पूर्वाङ्गम्
०.१
कलशस्थापनम्
चतुर्भुजे शुक्लवर्णे दिव्याभरणभूषिते। चतुर्दिङ्नागपृष्ठस्थे भूमे त्वां संस्पृशाम्यहम्॥
इति भूमिं स्पृष्ट्वा
सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत्। प्राणिनां जीवनोपायं स्थापयामीष्टसिद्धये॥
इति धान्यराशिं कृत्वा
देवासुरैर्मथ्यमानादुत्पन्नोऽसि महोदधेः। कुम्भ त्वयि सुरास्सर्वे तीर्थानि जलदा नदाः॥
तिष्ठन्ति कालफलदा रुद्रादित्यादयोऽपि च। अतोऽत्र धान्यराशौ त्वां पूजार्थं स्थापयाम्यहम्॥
गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि कुम्भेऽस्मिन् सन्निधिं कुरु॥
इति शुद्धजलेनापूर्य
कस्तूरीकुङ्कुमोपेतं कर्पूरेण च संयुतम्। चन्दनं सर्वगन्धाढ्यं कुम्भेऽस्मिन् प्रख्षिपाम्यहम्॥
इति गन्धं प्रख्षिप्य
आपो॒ वा इ॒दꣳ सर्व॒व्ँविश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑ वि॒राडाप॑स्स्व॒राडाप॒श्छन्दा॒ꣴ॒स्यापो॒ ज्योती॒ꣴ॒ष्यापो॒ यजू॒ꣴ॒ष्याप॑स्स॒त्यमाप॒स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओं॥
अ॒पः प्रण॑यति। श्र॒द्धा वा आपः॑। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति। य॒ज्ञो वा आपः॑। य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति। वज्रो॒ वा आपः॑। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति। आपो॒ वै र॑ख्षो॒घ्नीः। रख्ष॑सा॒मप॑हत्यै। अ॒पः प्रण॑यति। आपो॒ वै दे॒वानां᳚ प्रि॒यं धाम॑। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति। आपो॒ वै सर्वा॑ दे॒वताः᳚। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति॥
अ॒पः प्रण॑यति। आपो॒ वै शा॒न्ताः। शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॥
दे॒वो व॑स्सवि॒तोत्पु॑नातु। अच्छि॑द्रेण प॒वित्रे॑ण। वसो॒स्सूर्य॑स्य र॒श्मिभिः॑॥
ऋ.वे. ५.८२.३
स हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑। तं भा॒गं चि॒त्रमी॑महे॥
कूर्चाग्रै राख्षसान् घोरान् छिन्धि कर्म विघातिनः। त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥
वृख्षराजसमुद्भूताश्शाखायाः पल्लवत्त्वचः। युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥
नालिकेरसमुद्भूत त्रिणेत्र हरसंमत। शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
०.२
वरुणावाहनम्
नागपाशधरं देवं रत्नौघद्युतिविग्रहम्। शशाङ्कधवलं ध्यायेद् वरुणं मकरासनम्॥
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युरा च॑के॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः॥
पाशहस्तं च वरुणं यादसामम्भसां पतिम्। आवाहयामि कुम्भेऽस्मिन् देवं मकरवाहनम्॥
वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः॥
उदकशान्तिजपः
१.१
गायत्री
ओं भूः। तथ्स॑वि॒तुर् वरे᳚ण्यम्। ओं भुवः॑। भर्गो॑ दे॒वस्य॑ धीमहि। ओꣳ सुवः॑। धियो॒ योनः॑ प्रचो॒दया᳚त्। ओं भूः तथ्स॑वि॒तुर् वरे᳚ण्यम्। भर्गो॑ दे॒वस्य॑ धीमहि। ओं भुवः। धियो॒ योनः॑ प्रचो॒दया᳚त्। ओꣳ सुवः॑। तथ्स॑वि॒तुर् वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ योनः॑ प्रचो॒दया᳚त्।
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१.२
वेदादयः
ओं। अ॒ग्निमी᳚ळे पु॒रोहि॑तंय॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म्। होता᳚रं रत्न॒ धात॑मम्। इ॒षे त्वो॒र्जेत्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे। अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। निहोता॑ सथ्सि ब॒र्॒हिषि॑। शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शय्ँयोर॒भिस्र॑वन्तु नः॥
१.३
रक्षोघ्नम्
कृ॒णु॒ष्व पाजः॒ प्रसि॑ति॒न्न पृ॒थ्वीय्ँया॒हि राजे॒वाम॑वा॒ꣳ॒ इभे॑न। तृ॒ष्वीमनु॒ प्रसि॑तिन्द्रूणा॒नोऽस्ता॑ऽसि॒ विद्ध्य॑ र॒ख्षस॒स्तपि॑ष्ठैः। तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः। तपू॑ꣴष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः। प्रति॒स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर् वि॒शो अ॒स्या अद॑ब्धः। यो नो॑ दू॒रे अ॒घश॑ꣳसो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत्। उद॑ग्ने तिष्ठ॒ प्रत्याऽऽत॑नुष्व॒न्य॑मित्रा॑ꣳ ओषतात् तिग्महेते। यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑ख्ष्यत॒सं न शुष्क᳚म्। ऊ॒र्द्ध्वो भ॑व॒ प्रति॑ वि॒द्ध्याऽद्ध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने। अव॑स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न्। स ते॑ जानाति सुम॒तिय्ँय॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त्। विश्वा᳚न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ᳚त्। सेद॑ग्ने अस्तु सु॒भग॑स्सु॒दानु॒र् यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः। पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ साऽस॑दि॒ष्टिः। अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाख् सन्ते॑ वा॒वाता॑ जरतामि॒यंगीः। स्वश्वा᳚स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे ख्ष॒त्राणि॑ धारये॒रनु॒ द्यून्। इ॒ह त्वा॒ भूर्या च॑रे॒ दुप॒त्मन् दोषा॑वस्तर् दीदि॒वाꣳस॒मनु॒द्यून्। क्रीड॑न्तस्त्वा सु॒मन॑सस्सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम्। यस्त्वा॒ स्वश्व॑स्सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न। तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग् जुजो॑षत्। म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर् गोत॑मा॒दन्वि॑याय। त्वन्नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र् यविष्ठ सुक्रतो॒ दमू॑नाः। अस्व॑प्नज स्त॒रण॑यस्सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः। ते पा॒यव॑स्स॒द्ध्रिय॑ञ्चो नि॒षद्याऽग्ने॒ तव॑ नः पान्त्वमूर। ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑ख्षन्न्। र॒रख्ष॒ तान्थ् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिफ्स॑न्त॒ इद् रि॒पवो॒ ना ह॑ देभुः। त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न्। उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण। अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒स्तोम॑ꣳ श॒स्यमा॑नं गृभाय। दहा॒शसो॑ र॒ख्षसः॑ पा॒ह्य॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात्। र॒ख्षो॒हण॑व्ँवा॒जिन॒माजि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑यामि॒ शर्म॑। शिशा॑नो अ॒ग्निः क्रतु॑भि॒स्समि॑द्ध॒स्सनो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त᳚म्। वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर् विश्वा॑नि कृणुते महि॒त्वा। प्राऽदे॑वीर् मा॒यास्स॑हते दु॒रेवा॒श्शिशी॑ते॒ शृंगे॒ रख्ष॑से वि॒निख्षे᳚। उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्ने स्ति॒ग्मायु॑धा॒ रख्ष॑से॒ हन्त॒वा उ॑।
१.४
इन्द्रसूक्तम्
इन्द्र॑व्ँवो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः। अ॒स्माक॑मस्तु॒ केव॑लः। इन्द्रं॒ नरो॑ ने॒मधि॑ता हवन्ते॒ यत् पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः। शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑। इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑। इन्द्र॒ तानि॑ त॒ आ वृ॑णे। अनु॑ते दायि म॒ह इ॑न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚। अनु॑ ख्ष॒त्रमनु॒ सहो॑ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚। आ यस्मि᳚न्थ् स॒प्तवा॑स॒वा स्तिष्ठ॑न्ति स्वा॒रुहो॑ यथा। ऋषि॑र्ह दीर्घ॒श्रुत्त॑म॒ इन्द्र॑स्य घ॒र्मो अति॑थिः। आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्य॑ꣳ रोहयो दि॒वि। घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र् जुष्टं॒ गिर्व॑णसे॒ गिरः॑। इन्द्र॒मिद् गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑। इन्द्र॒व्ँवाणी॑रनूषत। गाय॑न्ति त्वा गाय॒त्रिणोऽर्च॑न्त्य॒र्कम॒र्किणः॑। ब्र॒ह्माण॑स्त्वा शतक्रत॒वुद् व॒ꣳ॒शमि॑व येमिरे। अ॒ꣳ॒हो॒मुचे॒ प्र भ॑रेमा मनी॒षा मो॑षिष्ठ॒दाव्ने॑ सुम॒तिं गृ॑णा॒नाः। इ॒दमि॑न्द्र॒ प्रति॑ ह॒व्यं गृ॑भाय स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚। वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्नः॑। अꣳह॑सो॒ यत्र॑ पी॒पर॒द् यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते॥ प्र स॒म्राजं॑ प्रथ॒मम॑द्ध्व॒राणा॑मꣳहो॒मुच॑व्ँवृष॒भय्ँय॒ज्ञिया॑नाम्। अ॒पां नपा॑तमश्विना॒ हय॑न्तम॒स्मिन्न॑र इन्द्रि॒यं ध॑त्त॒मोजः॑। वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्माꣳ अ॑भि॒दास॑ति। इन्द्र॑ख्ष॒त्रम॒भि वा॒ममोजोऽजा॑यथा वृषभ चर्षणी॒नाम्। अपा॑नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लो॒कम्। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आज॑गामा॒ पर॑स्याः। सृ॒कꣳ स॒ꣳ॒शाय॑ प॒विमि॑न्द्र ति॒ग्मव्ँवि शत्रू᳚न् ताढि॒ वि मृधो॑ नुदस्व। वि शत्रू॒न्॒वि मृधो॑ नुद॒ वि वृ॒त्रस्य॒ हनू॑ रुज। विम॒न्युमि॑न्द्र भामि॒तो॑ऽमित्र॑स्याभि॒ दास॑तः। त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ꣳ॒ हवे॑हवे सु॒हव॒ꣳ॒ शूर॒मिन्द्र᳚म्। हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्र॑ꣴ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑। मा ते॑ अ॒स्याꣳ स॑हसाव॒न् परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै। त्राय॑स्व नोऽवृ॒केभि॒र् वरू॑थै॒स्तव॑ प्रि॒यास॑स्सू॒रिषु॑ स्याम। अन॑वस्ते॒ रथ॒मश्वा॑य तख्ष॒न् त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त᳚म्। ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्द्धय॒न्नह॑ये॒ हन्त॒वा उ॑। वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिस्स॒जोषाः᳚। अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्त्तन्त॒ दस्यू॑न्॥
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि। मघ॑वन् च्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॒ वि द्विषो॒ वि मृधो॑ जहि। स्व॒स्ति॒दा वि॒शस्पति॑र् वृत्र॒हा विमृधो॑ व॒शी। वृषेन्द्रः॑ पु॒र ए॑तु नस्स्वस्ति॒दा अ॑भयं क॒रः॥
म॒हाꣳ इन्द्रो॒ वज्र॑बाहुष्षोड॒शी शर्म॑ यच्छतु। स्व॒स्ति नो॑ म॒घवा॑ करोतु॒ हन्तु॑ पा॒प्मान॒य्ँयो᳚ऽस्मान् द्वेष्टि॑। स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒स्सोमं॑ पिब वृत्रहन्च्छूर वि॒द्वान्। ज॒हि शत्रू॒ꣳ॒रप॒मृधो॑ नुद॒स्वाथाऽभ॑यं कृणुहि वि॒श्वतो॑ नः॥
१.५
ये देवाः
ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा, दख्षिण॒सदो॑ य॒मने᳚त्रा, पश्चा॒थ्सद॑स्सवि॒तृ ने᳚त्रा, उत्तर॒सदो॒ वरु॑णनेत्रा, उपरि॒षदो॒ बृह॒स्पति॑ नेत्रा, रख्षो॒हण॒स्ते नः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा॒, ऽग्नये॑ रख्षो॒घ्ने स्वाहा॑, य॒माय॑, सवि॒त्रे, वरु॑णाय॒, बृह॒स्पत॑ये॒ दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚॥
१.६
ये देवाः (अनुषङ्गः)
ये दे॒वाः पु॑र॒स्सदो॒ऽग्नि ने᳚त्रा रख्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा᳚। ये दे॒वा द॑ख्षिण॒सदो॑ य॒म ने᳚त्रा रख्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा᳚। ये दे॒वाः प॑श्चा॒थ्सद॑स्सवि॒तृ ने᳚त्रा रख्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा᳚। ये दे॒वा उ॑त्तर॒सदो॒ वरु॑णनेत्रा रख्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा᳚। ये दे॒वा उ॑परि॒षदो॒ बृह॒स्पति॑ नेत्रा रख्षो॒हण॒स्तेनः॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॒ नम॒स्तेभ्य॒स्स्वाहा᳚। अ॒ग्नये॑ रख्षो॒घ्ने स्वाहा᳚। य॒माय॑ रख्षो॒घ्ने स्वाहा᳚। स॒वि॒त्रे र॑ख्षो॒घ्ने स्वाहा᳚। वरु॑णाय रख्षो॒घ्ने स्वाहा᳚। बृह॒स्पत॑ये॒ दुव॑स्वते रख्षो॒घ्ने स्वाहा᳚॥
१.७
आयुष्कामेष्टिमन्त्राः
अ॒ग्निरायु॑ष्मा॒न्थ् स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॒ , सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभिर्, य॒ज्ञ आयु॑ष्मा॒न्थ् स दख्षि॑णाभि॒र्, ब्रह्मायु॑ष्म॒त्तद् ब्रा᳚ह्म॒णैरायु॑ष्मद्, दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॒नायु॑ष्मन्त॒स्तेन॒त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥
१.८
आयुष्कामेष्टिमन्त्राः (अनुषङ्गः)
अ॒ग्निरायु॑ष्मा॒न्थ्स वन॒स्पति॑भि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि। सोम॒ आयु॑ष्मा॒न्थ्स ओष॑धीभि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि। य॒ज्ञ आयु॑ष्मा॒न्थ्स दख्षि॑णाभि॒रायु॑ष्मा॒न् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि। ब्रह्मायु॑ष्म॒त्तद् ब्रा᳚ह्म॒णैरायु॑ष्म॒त् तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि। दे॒वा आयु॑ष्मन्त॒स्ते॑ऽमृते॒नायु॑ष्मन्त॒स्तेन॒ त्वाऽऽयु॒षाऽऽयु॑ष्मन्तं करोमि॥
१.९
अंहोमुङ्मन्त्राः
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒ , या वा॑मिन्द्रावरुणा सह॒स्या॑, रख्ष॒स्या॑, तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतं॒, यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेना व॑यजे॒ , यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒, चतु॑ष्पाथ्सु, गो॒ष्ठे, गृ॒हेष्व॒फ्स्वोष॑धीषु॒, वन॒स्पति॑षु॒, स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॥
१.१०
अंहोमुङ्मन्त्राः (अनुषङ्गः)
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम्। या वा॑मिन्द्रावरुणा सह॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम्। या वा॑मिन्द्रावरुणा रख्ष॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम्। या वा॑मिन्द्रावरुणा तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम्। यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा॒ चतु॑ष्पाथ्सु प॒शुषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा गो॒ष्ठे स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा गृ॒हेषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा॒ऽफ्सु स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरु॒णौष॑धीषु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे। यो वा॑मिन्द्रावरुणा॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॥
१.११
शास्तृसूक्तम् (आप्यम्)
अग्ने॑ यशस्वि॒न्॒यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चिती मि॒हाव॑ह। अ॒यं मू॒र्द्धा प॑रमे॒ष्ठी सु॒वर्चा᳚स्समा॒नाना॑मुत्त॒मश्लो॑को अस्तु। भ॒द्रं पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒ख्षामृष॑यस्सुव॒र्विदः॑। ततः॑ ख्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सन्न॑मन्तु। धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚। स्तोमा॒श्छन्दा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सन्न॑माम। अ॒भ्याव॑र्त्तद्ध्व॒मुप॒मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर् वो अस्तु। अ॒स्य वि॒ज्ञान॒मनु॒सꣳ र॑भद्ध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚॥
१.१२
राष्ट्रभृतः
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर् ग॑न्ध॒र्वस्तस्यौष॑धयोऽ फ्स॒रस॒ ऊर्जो॒ नाम॒ स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॑, सꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युव॑, स्सुषु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यो, भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दख्षि॑णा अफ्स॒रस॑स्स्त॒वाः, प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑य, इषि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्याऽऽपो᳚ऽफ्स॒रसो॑ मु॒दा, भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑। स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोष॑ꣳ सु॒वीर्य॑ꣳ सव्ँवथ्स॒रीणा॑ꣴ स्व॒स्तिम्॥ प॒र॒मे॒ष्ठ्यधि॑पतिर् मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॒ विश्व॑मफ्स॒रसो॒ भुव॑, स्सुख्षि॒ति स्सुभू॑तिर्भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॑ , दू॒रेहे॑तिरमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुव॒, श्चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र् , नाम॒ स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहा॒, स नो॑ भुवनस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑। उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॥
१.१३
राष्ट्रभृतः (अनुषङ्गः)
