सु॑प्र॒जा वी॒रव॑न्तो व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥ ३७ ए॒का॒ष्ट॒का तप॑सा॒ तप्य॑माना सव्ँवथ्स॒रस्य॒ पत्नी॑ दुदुहे॒ प्रपी॑ना। तं दोह॒मुप॑जीवाथ पि॒तरः॑ स॒हस्र॑धारम॒मुष्मि॑ल्ँलो॒के स्वाहा᳚॥ ३८
- TS 4.3.11.1
(आ॒य॒तीं प्रपी॒नैकं॑ च) K20 (२१)
२.२१
अष्टकाद्यः
२.२१.१
अष्टका
उ॒क्थ्य॑श्चास्यतिरा॒त्रश्च॑ साद्य॒स्क्रीः छन्द॑सा स॒ह। अ॒पू॒प॒घृ॒ताहु॑ते॒ नम॑स्ते अस्तु माꣳसपि॒प्पले॒ स्वाहा᳚॥ १
॥१॥
भूः पृ॑थि॒व्य॑ग्निन॒र्चामुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚॥ २
॥२॥
भुवो॑ वा॒युना॒ऽन्तरि॑ख्षेण॒ साम्ना॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚॥ ३
॥३॥
स्व॑र्दिवा॑ऽऽदि॒त्येन॒ यजु॑षा॒ऽमुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚॥ ४
॥४॥
ज॒नद॒द्भिरथ॑र्वाङ्गि॒रोभि॑र॒मुं मयि॒ कामं॒ नियु॑नज्मि॒ स्वाहा᳚॥ ५
॥५॥
रो॒च॒नाया॑जि॒राया॒ग्नये॑ दे॒वजा॑तवे॒ स्वाहा᳚॥ ६
॥६॥
के॒तवे॒ मन॑वे॒ ब्रह्म॑णे दे॒वजा॑तवे॒ स्वाहा᳚॥ ७
॥७॥
स्व॒धा स्वाहा॒ ८, ऽग्नये॑ कव्य॒वाह॑नाय स्व॒धा स्वाहा᳚॥ ९
॥९॥
२.२१.२
सनिमित्वा जपः
अन्न॑मिव ते दृ॒शे भू॑यासं॒ १०, वस्त्र॑मिव ते दृ॒शे भू॑यासं॒ ११, वित्त॑मिव ते दृ॒शे भू॑यास १२, मा॒शेव॑ ते दृ॒शे भू॑यासꣴ १३, श्र॒द्धेव॑ ते दृ॒शे भू॑यास॒ꣳ॒ १४ सꣴस्र॑वन्तु॒ दिशो॑ म॒हीः समाधा॑वन्तु सू॒नृताः᳚॥ १५
॥१५॥
सर्वे॒ कामा॑ अ॒भिय॑न्तु मा प्रि॒या अ॒भिर॑ख्षन्तु मा प्रि॒याः। यशो॑ऽसि॒ यशो॒ऽहं त्वयि॑ भूयासमसौ॥ १६
॥१६॥
२.२१.३
रथादिलाभे स्वीकारः
विस्तारः —
अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा .
अ॒ङ्कौ न्य॒ङ्काव॒भित॒ इत्ये॒षा . अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथ॒य्ँयौ ध्वा॒न्तव्ँवा॑ता॒ग्रमनु॑ स॒ञ्चर॑न्तौ दू॒रेहे॑तिरिन्द्रि॒यावा᳚न् पत॒त्री ते नो॒ऽग्नयः॒ पप्र॑यः पारयन्तु॥ १७ अद्ध्व॑नामद्ध्वपते स्व॒स्ति मा॒ सं पा॑रय॥ १८ अ॒यव्ँवा॑म॒श्विनौ॒ रथो॒ मा दुः॒खे मा सु॒खे रि॑षत्। अरि॑ष्टः स्व॒स्ति ग॑च्छतु॒ विवि॒घ्नन् पृत॑नाय॒तः॥ १९ अश्वो॑ऽसि॒ हयो॒ऽस्यत्यो॑ऽसि॒ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सि॒ वृषा॑सि नृ॒मणा॑ असि॒ ययु॒र्नामा᳚स्यादि॒त्यानां॒ पत्वाऽन्वि॑हि॥ २० ह॒स्ति॒य॒श॒सम॑सि हस्तियश॒सी भू॑यास॒व्ँवह॑ काल॒वह॒ श्रियं॑ मा॒ऽभिव॑ह। इन्द्र॑स्य त्वा॒ वज्रे॑णा॒भिनिद॑धाम्यसौ॥ २१
TS 1.7.7.2
२.२१.४
सव्ँवादमेध्यतः कर्म
अव॑जिह्वक निजिह्व॒काव॑ त्वा ह॒विषा॑ यजे। तथ् स॒त्यय्ँयद॒हं ब्रवी॒म्यध॑रो॒ मद॒सौ व॑दा॒थ् स्वाहा᳚॥ २२
॥२२॥
आ ते॒ वाच॑मा॒स्यां᳚ दद॒ आ म॑न॒स्याꣳ हृद॑या॒दधि॑। यत्र॑ यत्र ते॒ वाङ्निहि॑ता॒ तां त॒ आद॑दे। तथ् स॒त्यय्ँयद॒हं ब्रवी॒म्यध॑रो॒ मत्प॑द्यस्वासौ॥ २३
॥२३॥
(सू॒नृता॑ ह॒विषा॑ यजे च॒त्वारि॑ च) K21 (२४)
२.२२
विविधकर्माणि
२.२२.१
क्रोधापनयनार्थं कर्म
या त॑ ए॒षा र॑रा॒ट्या॑ त॒नूर्म॒न्योर्मृ॒द्ध्रस्य॒ नाशि॑नी। तां दे॒वा ब्र॑ह्मचा॒रिणो॒ विन॑यन्तु सुमे॒धसः॑॥ १
॥१॥
यत् त॑ ए॒तन् मुखे॑ऽम॒तꣳ र॒राट॒मुदि॑व॒ विद्ध्य॑ति। वि ते॒ क्रोध॑न्नयामसि॒ गर्भ॑मश्वत॒र्या इ॑व॥ २
॥२॥
२.२२.२
असंभवेफ्सोः कर्म
अव॑ज्यामिव॒ धन्व॑नो हृ॒दो म॒न्युं त॑नोमि ते। इन्द्रापा᳚स्य पलि॒गम॒न्येभ्यः॒ पुरु॑षेभ्यो॒ऽन्यत्र॒ मत्॥ ३
॥३॥
२.२२.३
पुण्यव्यवहारसिद्ध्यर्थं कर्म यद॒हं धने॑न॒ प्रप॒णꣴश्च॑रामि॒ धने॑न देवा॒ धन॑मि॒च्छमा॑नः।
तस्मि॒न्थ् सोमो॒ रुच॒माद॑धात्व॒ग्निरिन्द्रो॒ बृह॒स्पति॑श्च॒ स्वाहा᳚॥ ४
॥४॥
२.२२.४
स्नेहाविच्चेदार्थं कर्म
परि॑ त्वा॒ गिरे॑रमि॒हं परि॒ भ्रातुः॒ परि॒ ष्वसुः॑। परि॒ सर्वे᳚भ्यो ज्ञा॒तिभ्यः॒ परि॑षीतः॒ क्वे᳚ष्यसि॑॥ ५
॥५॥
शश्व॒त् परि॑कुपितेन॒ संक्रा॑मेणावि॒च्छिदा᳚। उ॒लेन॒ परि॑षीतोऽसि॒ परि॑षीतोऽस्यु॒लेन॑॥ ६
॥६॥
२.२२.५
पलायितदासुदीनां पुनरागमनफलं कर्म. आव॑र्तन वर्त॒येत्ये॒षा॥ ७ { }
विस्तारः —
आव॑र्तन वर्त॒येत्ये॒षा .