ऋ॒ता॒षाड् ऋ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्यौष॑धयोऽफ्स॒रस॒ ऊर्जो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ स॒ꣳ॒हि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॒ मरी॑चयोऽफ्स॒रस॑ आ॒युवो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ सु॒षु॒म्नस्सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॒ नख्ष॑त्राण्यफ्स॒रसो॑ बे॒कुर॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ भु॒ज्युस्सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॒ दख्षि॑णा अफ्स॒रस॑ स्त॒वा नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ प्र॒जाप॑तिर् वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॑र्ख्सा॒मान्य॑फ्स॒रसो॒ वह्न॑यो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्यापो᳚ऽफ्स॒रसो॑ मु॒दा नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ भुव॑नस्य पते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑। स नो॑ रा॒स्वाज्या॑निꣳ रा॒यस्पोष॑ꣳ सु॒वीर्य॑ꣳ सव्ँवथ्स॒रीणा॑ꣴ स्व॒स्तिꣴ स्वाहा᳚॥ प॒र॒मे॒ष्ठ्यधि॑पतिर् मृ॒त्युर्ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॒ विश्व॑मफ्स॒रसो॒ भुवो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ सु॒ख्षि॒तिस्सुभू॑तिर्भद्र॒कृथ् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॑ वि॒द्युतो᳚ऽफ्स॒रसो॒ रुचो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ दू॒रेहे॑तिरमृड॒यो मृ॒त्युर् ग॑न्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्य॑ प्र॒जा अ॑फ्स॒रसो॑ भी॒रुवो॒ नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्स इ॒दं ब्रह्म॑ ख्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा᳚। तस्या॒धयो᳚ऽफ्स॒रस॑श्शो॒चय॑न्ती॒र् नाम॒ ता इ॒दं ब्रह्म॑ ख्ष॒त्रं पा᳚न्तु॒ ताभ्य॒स्स्वाहा᳚॥ स नो॑ भुवनस्यपते॒ यस्य॑त उ॒परि॑ गृ॒हा इ॒ह च॑। उ॒रु ब्रह्म॑णे॒ऽस्मै ख्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा᳚॥
१.१४
सर्पसूक्तम्
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑। ये अ॒न्तरि॑ख्षे॒ ये दि॒वि तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑। ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑। येषा॑म॒फ्सु सदः॑ कृ॒तं तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑। या इष॑वो यातु॒धाना॑ना॒य्ँये वा॒ वन॒स्पती॒ꣳ॒रनु॑। ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑॥
१.१५
पञ्चचोडाः
अ॒यं पु॒रो हरि॑केश॒स्सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रख्षा॑ꣳसि॒ प्रहे॑ति, र॒यं द॑ख्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्याचा᳚ऽफ्स॒रसौ॑ द॒ङ्ख्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति, र॒यं प॒श्चाद् वि॒श्वव्य॑चा॒ स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्ती चानु॒म्लोच॑न्तीचाऽफ्स॒रसौ॑ स॒र्पा हे॒तिर् व्या॒घ्राः प्रहे॑ति, र॒यमु॑त्त॒राथ् स॒य्ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑ चाफ्स॒रसा॒वापो॑ हे॒तिर् वातः॒ प्रहे॑ति, र॒यमु॒पर्य॒र्वाग्व॑सु॒ स्तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न् प्रहे॑ति॒ , स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥
१.१६
पञ्चचोडाः (अनुषङ्गः)
अ॒यं पु॒रो हरि॑केश॒स्सूर्य॑रश्मि॒स्तस्य॑ रथगृ॒थ्सश्च॒ रथौ॑जाश्च सेनानिग्राम॒ण्यौ॑ पुञ्जिकस्थ॒ला च॑ कृतस्थ॒ला चा᳚फ्स॒रसौ॑ यातु॒धाना॑ हे॒ती रख्षा॑ꣳसि॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अ॒यं द॑ख्षि॒णा वि॒श्वक॑र्मा॒ तस्य॑ रथस्व॒नश्च॒ रथे॑चित्रश्च सेनानिग्राम॒ण्यौ॑ मेन॒का च॑ सहज॒न्याचा᳚फ्स॒रसौ॑ द॒ङ्ख्ष्णवः॑ प॒शवो॑ हे॒तिः पौरु॑षेयो व॒धः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अ॒यं प॒श्चाद् वि॒श्वव्य॑चा॒स्तस्य॒ रथ॑प्रोत॒श्चास॑मरथश्च सेनानिग्राम॒ण्यौ᳚ प्र॒म्लोच॑न्तीचानु॒म्लोच॑न्तीचाफ्स॒रसौ॑ स॒र्पा हे॒तिर् व्या॒घ्राः प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ तेयं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अ॒यमु॑त्त॒राथ् स॒य्ँयद्व॑सु॒स्तस्य॑ सेन॒जिच्च॑ सु॒षेण॑श्च सेनानिग्राम॒ण्यौ॑ वि॒श्वाची॑ च घृ॒ताची॑चाफ्स॒रसा॒वापो॑ हे॒तिर् वातः॒ प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अ॒यमु॒पर्य॒र्वाग्व॑सु॒ स्तस्य॒ तार्ख्ष्य॒श्चारि॑ष्टनेमिश्च सेनानिग्राम॒ण्या॑ वु॒र्वशी॑ च पू॒र्वचि॑त्तिश्चाफ्स॒रसौ॑ वि॒द्युद्धे॒तिर॑व॒स्फूर्ज॒न् प्रहे॑ति॒स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥
१.१७
अप्रतिरथम्
आ॒शुश्शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः ख्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रश्श॒तꣳ सेना॑ अजयथ् सा॒कमिन्द्रः॑। सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚। तदिन्द्रे॑ण जयत॒ तथ् स॑हद्ध्व॒य्ँयुधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚। स इषु॑हस्तै॒स्स नि॑षं॒गिभि॑र् व॒शी सꣴस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑। स॒ꣳ॒सृ॒ष्ट॒जिथ् सो॑म॒पा बा॑हुश॒र्द्ध्यू᳚र्द्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚। बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रख्षो॒हाऽमित्रा॑ꣳ अप॒बाध॑मानः। प्र॒भं॒जन्थ् सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेद्ध्यवि॒ता रथा॑नाम्। गो॒त्र॒भिदं॑ गो॒विद॒व्ँवज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा। इ॒मꣳ स॑जाता॒ अनु॑ वीरयद्ध्व॒मिन्द्र॑ꣳ सखा॒योऽनु॒ सꣳ र॑भद्ध्वम्। ब॒ल॒वि॒ज्ञा॒यस्स्थवि॑रः॒ प्रवी॑र॒स्सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः। अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित्। अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रश्श॒तम॑न्यु॒रिन्द्रः॑। दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒द्ध्यो᳚स्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु। इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र् दख्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚। इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्द्ध॑ उ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्। अ॒स्माक॒मिन्द्र॒स्समृ॑तेषु ध्व॒जेष्व॒स्माक॒य्ँया इष॑व॒स्ता ज॑यन्तु। अ॒स्माक॑व्ँवी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु। उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युथ् सत्व॑नां माम॒कानां॒ महा॑ꣳसि। उद्वृ॑त्रहन् वा॒जिना॒व्ँवाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑। उप॒ प्रेत॒ जय॑ता नरस्स्थि॒रा व॑स्सन्तु बा॒हवः॑। इन्द्रो॑ व॒श्शर्म॑ यच्छत्वनाधृ॒ष्या यथाऽस॑थ। अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता। गच्छा॒मित्रा॒न् प्र वि॑श॒ मैषां॒ कञ्च॒नोच्छि॑षः। मर्मा॑णि ते॒ वर्म॑भि श्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भि व॑स्ताम्। उ॒रोर् वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः। यत्र॑ बा॒णास्सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व। इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु॥
१.१८
चमकम् (तृतीयोऽनुवाकः)
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ ख्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे स॒व्ँविच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒ख्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे॥
१.१९
विहव्यम्
ममा᳚ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑ना स्त॒नुवं॑ पुषेम। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाऽद्ध्य॑ख्षेण॒ पृत॑ना जयेम। मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्रा॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः। ममा॒न्तरि॑ख्षमु॒रु गो॒पम॑स्तु॒ मह्य॒व्ँवातः॑ पवतां॒ कामे॑ अ॒स्मिन्न्। मयि॑ दे॒वा द्रवि॑ण॒माय॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः। दैव्या॒ होता॑रा वनिषन्त॒ पूर्वेऽरि॑ष्टास्स्याम त॒नुवा॑ सु॒वीराः᳚। मह्य॑य्ँयजन्तु॒ मम॒ यानि॑ ह॒व्याऽऽकू॑तिस्स॒त्या मन॑सो मे अस्तु। एनो॒ मा नि गां᳚ कत॒मच्च॒नाहव्ँविश्वे॑ देवासो॒ अधि॑ वोचता मे। देवी᳚ष्षडुर्वीरु॒रु णः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयद्ध्वम्। मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र् मा र॑धाम द्विष॒ते सो॑म राजन्न्। अ॒ग्निर् म॒न्युं प्र॑तिनु॒दन् पु॒रस्ता॒दद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम्। प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॑ऽमैषां᳚ चि॒त्तं प्र॒बुधा॒ वि ने॑शत्। धा॒ता धा॑तृ॒णां भुव॑नस्य॒ यस्पति॑र् दे॒वꣳ स॑वि॒तार॑मभिमाति॒षाह᳚म्। इ॒मय्ँय॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र् दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्त्थात्। उ॒रु॒व्यचा॑ नो महि॒षश्शर्म॑ यꣳसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒ख्षु। स नः॑ प्र॒जायै॑ हर्यश्व मृड॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः। ये न॑स्स॒पत्ना॒ अप॒ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान्। वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रंचेत्ता॑रमधिरा॒जम॑क्रन्न्। अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे॒ यो गो॒जिद्ध॑न॒जिद॑श्व॒जिद् यः। इ॒मन्नो॑ य॒ज्ञव्ँवि॑ह॒वे जु॑षस्वा॒स्य कु॑र्मो हरिवो मे॒दिनं॑ त्वा॥
१.२०
मृगारम्
अ॒ग्नेर् म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं ब॒हव॑स्समि॒न्धते᳚। विश्व॑स्याव्ँवि॒शि प्र॑विविशि॒वाꣳस॑मीमहे॒ स नो॑ मुञ्च॒त्वꣳह॑सः। यस्ये॒दं प्रा॒णन्नि॑मि॒षद् यदेज॑ति॒ यस्य॑ जा॒तं जन॑मानं च॒ केव॑लम्। स्तौम्य॒ग्निं ना॑थि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः। इन्द्र॑स्य मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नस्स्तोमा॒ उप॒ मामु॒पागुः॑। यो दा॒शुष॑स्सु॒कृतो॒ हव॒मुप॒ गन्ता॒ स नो॑ मुञ्च॒त्वꣳह॑सः। यस्सं॑ग्रा॒मं नय॑ति॒ सव्ँव॒शी यु॒धे यः पु॒ष्टानि॑ सꣳसृ॒जति॑ त्र॒याणि॑। स्तौमीन्द्रं॑ नाथि॒तो जो॑हवीमि॒ स नो॑ मुञ्च॒त्वꣳह॑सः। म॒न्वे वां᳚ मित्रावरुणा॒ तस्य॑ वित्त॒ꣳ॒ सत्यौ॑जसा दृꣳहणा॒ यं नु॒देथे᳚। या राजा॑नꣳ स॒रथ॑य्ँया॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः। यो वा॒ꣳ॒ रथ॑ ऋ॒जुर॑श्मिस्स॒त्यध॑र्मा॒ मिथु॒श्चर॑न्तमुप॒याति॑ दू॒षय॑न्न्। स्तौमि॑ मि॒त्रावरु॑णा नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः। वा॒योस्स॑वि॒तुर् वि॒दथा॑नि मन्महे॒ यावा᳚त्म॒न्वद् बि॑भृ॒तो यौ च॒ रख्ष॑तः। यौ विश्व॑स्य परि॒भू ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः। उप॒ श्रेष्ठा॑न आ॒शिषो॑ दे॒वयो॒र् धर्मे॑ अस्थिरन्न्। स्तौमि॑ वा॒युꣳ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः। र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒ शुभं॒ गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚। ययो᳚र् वां देवौ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो॑ मुञ्चत॒माग॑सः। यदया॑तव्ँवह॒तुꣳ सू॒र्याया᳚स्त्रिच॒क्रेण॑ स॒ꣳ॒सद॑मि॒च्छमा॑नौ। स्तौमि॑ दे॒वाव॒श्विनौ॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः। म॒रुतां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚। आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः। ति॒ग्ममायु॑धव्ँवीडि॒तꣳ सह॑स्वद् दि॒व्यꣳ शर्द्धः॒ पृत॑नासु जि॒ष्णु। स्तौमि॑ दे॒वान् म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः। दे॒वानां᳚ मन्वे॒ अधि॑ नो ब्रुवन्तु॒ प्रेमाव्ँवाच॒व्ँविश्वा॑मवन्तु॒ विश्वे᳚। आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः। यदि॒दं मा॑ऽभि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न। स्तौमि॒ विश्वा᳚न् दे॒वान् ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्च॒न्त्वेन॑सः। अनु॑नो॒ऽद्यानु॑मति॒रन्विद॑नुमते॒ त्वव्ँवै᳚श्वान॒रो न॑ ऊ॒त्या पृ॒ष्टो दि॒वि।
प्रतीकस्य सम्पूर्णपाठः
अनु॑ नो॒ऽद्यानु॑मतिर् य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑। अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नः कृधि। क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयू॑ꣳषि तारिषः॥
वै॒श्वा॒न॒रो न॑ ऊ॒त्याऽऽ प्र या॑तु परा॒वतः॑। अ॒ग्निरु॒क्थेन॒ वाह॑सा। पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रावि॑वेश। वै॒श्वा॒न॒रस्सह॑सा पृ॒ष्टो अ॒ग्निस्स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त᳚म्।
ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र् ये प्र॑ति॒ष्ठे अभ॑वता॒व्ँवसू॑नाम्। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः। उर्वी॑ रोदसी॒ वरि॑वः कृणोतं॒ ख्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम्। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मꣳह॑सः। यत्ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठाऽवि॑द्वाꣳसश्चकृ॒मा कच्च॒ नागः॑। कृ॒धी स्व॑स्माꣳ अदि॑ते॒रना॑गा॒ व्येना॑ꣳसि शिश्रथो॒ विष्व॑गग्ने। यथा॑ ह॒ तद् व॑सवो गौ॒र्यं॑ चित् प॒दि षि॒ताममु॑ञ्चता यजत्राः। ए॒वा त्वम॒स्मत् प्र मु॑ञ्चा॒ व्यꣳहः॒ प्राता᳚र्यग्ने प्रत॒रां न॒ आयुः॑॥
१.२१
सर्पाहुतयः
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक् तस्या᳚स्ते॒ऽग्निरधि॑पतिरसि॒तो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधाम्यो, ज॒स्विनी॒ नामा॑सि दख्षि॒णा दिक् तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कुः॒ , प्राची॒ नामा॑सि प्र॒तीची॒ दिक् तस्या᳚स्ते॒ सोमोऽधि॑पतिस्स्व॒जो॑ , ऽव॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक् तस्या᳚स्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑ राजि॒, रधि॑पत्नी॒ नामा॑सि बृह॒ती दिक् तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पतिश्श्वि॒त्रो, व॒शिनी॒ नामा॑सी॒यं दिक् तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो, रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥
१.२२
सर्पाहुतयः (अनुषङ्गः)
स॒मीची॒ नामा॑सि॒ प्राची॒ दिक् तस्या᳚स्ते॒ऽग्निरधि॑पति रसि॒तो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ ओ॒ज॒स्विनी॒ नामा॑सि दख्षि॒णा दिक् तस्या᳚स्त॒ इन्द्रोऽधि॑पतिः॒ पृदा॑कू रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ प्राची॒ नामा॑सि प्र॒तीची॒ दिक् तस्या᳚स्ते॒ सोमोऽधि॑पतिस्स्व॒जो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ अ॒व॒स्थावा॒ नामा॒स्युदी॑ची॒ दिक् तस्या᳚स्ते॒ वरु॒णोऽधि॑पतिस्ति॒रश्च॑ राजी रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि। अधि॑पत्नी॒ नामा॑सि बृह॒ती दिक् तस्या᳚स्ते॒ बृह॒स्पति॒रधि॑पतिश्श्वि॒त्रो र॑ख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥ व॒शिनी॒ नामा॑सी॒यं दिक्तस्या᳚स्ते य॒मोऽधि॑पतिः क॒ल्माष॑ग्रीवो रख्षि॒ता यश्चाधि॑पति॒र् यश्च॑ गो॒प्ता ताभ्यां॒ नम॒स्तौ नो॑ मृडयतां॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवां॒ जंभे॑ दधामि॥
१.२३
गन्धर्वाहुतयः
हे॒तयो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः पु॒रो गृ॒हा अ॒ग्निर् व॒ इष॑वस्सलि॒लो, नि॑लिं॒पा नाम॑ स्थ॒ तेषा᳚व्ँवो दख्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒स्सग॑रो, व॒ज्रिणो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः प॒श्चाद् गृ॒हास्स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रो, ऽव॒स्थावा॑नो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑वस्समु॒द्रो, ऽधि॑पतयो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उ॒परि॑ गृ॒हा व॒र्॒षव्ँव॒ इष॒वोऽव॑स्वान्, क्र॒व्या नाम॑ स्थ॒ पार्त्थि॑वा॒स्तेषा᳚व्ँव इ॒ह गृ॒हा अन्न॑व्ँव॒ इष॑वोऽनिमि॒षो, वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥
१.२४
गन्धर्वाहुतयः (अनुषङ्गः)
हे॒तयो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः पु॒रो गृ॒हा अ॒ग्निर् व॒ इष॑वस्सलि॒लो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ नि॒लिं॒पा नाम॑ स्थ॒ तेषा᳚व्ँवो दख्षि॒णा गृ॒हाः पि॒तरो॑ व॒ इष॑व॒स्सग॑रो वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ व॒ज्रिणो॒ नाम॑ स्थ॒ तेषा᳚व्ँवः प॒श्चाद्गृ॒हास्स्वप्नो॑ व॒ इष॑वो॒ गह्व॑रो वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अ॒व॒स्था वा॑ नो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उत्त॒राद् गृ॒हा आपो॑ व॒ इष॑वस्समु॒द्रो वा॑त ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ अधि॑पतयो॒ नाम॑ स्थ॒ तेषा᳚व्ँव उ॒परि॑ गृ॒हा व॒र्॒षव्ँव॒ इष॒वोऽव॑स्वान् वात ना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥ क्र॒व्या नाम॑स्थ॒ पार्त्थि॑वा॒स्तेषा᳚व्ँव इ॒ह गृ॒हा अन्न॑व्ँव॒ इष॑वोऽनिमि॒षो वा॑तना॒मं तेभ्यो॑ वो॒ नम॒स्ते नो॑ मृडयत॒ ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तव्ँवो॒ जंभे॑ दधामि॥