आव॑र्तन वर्त॒येत्ये॒षा . आव॑र्तन वर्तय॒ नि नि॑वर्त॒न वर्त॒येन्द्र॑ नर्दबुद। भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभि॒रा व॑र्तया॒ पुनः॑॥ ७ आ॒वर्त॑ने नि॒वर्त॑न आ॒वर्त॑न निवर्त॒नाय॒ स्वाहा᳚॥ ८ अनु॑पोऽह्व॒दनु॑ह्वयो॒ निव॑र्तो वो॒ न्यवी॑वृतत्। ऐ॒न्द्रः परि॑क्रोशो वः॒ परि॑क्रोशतु स॒र्वतः॑॥ ९ यदि॒ मामति॒ मन्या᳚द्ध्वा॒ अदे॒वा दे॒वव॑त्तरम्। इन्द्रः॒ पाशे॑न सि॒क्त्वा वो॒ मह्य॒मिद्वश॒मान॑या॒थ् स्वाहा᳚॥ १०
TS 3.3.10.1
२.२२.६
देहे फलदिपतने प्रख्षालनं.
यदि॑ वृ॒ख्षाद्यद्य॒न्तरि॑ख्षा॒त्फल॑म॒भ्यप॑त॒त्तदु॑ वा॒युरे॒व। यत्रास्पृ॑ख्षत्त॒नुव॒य्ँयत्र॒ वास॒ आपो॑ बाधन्तां॒ निर्ऋ॑तिं परा॒चैः॥ ११
॥११॥
ये प॒ख्षिणः॑ प॒तय॑न्ति बि॒भ्यतो॒ निर्ऋ॑तैः स॒ह। ते मा॑ शि॒वेन॑ श॒ग्मेन॒ तेज॑सोन्दन्तु॒ वर्च॑सा॥ १२
॥१२॥
दि॒वो नु मा॑ बृह॒तो अ॒न्तरि॑ख्षाद॒पाꣴ स्तोको॑ अ॒भ्यप॑तच्छि॒वेन॑। सम॒हमि॑न्द्रि॒येण॒ मन॑सा॒ समागां॒ ब्रह्म॑णा संपृञ्चा॒नः सु॒कृता॑ कृ॒तेन॑॥ १३
॥१३॥
२.२२.७
आगारस्थूणाविरोहणादीषु होमः.
विस्तारः —
इ॒मं मे॑ वरुण॒१४ , तत्त्वा॑ यामि॒१५ ,
इ॒मं मे॑ वरुण॒१४ , तत्त्वा॑ यामि॒१५ , त्वन्नो॑ अग्ने॒ १६ , स त्वन्नो॑ अग्ने॒ १७, त्वम॑ग्ने अ॒यासि॒ १८
२.१५.१
विस्तारः —
प्रजा॑पते १९. प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव। यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥ १९ स॒म्राजं॑ च॒ २० { } , व्याहृ॑ती॒र् विहृ॑ताः॥ (२१२३) { }
TS 1.8.14.2
विस्तारः —
स॒म्राजं॑ च॒ २०, व्याहृ॑ती॒र् विहृ॑ताः. स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे। ल॒ख्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सꣳसृ॑जामसि॥ २० शुभि॑के॒ शिर॒ आ रो॑ह शो॒भय॑न्ती॒ मुखं॒ मम॑। मुख॑ꣳ हि॒ मम॑ शोभय॒ भूया॑ꣳसं च॒ भगं॑ कुरु॥ २१ यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै। इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा॥ २२ यामाह॑रज्ज॒मद॑ग्निः श्र॒द्धायै॑ कामाया॒न्यै। इ॒मां तामपि॑ नह्ये॒ऽहं भगे॑न स॒ह वर्च॑सा॥ २३
२.८.१
२.२२.८
अमात्यानामाभिमुख्येन निधने परिधिनिधानंइ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां नु॑ गा॒दप॑रो॒
अर्द्ध॑मे॒तम्। श॒तं जी॑वन्तु श॒रदः॑ पुरू॒चीस्ति॒रो मृ॒त्युं द॑धतां॒ पर्व॑तेन॥ २४
॥२४॥
(क्वे᳚ष्यसि॑ परा॒चै र॒ष्टौ च॑) K22 (२८)