१.२५
अज्यानयः
श॒तायु॑धाय श॒तवी᳚र्याय श॒तोत॑येऽभिमाति॒षाहे᳚। श॒तय्ँयो न॑श्श॒रदो॒ अजी॑ता॒निन्द्रो॑ नेष॒दति॑ दुरि॒तानि॒ विश्वा᳚। ये च॒त्वारः॑ प॒थयो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑। तेषा॒य्ँयो अज्या॑नि॒मजी॑तिमा॒वहा॒त् तस्मै॑ नो देवाः॒ परि॑ दत्ते॒ह सर्वे᳚। ग्री॒ष्मो हे॑म॒न्त उ॒त नो॑ वस॒न्तश्श॒रद् व॒र्॒षास्सु॑वि॒तं नो॑ अस्तु। तेषा॑मृतू॒नाꣳ श॒तशा॑रदानां निवा॒त ए॑षा॒मभ॑ये स्याम। इ॒दु॒व॒थ्स॒राय॑ परिवथ्स॒राय॑ सव्ँवथ्स॒राय॑ कृणुता बृ॒हन्नमः॑। तेषा᳚व्ँव॒यꣳ सु॑म॒तौ य॒ज्ञिया॑नां॒ ज्योगजी॑ता॒ अह॑तास्स्याम। भ॒द्रान्न॒श्श्रेय॒स्सम॑नैष्ट देवा॒ स्त्वया॑ऽव॒सेन॒ सम॑शीमहि त्वा। स नो॑ मयो॒भूः पि॑तो॒ आ वि॑शस्व॒ शं तो॒काय॑ त॒नुवे᳚ स्यो॒नः॥
भू॒तं भव्यं॑ भवि॒ष्यद् वष॒ट् थ्स्वाहा॒ नम॒ , ऋख् साम॒ यजु॒र् वष॒ट् थ्स्वाहा॒ नमो॑ , गाय॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट् थ्स्वाहा॒ नमः॑ , पृथि॒व्य॑न्तरि॑ख्षं॒ द्यौर् वष॒ट् थ्स्वाहा॒ नमो॒ , ऽग्निर्वा॒युस्सूर्यो॒ वष॒ट् थ्स्वाहा॒ नमः॑ , प्रा॒णो व्या॒नो॑ऽपा॒नो वष॒ट् थ्स्वाहा॒ नमो, ऽन्नं॑ कृ॒षिर् वृष्टि॒र् वष॒ट् थ्स्वाहा॒ नमः॑, पि॒ता पु॒त्रः पौत्रो॒ वष॒ट् थ्स्वाहा॒ नमो॒ , भूर् भुव॒स्सुव॒र् वष॒ट् थ्स्वाहा॒ नमः॑॥
१.२६
अथर्वशीर्षम्
इन्द्रो॑ दधी॒चो अ॒स्थभिः॑। वृ॒त्राण्यप्र॑तिष्कुतः। ज॒घान॑ नव॒तीर् नव॑। इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑। पर्व॑ते॒ष्वप॑श्रितम्। तद् वि॑दच्छर्य॒णाव॑ति। अत्राह॒ गोरम॑न्वत। नाम॒ त्वष्टु॑रपी॒च्य᳚म्। इ॒त्था च॒न्द्रम॑सो गृ॒हे। इन्द्र॒मिद् गा॒थिनो॑ बृ॒हत्। इन्द्र॑म॒र्केभि॑र॒र्किणः॑। इन्द्र॒व्ँवाणी॑रनूषत। इन्द्र॒ इद्धर्यो॒स्सचा᳚। संमि॑श्ल॒ आ व॑चो॒युजा᳚। इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑। इन्द्रो॑ दी॒र्घाय॒ चख्ष॑से। आ सूर्य॑ꣳ रोहयद् दि॒वि। वि गोभि॒रद्रि॑मैरयत्। इन्द्र॒ वाजे॑षु नो अव। स॒हस्र॑प्रधनेषु च। उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑। तमिन्द्र॑व्ँवाजयामसि। म॒हे वृ॒त्राय॒ हन्त॑वे। स वृषा॑ वृष॒भो भु॑वत्। इन्द्र॒स्स दाम॑ने कृ॒तः। ओजि॑ष्ठ॒स्स बले॑ हि॒तः। द्यु॒म्नी श्लो॒की स सौ॒म्यः॑। गि॒रा वज्रो॒ न संभृ॑तः। सब॑लो॒ अन॑पच्युतः। व॒व॒ख्षुरु॒ग्रो अस्तृ॑तः॥
१.२७
प्रत्यङ्गिरसम्
चख्षु॑षो हेते॒ मन॑सो हेते। वाचो॑ हेते॒ ब्रह्म॑णो हेते। यो मा॑ऽघा॒युर॑भि॒दास॑ति। तम॑ग्ने मे॒न्याऽमे॒निं कृ॑णु। यो मा॒ चख्षु॑षा॒ यो मन॑सा। यो वा॒चा ब्रह्म॑णाऽघा॒युर॑भि॒दास॑ति। तया᳚ऽग्ने॒ त्वं मे॒न्या। अ॒मुम॑मे॒निं कृ॑णु। यत् किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा। य॒ज्ञैर् जु॒होति॒ यजु॑षा ह॒विर्भिः॑। तन् मृ॒त्युर्निर्ऋ॑त्या सव्ँविदा॒नः। पु॒राऽऽदि॒ष्टादाहु॑तीरस्य हन्तु। या॒तु॒धाना॒ निर्ऋ॑ति॒रादु॒ रख्षः॑। ते अ॑स्य घ्न॒न्त्वनृ॑तेन स॒त्यम्। इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु। मा तथ् समृ॑द्धि॒ यद॒सौ क॒रोति॑। हन्मि॑ ते॒ऽहं कृ॒तꣳ ह॒विः। यो मे॑ घो॒रमची॑कृतः। अपा᳚ञ्चौ त उ॒भौ बा॒हू। अप॑नह्याम्या॒स्य᳚म्। अप॑नह्यामि ते बा॒हू। अप॑नह्याम्या॒स्य᳚म्। अ॒ग्नेर् दे॒वस्य॒ ब्रह्म॑णा। सर्वं॑ तेऽवधिषं कृ॒तम्। पु॒राऽमुष्य॑ वषट्का॒रात्। य॒ज्ञं दे॒वेषु॑ नस्कृधि। स्वि॑ष्टम॒स्माकं॑ भूयात्। माऽस्मान् प्राप॒न्नरा॑तयः। अन्ति॑ दू॒रे स॒तो अ॑ग्ने। भ्रातृ॑व्यस्याऽभि॒दास॑तः। व॒ष॒ट्का॒रेण॒ वज्रे॑ण। कृ॒त्याꣳ ह॑न्मि कृ॒ताम॒हम्। यो मा॒ नक्तं॒ दिवा॑ सा॒यम्। प्रा॒तश्चाह्नो॑ नि॒पीय॑ति। अ॒द्या तमि॑न्द्र॒ वज्रे॑ण। भ्रातृ॑व्यं पादयामसि॥
प्रा॒णो र॑ख्षति॒ विश्व॒मेज॑त्। इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑। स इथ् सर्व॒व्ँव्या॑नशे। यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः। आवृ॑दू॒दात् ख्षेत्रिय॑द्ध्व॒गद् वृषा᳚। तमित् प्रा॒णं मन॒सोप॑शिख्षत। अग्रं॑ दे॒वाना॑मि॒दम॑त्तु नो ह॒विः। मन॑स॒श्चित्ते॒दम्। भू॒तं भव्यं॑ च गुप्यते। तद्धि दे॒वेष्व॑ग्रि॒यम्। आ न॑ एतु पुरश्च॒रम्। स॒ह दे॒वैरि॒मꣳ हव᳚म्। मन॒श्श्रेय॑सि श्रेयसि। कर्म॑न्य॒ज्ञप॑तिं॒ दध॑त्। जु॒षतां᳚ मे॒ वागि॒दꣳ ह॒विः। वि॒राड् दे॒वी पु॒रोहि॑ता। ह॒व्य॒वाडन॑पायिनी। यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति। पेशा॑ꣳसि दे॒वाः प॑र॒मे ज॒नित्रे᳚। सा नो॑ वि॒राडन॑पस्फुरन्ती। वाग् दे॒वी जु॑षतामि॒दꣳ ह॒विः। चख्षु॑र् दे॒वानां॒ ज्योति॑र॒मृते॒ न्य॑क्तम्। अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते। तस्य॑ सु॒म्नम॑शीमहि। मा नो॑ हासीद् विचख्ष॒णम्। आयु॒रिन्नः॒ प्रती᳚र्यताम्। अन॑न्धा॒श्चख्षु॑षा व॒यम्। जी॒वा ज्योति॑रशीमहि। सुव॒र् ज्योति॑रु॒तामृतं᳚। श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम्। श्रोत्रे॑ण॒ वाचं॑ बहु॒धोद्यमा॑नाम्। श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते। श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आशृ॑णोमि। येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा। प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात्। तदिच्छ्रोत्रं॑ बहु॒धोद्यमा॑नम्। अ॒रान्न ने॒मिः परि॒ सर्वं॑ बभूव॥
सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ। त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना। या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम्। अश्व॑स्य॒ क्रंद्ये॒ पुरु॑षस्य मा॒यौ। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना। या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये। त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना। रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे᳚। वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚। इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑। सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना। राड॑सि वि॒राड॑सि। स॒म्राड॑सि स्व॒राड॑सि। इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣴ श्रीणामि। इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣴ श्रीणामि। इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣴ श्रीणामि। इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣴ श्रीणामि। तेजो॑ऽसि। तत्ते॒ प्रय॑च्छामि। तेज॑स्वदस्तु मे॒ मुख᳚म्। तेज॑स्व॒च्छिरो॑ अस्तु मे। तेज॑स्वान्वि॒श्वतः॑ प्र॒त्यङ्। तेज॑सा॒ संपि॑पृग्धि मा। ओजो॑ऽसि। तत्ते॒ प्रय॑च्छामि। ओज॑स्वदस्तु मे॒ मुख᳚म्। ओज॑स्व॒च्छिरो॑ अस्तु मे। ओज॑स्वान्वि॒श्वतः॑ प्र॒त्यङ्। ओज॑सा॒ संपि॑पृग्धि मा। पयो॑ऽसि। तत्ते॒ प्रय॑च्छामि। पय॑स्वदस्तु मे॒ मुख᳚म्। पय॑स्व॒च्छिरो॑ अस्तु मे। पय॑स्वान्वि॒श्वतः॑ प्र॒त्यङ्। पय॑सा॒ संपि॑पृग्धि मा। आयु॑रसि। तत्ते॒ प्रय॑च्छामि। आयु॑ष्मदस्तु मे॒ मुख᳚म्। आयु॑ष्म॒च्छिरो॑ अस्तु मे। आयु॑ष्मान्वि॒श्वतः॑ प्र॒त्यङ्। आयु॑षा॒ संपि॑पृग्धि मा। इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि। प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न्। मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ। विश्वे॑ देवा॒ जर॑दष्टि॒र् यथाऽस॑त्। आयु॑रसि वि॒श्वायु॑रसि। स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि। यतो॒ वातो॒ मनो॑जवाः। यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः। तासां᳚ त्वा॒ सर्वा॑साꣳ रु॒चा। अ॒भिषि॑ञ्चामि॒ वर्च॑सा। स॒मु॒द्र इ॑वासि ग॒ह्मना᳚। सोम॑ इवा॒स्यदा᳚भ्यः। अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यङ्। सूर्य॑ इव॒ ज्योति॑षा वि॒भूः। अ॒पाय्ँयो द्रव॑णे॒ रसः॑। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑। तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि। अ॒पाय्ँय ऊ॒र्मौ रसः॑। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑। ओज॑से वी॒र्या॑य गृह्णामि। अ॒पाय्ँयो म॑द्ध्य॒तो रसः॑। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑। पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि। अ॒पाय्ँयो य॒ज्ञियो॒ रसः॑। तम॒हम॒स्मा आ॑मुष्याय॒णाय॑। आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि॥
१.२८
अन्नसूक्तम्
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑। पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑। यो मा॒ ददा॑ति॒ स इदे॒व मा वाः᳚। अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि। पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्नं᳚। य॒त्तौ हा॑ऽऽसाते अहमुत्त॒रेषु॑। व्यात्त॑मस्य प॒शव॑स्सु॒जंभ᳚म्। पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚। जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यम्। अ॒हमन्न॒व्ँवश॒मिच्च॑रामि। स॒मा॒नमर्थं॒ पर्ये॑मि भुं॒जत्। को मामन्नं॑ मनु॒ष्यो॑ दयेत। परा॑के॒ अन्नं॒ निहि॑तल्ँलो॒क ए॒तत्। विश्वै᳚र् दे॒वैः पि॒तृभि॑र् गु॒प्तमन्न᳚म्। यद॒द्यते॑ लु॒प्यते॒ यत् प॑रो॒प्यते᳚। श॒त॒त॒मीसा त॒नूर् मे॑ बभूव। म॒हान्तौ॑ च॒रू स॑कृद् दु॒ग्धेन॑ पप्रौ। दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वीं च॑ सा॒कम्। तथ् सं॒पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑। नैतद् भूयो॒ भव॑ति॒ नो कनी॑यः। अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः। अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः। अन्नं॑ ब्र॒ह्माणो॑ ज॒रस॑व्ँवदन्ति। अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म्। मोघ॒मन्न॑व्ँविन्दते॒ अप्र॑चेताः। स॒त्यं ब्र॑वीमि व॒ध इथ् स तस्य॑। नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम्। केव॑लाघो भवति केवला॒दी। अ॒हं मे॒घस्स्त॒नय॒न् वर्ष॑न्नस्मि। माम॑दन्त्य॒हम॑द्म्य॒न्यान्। अ॒हꣳ सद॒मृतो॑ भवामि। मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति।
१.२९
वाक्सूक्तम्
दे॒वीं वाच॑मजनयन्त॒ यद् वाग् वद॑न्ति।
प्रतीकस्य सम्पूर्णपाठः
दे॒वीव्ँवाच॑मजनयन्त दे॒वाः। ताव्ँवि॒श्वरू॑पाः प॒शवो॑ वदन्ति। सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना। धे॒नुर् वाग॒स्मानुप॒ सुष्टु॒तैतु॑॥
यद् वाग्वद॑न्त्यविचेत॒नानि॑। राष्ट्री॑ दे॒वानां᳚ निष॒साद॑ म॒न्द्रा। चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पया॑ꣳसि। क्व॑ स्विदस्याः पर॒मं ज॑गाम॥
अ॒न॒न्तामन्ता॒दधि॒ निर्मि॑तां म॒हीम्। यस्यां᳚ दे॒वा अ॑दधु॒र् भोज॑नानि। एका᳚ख्षरां द्वि॒पदा॒ꣳ॒ षट्प॑दाञ्च। वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚। वाचं॑ दे॒वा उप॑जीवन्ति॒ विश्वे᳚। वाचं॑ गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚। वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता। सा नो॒ हवं॑ जुषता॒मिन्द्र॑पत्नी। वाग॒ख्षरं॑ प्रथम॒जा ऋ॒तस्य॑। वेदा॑नां मा॒ताऽमृत॑स्य॒ नाभिः॑। सा नो॑ जुषा॒णोप॑य॒ज्ञमागा᳚त्। अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु। यामृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑। अ॒न्वैच्छ॑न् दे॒वास्तप॑सा॒ श्रमे॑ण। तां दे॒वीव्ँवाच॑ꣳ ह॒विषा॑ यजामहे। सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के। च॒त्वारि॒ वाक् परि॑मिता प॒दानि॑। तानि॑ विदुर् ब्राह्म॒णा ये म॑नी॒षिणः॑। गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति। तु॒रीय॑व्ँवा॒चो म॑नु॒ष्या॑ वदन्ति।
१.३०
श्रद्धासूक्तम्
श्र॒द्धया॒ऽग्निस्समि॑द्ध्यते। श्र॒द्धया॑ विन्दते ह॒विः। श्र॒द्धां भग॑स्य मू॒र्द्धनि॑। वच॒साऽऽवे॑दयामसि। प्रि॒यꣴ श्र॑द्धे॒ दद॑तः। प्रि॒यꣴ श्र॑द्धे॒ दिदा॑सतः। प्रि॒यं भो॒जेषु॒ यज्व॑सु। इ॒दं म॑ उदि॒तं कृ॑धि। यथा॑ दे॒वा असु॑रेषु। श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे। ए॒वं भो॒जेषु॒ यज्व॑सु। अ॒स्माक॑मुदि॒तं कृ॑धि। श्र॒द्धां दे॑वा॒ यज॑मानाः। वा॒युगो॑पा॒ उपा॑सते। श्र॒द्धाꣳ हृ॑द॒य्य॑याऽऽकू᳚त्या। श्र॒द्धया॑ हूयते ह॒विः। श्र॒द्धां प्रा॒तर्ह॑वामहे। श्र॒द्धां म॒द्ध्यन्दि॑नं॒ परि॑। श्र॒द्धाꣳ सूर्य॑स्य नि॒म्रुचि॑। श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚। श्र॒द्धा दे॒वानधि॑वस्ते। श्र॒द्धा विश्व॑मि॒दं जग॑त्। श्र॒द्धां काम॑स्य मा॒तर᳚म्। ह॒विषा॑ वर्द्धयामसि।
१.३१
ब्रह्मसूक्तम्
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता᳚त्। वि सी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः। स बु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः। स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥ पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम्। अ॒न्तरि॑ख्षव्ँवि॒श्वरू॑प॒ आवि॑वेश। तम॒र्कैर॒भ्य॑र्च्चन्ति व॒थ्सम्। ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्द्धय॑न्तः॥ ब्रह्म॑ दे॒वान॑जनयत्। ब्रह्म॒ विश्व॑मि॒दं जग॑त्॥ ब्रह्म॑णः ख्ष॒त्रं निर्मि॑तम्। ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚॥ अ॒न्तर॑स्मिन्नि॒मे लो॒काः। अ॒न्तर् विश्व॑मि॒दं जग॑त्। ब्रह्मै॒व भू॒तानां॒ ज्येष्ठ᳚म्। तेन॒ को॑ऽर्हति॒ स्पर्द्धि॑तुम्॥ ब्रह्म॑न् दे॒वास्त्रय॑स्त्रिꣳशत्। ब्रह्म॑न्निन्द्र प्रजाप॒ती। ब्रह्म॑न्ह॒ विश्वा॑ भू॒तानि॑। ना॒वीवा॒न्तस्स॒माहि॑ता॥ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑। इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न्। घृ॒तं पिन्व॑न्न॒जर॑ꣳ सु॒वीर᳚म्। ब्रह्म॑ स॒मिद् भ॑व॒त्याहु॑तीनाम्॥
१.३२
गोसूक्तम्
आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्न्। सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः। इन्द्रा॑य पू॒र्वी रु॒षसो॒ दुहा॑नाः। इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिख्षति। उपेद्द॑दाति॒ न स्वं मु॑षायति। भूयो॑ भूयो र॒यिमिद॑स्य व॒र्द्धय॑न्न्। अभि॑न्ने खि॒ल्ले निद॑धाति देव॒युम्। न ता न॑शन्ति॒ न ता अर्वा᳚।
प्रतीकस्य सम्पूर्णपाठः
न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः। नैना॑ अमि॒त्रो व्यथि॒राद॑धर्षति। दे॒वाꣴश्च॒ याभि॒र् यज॑ते॒ ददा॑ति च। ज्योगित्ताभि॑स्सचते॒ गोप॑तिस्स॒ह॥ न ता अर्वा॑ रे॒णुक॑काटो अश्नुते। न स॑ꣴस्कृत॒त्रमुप॑यन्ति॒ ता अ॒भि। उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॑। गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः॥
गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात्। गाव॒स्सोम॑स्य प्रथ॒मस्य॑ भ॒ख्षः। इ॒मा या गाव॒स्सज॑नास॒ इन्द्रः॑। इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म्। यू॒यं गा॑वो मेदयथा कृ॒शञ्चि॑त्। अ॒श्ली॒लं चि॑त् कृणुथा सु॒प्रती॑कम्। भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचः। बृ॒हद् वो॒ वय॑ उच्यते स॒भासु॑। प्र॒जाव॑तीस्सू॒यव॑सꣳ रि॒शन्तीः᳚। शु॒द्धा अ॒पस्सु॑प्रपा॒णे पिब॑न्तीः। मा व॑स्स्ते॒न ई॑शत॒ माऽघश॑ꣳसः। परि॑ वो हे॒ती रु॒द्रस्य॑ वृंज्यात्। उपे॒दमु॑प॒पर्च॑नम्। आ॒सु गोषूप॑पृच्यताम्। उप॑र्ष॒भस्य॒ रेत॑सि। उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚।
१.३३
सूर्याचन्द्रमसासूक्तम्
ता सू᳚र्याचन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत्। तेजो॒ वसु॑मद्राजतो दि॒वि। सामा᳚त्माना चरतस्सामचा॒रिणा᳚। ययो᳚र् व्र॒तं न म॒मे जातु॑ दे॒वयोः᳚। उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚। दि॒वो न र॒श्मीꣴ स्त॑नु॒तो व्य॑र्ण॒वे। उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू। सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती। पती᳚द्यु॒मद् वि॑श्व॒विदा॑ उ॒भा दि॒वः। सूर्या॑ उ॒भा च॒न्द्रम॑सा विचख्ष॒णा। वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या। ता नो॑ऽवतं मति॒मन्ता॒ महि॑व्रता। वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता। सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी। सूर्या॒ हि च॒न्द्रा वसु॑ त्वे॒ष द॑र्शता। म॒न॒स्विनो॒भाऽनु॑चर॒तो नु॒ सं दिव᳚म्। अ॒स्य श्रवो॑ न॒द्य॑स्स॒प्त बि॑भ्रति। द्यावा॒ख्षामा॑ पृथि॒वी द॑र्श॒तव्ँवपुः॑। अ॒स्मे सू᳚र्याचन्द्र॒मसा॑ऽभि॒चख्षे᳚। श्र॒द्धे कमि॑न्द्र चरतो विचर्तु॒रम्। पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ। शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अद्ध्व॒रम्। विश्वा᳚न्य॒न्यो भुव॑नाऽभि॒चष्टे᳚। ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑। हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का यासा॒ꣳ॒ राजा᳚। यासां᳚ दे॒वाश्शि॒वेन॑ मा॒ चख्षु॑षा पश्यत। आपो॑ भ॒द्रा आदित्प॑श्यामि।
प्रतीकस्य सम्पूर्णपाठः
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑। अ॒ग्निय्ँया गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्। म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥
यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति। याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥ शि॒वेन॑ मा॒ चख्षु॑षा पश्यताऽऽपश्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे। सर्वा॑ꣳ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त॥
आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसु र॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आमा᳚ प्रा॒णेन॑ स॒हवर्च॑ सागन्न्॥ आदित्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसाम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑॥
१.३४
नासदीयसूक्तम्
नास॑दासी॒न्नो सदा॑सीत् त॒दानी᳚म्। नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत्। किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॑न्न्। अंभः॒ किमा॑सी॒द् गह॑नं गभी॒रम्। न मृ॒त्युर॒मृतं॒ तर्हि॒ न। रात्रि॑या॒ अह्न॑ आसीत् प्रके॒तः। आनी॑दवा॒तꣴ स्व॒धया॒ तदेक᳚म्। तस्मा᳚द्धा॒न्यन् न प॒रः किं च॒नास॑। तम॑ आसी॒त् तम॑सा गू॒ढमग्रे᳚ प्रके॒तम्। स॒लि॒लꣳ सर्व॑मा इ॒दम्। तु॒च्छेना॒भ्वपि॑हित॒य्ँयदासी᳚त्। तम॑स॒स्तन्म॑हि॒ना जा॑य॒तैक᳚म्। काम॒स्तदग्रे॒ सम॑वर्त्त॒ताधि॑। मन॑सो॒ रेतः॑ प्रथ॒मय्ँयदासी᳚त्। स॒ तो बन्धु॒मस॑ति॒ निर॑विन्दन्न्। हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा। ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम्। अ॒धःस्वि॑दा॒सी(३) दु॒परि॑ स्विदासी(३)त्। रे॒तो॒धा आ॑सन् महि॒मान॑ आसन्न्। स्व॒धा अ॒वस्ता॒त् प्रय॑तिः प॒रस्ता᳚त्। को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चत्। कुत॒ आजा॑ता॒ कुत॑ इ॒यव्ँविसृ॑ष्टिः। अ॒र्वाग् दे॒वा अ॒स्य वि॒सर्ज॑नाय। अथा॒ को वे॑द॒ यत॑ आब॒भूव॑। इ॒यव्ँविसृ॑ष्टि॒र् यत॑ आब॒भूव॑। यदि॑ वा द॒धे यदि॑ वा॒ न। यो अ॒स्याद्ध्य॑ख्षः पर॒मे व्यो॑मन्न्। सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑। किꣴ स्वि॒द्वनं॒ क उ॒ स वृ॒ख्ष आ॑सीत्। यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः। मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तत्। यद॒द्ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न्न्। ब्रह्म॒ वनं॒ ब्रह्म॒ स वृ॒ख्ष आ॑सीत्। यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒ख्षुः। मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः। ब्रह्मा॒द्ध्यति॑ष्ठ॒द् भुव॑नानि धा॒रय॑न्न्।
१.३५
भाग्यसूक्तम्
प्रा॒तर॒ग्निं प्रा॒तरिन्द्र॑ꣳ हवामहे। प्रा॒तर् मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚। प्रा॒तर् भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति᳚म्। प्रा॒तस्सोम॑मु॒त रु॒द्रꣳ हु॑वेम॥ प्रा॒त॒र्जितं॒ भग॑मु॒ग्रꣳ हु॑वेम। व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒द्ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॑त्। राजा॑ चि॒द्यं भगं॑ भ॒ख्षीत्याह॑॥ भग॒ प्रणे॑त॒र् भग॒ सत्य॑राधः। भगे॒मां धिय॒मुद॑व॒ दद॑न्नः। भग॒ प्र णो॑ जनय॒ गोभि॒रश्वैः᳚। भग॒ प्र नृभि॑र् नृ॒वन्त॑स्स्याम॥ उ॒तेदानीं॒ भग॑वन्तस्स्याम। उ॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्ना᳚म्। उ॒तोदि॑ता मघव॒न्थ् सूर्य॑स्य। व॒यं दे॒वाना॑ꣳ सुम॒तौ स्या॑म॥ भग॑ ए॒व भग॑वाꣳ अस्तु देवाः। तेन॑ व॒यं भग॑वन्तस्स्याम। तन्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि। स नो॑ भग पुर ए॒ता भ॑वे॒ह॥ सम॑द्ध्व॒रायो॒षसो॑ नमन्त। द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑। अ॒र्वा॒ची॒नव्ँव॑सु॒विदं॒ भग॑न्नः। रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु॥ अश्वा॑वती॒र् गोम॑तीर् न उ॒षासः॑। वी॒रव॑ती॒स्सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः। यू॒यं पा॑त स्व॒स्तिभि॒स्सदा॑नः॥
१.३६
नक्षत्रसूक्तम् (जपः, उपहोमः)
१कृत्तिकादेवता · अग्निः
अ॒ग्निर् नः॑ पातु॒ कृत्ति॑काः। नख्ष॑त्रं दे॒वमि॑न्द्रि॒यम्। इ॒दमा॑साव्ँविचख्ष॒णम्। ह॒विरा॒सन् जु॑होतन। यस्य॒ भान्ति॑ र॒श्मयो॒ यस्य॑ के॒तवः॑। यस्ये॒मा विश्वा॒ भुव॑नानि॒ सर्वा᳚। स कृत्ति॑काभिर॒भि स॒व्ँवसा॑नः। अ॒ग्निर् नो॑ दे॒वस्सु॑वि॒ते द॑धातु॥
उपहोमःअ॒ग्नये॒ स्वाहा॒ कृत्ति॑काभ्य॒स्स्वाहा᳚। अं॒बायै॒ स्वाहा॑ दु॒लायै॒ स्वाहा᳚। नि॒त॒त्न्यै स्वाहा॒ऽभ्रय॑न्त्यै॒ स्वाहा᳚। मे॒घय॑न्त्यै॒ स्वाहा॑ व॒र्॒षय॑न्त्यै॒ स्वाहा᳚। चु॒पु॒णीका॑यै॒ स्वाहा᳚॥
(कृत्तिका नख्षत्रदेवतायै अग्नये नमः)
२रोहिणीदेवता · प्रजापतिः
प्र॒जाप॑ते रोहि॒णी वे॑तु॒ पत्नी᳚। वि॒श्वरू॑पा बृह॒ती चि॒त्रभा॑नुः। सा नो॑ य॒ज्ञस्य॑ सुवि॒ते द॑धातु। यथा॒ जीवे॑म श॒रद॒स्सवी॑राः। रो॒हि॒णी दे॒व्युद॑गात् पु॒रस्ता᳚त्। विश्वा॑ रू॒पाणि॑ प्रति॒मोद॑माना। प्र॒जाप॑तिꣳ ह॒विषा॑ व॒र्द्धय॑न्ती। प्रि॒या दे॒वाना॒मुप॑यातु य॒ज्ञम्॥
उपहोमःप्र॒जाप॑तये॒ स्वाहा॑ रोहि॒ण्यै स्वाहा᳚। रोच॑मानायै॒ स्वाहा᳚ प्र॒जाभ्य॒स्स्वाहा᳚॥
(रोहिणी नख्षत्रदेवतायै प्रजापतये नमः)
३मृगशीर्षःदेवता · सोमः
सोमो॒ राजा॑ मृगशी॒र्॒षेण॒ आग॑न्न्। शि॒वं नख्ष॑त्रं प्रि॒यम॑स्य॒ धाम॑। आ॒प्याय॑मानो बहु॒धा जने॑षु। रेतः॑ प्र॒जाय्ँयज॑माने दधातु। यत्ते॒ नख्ष॑त्रं मृगशी॒र्॒षमस्ति॑। प्रि॒यꣳ रा॑जन् प्रि॒यत॑मं प्रि॒याणा᳚म्। तस्मै॑ ते सोम ह॒विषा॑ विधेम। शन्न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे॥
उपहोमःसोमा॑य॒ स्वाहा॑ मृगशी॒र्॒षाय॒ स्वाहा᳚। इ॒न्व॒काभ्य॒स्स्वाहौष॑धीभ्य॒स्स्वाहा᳚। रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(मृगशीर्ष नख्षत्रदेवतायै सोमाय नमः)
४आर्द्रादेवता · रुद्रः
आ॒र्द्रया॑ रु॒द्रः प्रथ॑मान एति। श्रेष्ठो॑ दे॒वानां॒ पति॑रघ्नि॒याना᳚म्। नख्ष॑त्रमस्य ह॒विषा॑ विधेम। मा नः॑ प्र॒जाꣳ री॑रिष॒न् मोत वी॒रान्। हे॒ती रु॒द्रस्य॒ परि॑ णो वृणक्तु। आ॒र्द्रा नख्ष॑त्रं जुषताꣳ ह॒विर् नः॑। प्र॒मु॒ञ्चमा॑नौ दुरि॒तानि॒ विश्वा᳚। अपा॒घश॑ꣳसं नुदता॒मरा॑तिम्॥
उपहोमःरु॒द्राय॒ स्वाहा॒ऽऽर्द्रायै॒ स्वाहा᳚। पिन्व॑मानायै॒ स्वाहा॑ प॒शुभ्य॒स्स्वाहा᳚॥
(आर्द्रा नख्षत्रदेवतायै रुद्राय नमः)
५पुनर्वसुदेवता · अदितिः
पुन॑र् नो दे॒व्यदि॑तिस्स्पृणोतु। पुन॑र्वसू नः॒ पुन॒रेता᳚य्ँय॒ज्ञम्। पुन॑र् नो दे॒वा अ॒भिय॑न्तु॒ सर्वे᳚। पुनः॑ पुनर् वो ह॒विषा॑ यजामः। ए॒वा न दे॒व्यदि॑तिरन॒र्वा। विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा। पुन॑र्वसू ह॒विषा॑ व॒र्द्धय॑न्ती। प्रि॒यं दे॒वाना॒मप्ये॑तु॒ पाथः॑॥
उपहोमःअदि॑त्यै॒ स्वाहा॒ पुन॑र्वसुभ्याम्। स्वाहा भू᳚त्यै॒ स्वाहा॒ प्रजा᳚त्यै॒ स्वाहा᳚॥
(पुनर्वसु नख्षत्रदेवतायै अदित्यै नमः)
६पुष्यःदेवता · बृहस्पतिः
बृह॒स्पतिः॑ प्रथ॒मञ्जाय॑मानः। ति॒ष्यं॑ नख्ष॑त्रम॒भि संब॑भूव। श्रेष्ठो॑ दे॒वानां॒ पृत॑नासु जि॒ष्णुः। दिशोऽनु॒ सर्वा॒ अभ॑यन्नो अस्तु। ति॒ष्यः॑ पु॒रस्ता॑दु॒त म॑द्ध्य॒तो नः॑। बृह॒स्पति॑र् नः॒ परि॑पातु प॒श्चात्। बाधे॑तां॒ द्वेषो॒ अभ॑यं कृणुताम्। सु॒वीर्य॑स्य॒ पत॑यस्स्याम॥
उपहोमःबृह॒स्पत॑ये॒ स्वाहा॑ ति॒ष्या॑य॒ स्वाहा᳚। ब्र॒ह्म॒व॒र्च॒साय॒ स्वाहा᳚॥
(पुष्य नख्षत्रदेवतायै बृहस्पतये नमः)
७आश्रेषादेवता · सर्पाः
इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म्। आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑। ये अ॒न्तरि॑ख्षं पृथि॒वीं ख्षि॒यन्ति॑। ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः। ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः। ये दिवं॑ दे॒वीमनु॑ स॒ञ्चर॑न्ति। येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म्। तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि॥
उपहोमःस॒र्पेभ्य॒स्स्वाहा᳚ऽऽश्रे॒षाभ्य॒स्स्वाहा᳚। द॒न्द॒शूके᳚भ्य॒स्स्वाहा᳚॥
(आश्रेषा नख्षत्रदेवतायै सर्पेभ्यो नमः)
८मघादेवता · पितरः
उप॑हूताः पि॒तरो॒ ये म॒घासु॑। मनो॑जवसस्सु॒कृत॑स्सुकृ॒त्याः। ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मिष्ठाः। स्व॒धाभि॑र् य॒ज्ञं प्रय॑तं जुषन्ताम्। ये अ॑ग्निद॒ग्धा येऽन॑ग्निदग्धाः। ये॑ऽमुल्ँलो॒कं पि॒तरः॑ ख्षि॒यन्ति॑। याꣴश्च॑ वि॒द्म याꣳ उ॑ च॒ न प्र॑वि॒द्म। म॒घासु॑ य॒ज्ञꣳ सुकृ॑तं जुषन्ताम्॥
उपहोमःपि॒तृभ्य॒स्स्वाहा॑ म॒घाभ्यः॑। स्वाहा॑ऽन॒घाभ्य॒स्स्वाहा॑ऽग॒दाभ्यः॑। स्वाहा॑रुन्ध॒तीभ्य॒स्स्वाहा᳚॥
(मघा नख्षत्रदेवतायै पितृभ्यो नमः)
९पूर्वफल्गुनीदेवता · अर्यमा
गवां॒ पतिः॒ फल्गु॑नीनामसि॒ त्वम्। तद॑र्यमन् वरुण मित्र॒ चारु॑। तं त्वा॑ व॒यꣳ स॑नि॒तार॑ꣳ सनी॒नाम्। जी॒वा जीव॑न्त॒मुप॒ सव्ँवि॑शेम। येने॒मा विश्वा॒ भुव॑नानि॒ सञ्जि॑ता। यस्य॑ दे॒वा अ॑नुस॒य्ँयन्ति॒ चेतः॑। अ॒र्य॒मा राजा॒ऽजर॒स्तुवि॑ष्मान्। फल्गु॑नीनामृष॒भो रो॑रवीति॥
उपहोमःअ॒र्य॒म्णे स्वाहा॒ फल्गु॑नीभ्या॒ꣴ॒ स्वाहा᳚। प॒शुभ्य॒स्स्वाहा᳚॥
(पूर्वफल्गुनी नख्षत्रदेवतायै अर्यम्णे नमः)
१०उत्तरफल्गुनीदेवता · भगः
श्रेष्ठो॑ दे॒वानां᳚ भगवो भगासि। तत्त्वा॑ विदुः॒ फल्गु॑नी॒स्तस्य॑ वित्तात्। अ॒स्मभ्यं॑ ख्ष॒त्रम॒जर॑ꣳ सु॒वीर्य᳚म्। गोम॒दश्व॑व॒दुप॒सन्नु॑दे॒ह। भगो॑ ह दा॒ता भग॒ इत् प्र॑दा॒ता। भगो॑ दे॒वीः फल्गु॑नी॒रावि॑वेश। भग॒स्येत्तं प्र॑स॒वं ग॑मेम। यत्र॑ दे॒वैस्स॑ध॒मादं॑ मदेम॥
उपहोमःभगा॑य॒ स्वाहा॒ फल्गु॑नीभ्या॒ꣴ॒ स्वाहा᳚। श्रैष्ठ्या॑य॒ स्वाहा᳚॥
(उत्तरफल्गुनी नख्षत्रदेवतायै भगाय नमः)
११हस्तःदेवता · सविता
आया॑तु दे॒वस्स॑वि॒तोप॑यातु। हि॒र॒ण्यये॑न सु॒वृता॒ रथे॑न। वह॒न्॒हस्त॑ꣳ सु॒भग॑व्ँविद्म॒नाप॑सम्। प्र॒यच्छ॑न्तं॒ पपु॑रिं॒ पुण्य॒मच्छ॑। हस्तः॒ प्रय॑च्छत्व॒मृत॒व्ँवसी॑यः। दख्षि॑णेन॒ प्रति॑गृभ्णीम एनत्। दा॒तार॑म॒द्य स॑वि॒ता वि॑देय। यो नो॒ हस्ता॑य प्रसु॒वाति॑ य॒ज्ञम्॥
उपहोमःस॒वि॒त्रे स्वाहा॒ हस्ता॑य। स्वाहा॑ दद॒ते स्वाहा॑ पृण॒ते। स्वाहा᳚ प्र॒यच्छ॑ते॒ स्वाहा᳚ प्रतिगृभ्ण॒ते स्वाहा᳚॥
(हस्त नख्षत्रदेवतायै सवित्रे नमः)
१२चित्रादेवता · त्वष्टा
त्वष्टा॒ नख्ष॑त्रम॒भ्ये॑ति चि॒त्राम्। सु॒भꣳस॑सय्ँयुव॒तिꣳ रोच॑मानाम्। नि॒वे॒शय॑न्न॒मृता॒न् मर्त्या॑ꣴश्च। रू॒पाणि॑ पि॒ꣳ॒शन् भुव॑नानि॒ विश्वा᳚। तन्न॒स्त्वष्टा॒ तदु॑ चि॒त्रा विच॑ष्टाम्। तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म्। तन्नः॑ प्र॒जाव्ँवी॒रव॑तीꣳ सनोतु। गोभि॑र् नो॒ अश्वै॒स्सम॑नक्तु य॒ज्ञम्॥
उपहोमःत्वष्ट्रे॒ स्वाहा॑ चि॒त्रायै॒ स्वाहा᳚। चैत्रा॑य॒ स्वाहा᳚ प्र॒जायै॒ स्वाहा᳚॥
(चित्रा नख्षत्रदेवतायै त्वष्ट्रे नमः)
१३स्वातीदेवता · वायुः
वा॒युर् नख्ष॑त्रम॒भ्ये॑ति॒ निष्ट्या᳚म्। ति॒ग्मशृं॑गो वृष॒भो रोरु॑वाणः। स॒मी॒रय॒न् भुव॑ना मात॒रिश्वा᳚। अप॒ द्वेषा॑ꣳसि नुदता॒मरा॑तीः। तन्नो॑ वा॒युस्तदु॒ निष्ट्या॑ शृणोतु। तन्नख्ष॑त्रं भूरि॒दा अ॑स्तु॒ मह्य᳚म्। तन्नो॑ दे॒वासो॒ अनु॑ जानन्तु॒ काम᳚म्। यथा॒ तरे॑म दुरि॒तानि॒ विश्वा᳚॥
उपहोमःवा॒यवे॒ स्वाहा॒ निष्ट्या॑यै॒ स्वाहा᳚। का॒म॒चारा॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(स्वाती नख्षत्रदेवतायै वायवे नमः)
१४विशाखादेवता · इन्द्राग्नी
दू॒रम॒स्मच्छत्र॑वो यन्तु भी॒ताः। तदि॑न्द्रा॒ग्नी कृ॑णुतां॒ तद् विशा॑खे। तन्नो॑ दे॒वा अनु॑मदन्तु य॒ज्ञम्। प॒श्चात् पु॒रस्ता॒दभ॑यन्नो अस्तु। नख्ष॑त्राणा॒मधि॑पत्नी॒ विशा॑खे। श्रेष्ठा॑विन्द्रा॒ग्नी भुव॑नस्य गो॒पौ। विषू॑च॒श्शत्रू॑नप॒बाध॑मानौ। अप॒ ख्षुधं॑ नुदता॒मरा॑तिम्॥
उपहोमःइ॒न्द्रा॒ग्निभ्या॒ꣴ॒ स्वाहा॒ विशा॑खाभ्या॒ꣴ॒ स्वाहा᳚। श्रैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(विशाखा नख्षत्रदेवतायै इन्द्राग्निभ्यां नमः)
१५पौर्णमासी
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता᳚त्। उन्म॑द्ध्य॒तः पौ᳚र्णमा॒सी जि॑गाय। तस्यां᳚ दे॒वा अधि॑ स॒व्ँवस॑न्तः। उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्। पृ॒थ्वी सु॒वर्चा॑ युव॒तिस्स॒जोषाः᳚। पौ॒र्ण॒मा॒स्युद॑गा॒च्छोभ॑माना। आ॒प्या॒यय॑न्ती दुरि॒तानि॒ विश्वा᳚। उ॒रुं दुहा॒य्ँयज॑मानाय य॒ज्ञम्॥
उपहोमःपौ॒र्ण॒मा॒स्यै स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚॥
(पौर्णमास्यै नमः)
१६अनूराधादेवता · मित्रः
ऋ॒द्ध्यास्म॑ ह॒व्यैर् नम॑सोप॒सद्य॑। मि॒त्रं दे॒वं मि॑त्र॒धेयं॑ नो अस्तु। अ॒नू॒रा॒धान्ह॒विषा॑ व॒र्द्धय॑न्तः। श॒तं जी॑वेम श॒रद॒स्सवी॑राः। चि॒त्रं नख्ष॑त्र॒मुद॑गात् पु॒रस्ता᳚त्। अ॒नू॒रा॒धास॒ इति॒ यद् वद॑न्ति। तन्मि॒त्र ए॑ति प॒थिभि॑र् देव॒यानैः᳚। हि॒र॒ण्ययै॒र् वित॑तैर॒न्तरि॑ख्षे॥
उपहोमःमि॒त्राय॒ स्वाहा॑ऽनूरा॒धेभ्य॒स्स्वाहा᳚। मि॒त्र॒धेया॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(अनूराधा नख्षत्रदेवतायै मित्राय नमः)
१७ज्येष्ठादेवता · इन्द्रः
इन्द्रो᳚ ज्ये॒ष्ठामनु॒ नख्ष॑त्रमेति। यस्मि॑न् वृ॒त्रव्ँवृ॑त्र॒तूर्ये॑ त॒तार॑। तस्मि॑न् व॒यम॒मृतं॒ दुहा॑नाः। ख्षुध॑न्तरेम॒ दुरि॑तिं॒ दुरि॑ष्टिम्। पु॒र॒न्द॒राय॑ वृष॒भाय॑ धृ॒ष्णवे᳚। अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚। इन्द्रा॑य ज्ये॒ष्ठा मधु॑म॒द् दुहा॑ना। उ॒रुं कृ॑णोतु॒ यज॑मानाय लो॒कम्॥
उपहोमःइन्द्रा॑य॒ स्वाहा᳚ ज्ये॒ष्ठायै॒ स्वाहा᳚। ज्यैष्ठ्या॑य॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(ज्येष्ठा नख्षत्रदेवतायै इन्द्राय नमः)
१८मूलादेवता · प्रजापतिः
मूलं॑ प्र॒जाव्ँवी॒रव॑तीव्ँविदेय। परा᳚च्येतु॒ निर्ऋ॑तिः परा॒चा। गोभि॒र् नख्ष॑त्रं प॒शुभि॒स्सम॑क्तम्। अह॑र् भूया॒द् यज॑मानाय॒ मह्य᳚म्। अह॑र् नो अ॒द्य सु॑वि॒ते द॑धातु। मूलं॒ नख्ष॑त्र॒मिति॒ यद् वद॑न्ति। परा॑चीव्ँवा॒चा निर्ऋ॑तिं नुदामि। शि॒वं प्र॒जायै॑ शि॒वम॑स्तु॒ मह्य᳚म्॥
उपहोमःप्र॒जाप॑तये॒ स्वाहा॒ मूला॑य॒ स्वाहा᳚। प्र॒जायै॒ स्वाहा᳚॥
(मूला नख्षत्रदेवतायै प्रजापतये नमः)
१९पूर्वाषाढादेवता · आपः
या दि॒व्या आपः॒ पय॑सा संबभू॒वुः। या अ॒न्तरि॑ख्ष उ॒त पार्त्थि॑वी॒र्याः। यासा॑मषा॒ढा अ॑नु॒यन्ति॒ काम᳚म्। ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु। याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚स्समु॒द्रियाः᳚। याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः। यासा॑मषा॒ढा मधु॑ भ॒ख्षय॑न्ति। ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥
उपहोमःअ॒द्भ्यस्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा᳚। स॒मु॒द्राय॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚। अ॒भिजि॑त्यै॒ स्वाहा᳚॥
(पूर्वाषाढा नख्षत्रदेवतायै अद्भ्यो नमः)
२०उत्तराषाढादेवता · विश्वे देवाः
तन्नो॒ विश्वे॒ उप॑शृण्वन्तु दे॒वाः। तद॑षा॒ढा अ॒भि सय्ँय॑न्तु य॒ज्ञम्। तन्नख्ष॑त्रं प्रथतां प॒शुभ्यः॑। कृ॒षिर् वृ॒ष्टिर् यज॑मानाय कल्पताम्। शु॒भ्राः क॒न्या॑ युव॒तय॑स्सु॒पेश॑सः। क॒र्म॒कृत॑स्सु॒कृतो॑ वी॒र्या॑वतीः। विश्वा᳚न् दे॒वान्ह॒विषा॑ व॒र्द्धय॑न्तीः। अ॒षा॒ढाः काम॒मुप॑यान्तु य॒ज्ञम्॥
उपहोमःविश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा॑ऽषा॒ढाभ्य॒स्स्वाहा᳚। अ॒न॒प॒ज॒य्याय॒ स्वाहा॒ जित्यै॒ स्वाहा᳚॥
(उत्तराषाढा नख्षत्रदेवतायै विश्वेभ्यो देवेभ्यो नमः)
२१अभिजित्देवता · ब्रह्म
यस्मि॒न् ब्रह्मा॒ऽभ्यज॑य॒थ् सर्व॑मे॒तत्। अ॒मुञ्च॑ लो॒कमि॒दमू॑च॒ सर्व᳚म्। तन्नो॒ नख्ष॑त्रमभि॒जिद् वि॒जित्य॑। श्रियं॑ दधा॒त्वहृ॑णीयमानम्। उ॒भौ लो॒कौ ब्रह्म॑णा॒ सञ्जि॑ते॒मौ। तन्नो॒ नख्ष॑त्रमभि॒जिद् विच॑ष्टाम्। तस्मि॑न् व॒यं पृत॑ना॒स्संज॑येम। तन्नो॑ दे॒वासो॒ अनु॑जानन्तु॒ काम᳚म्॥
उपहोमःब्रह्म॑णे॒ स्वाहा॑ऽभि॒जिते॒ स्वाहा᳚। ब्र॒ह्म॒लो॒काय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(अभिजित् नख्षत्रदेवतायै ब्रह्मणे नमः)
२२श्रवणंदेवता · विष्णुः
शृ॒ण्वन्ति॑ श्रो॒णाम॒मृत॑स्य गो॒पाम्। पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म्। म॒हीं दे॒वीव्ँविष्णु॑पत्नीमजू॒र्याम्। प्र॒तीची॑मेनाꣳ ह॒विषा॑ यजामः। त्रे॒धा विष्णु॑रुरुगा॒यो विच॑क्रमे। म॒हीं दिवं॑ पृथि॒वीम॒न्तरि॑ख्षम्। तच्छ्रो॒णैति॒ श्रव॑ इ॒च्छमा॑ना। पुण्य॒ꣴ॒ श्लोक॒य्ँयज॑मानाय कृण्व॒ती॥
उपहोमःविष्ण॑वे॒ स्वाहा᳚ श्रो॒णायै॒ स्वाहा᳚। श्लोका॑य॒ स्वाहा᳚ श्रु॒ताय॒ स्वाहा᳚॥
(श्रवण नख्षत्रदेवतायै विष्णवे नमः)
२३श्रविष्टादेवता · वसवः
अ॒ष्टौ दे॒वा वस॑वस्सो॒म्यासः॑। चत॑स्रो दे॒वीर॒जरा॒श्श्रवि॑ष्ठाः। ते य॒ज्ञं पा᳚न्तु॒ रज॑सः प॒रस्ता᳚त्। सं॒व॒ँथ्स॒रीण॑म॒मृत॑ꣴ स्व॒स्ति। य॒ज्ञं नः॑ पान्तु॒ वस॑वः पु॒रस्ता᳚त्। द॒ख्षि॒ण॒तो॑ऽभिय॑न्तु॒ श्रवि॑ष्ठाः। पुण्यं॒ नख्ष॑त्रम॒भि सव्ँवि॑शाम। मा नो॒ अरा॑तिर॒घश॒ꣳ॒सा ग॑न्न्॥
उपहोमःवसु॑भ्य॒स्स्वाहा॒ श्रवि॑ष्ठाभ्य॒स्स्वाहा᳚। अग्रा॑य॒ स्वाहा॒ परी᳚त्यै॒ स्वाहा᳚॥
(श्रविष्टा नख्षत्रदेवतायै वसुभ्यो नमः)
२४शतभिषक्देवता · वरुणः
ख्ष॒त्रस्य॒ राजा॒ वरु॑णोऽधिरा॒जः। नख्ष॑त्राणाꣳ श॒तभि॑ष॒ग्वसि॑ष्ठः। तौ दे॒वेभ्यः॑ कृणुतो दी॒र्घमायुः॑। श॒तꣳ स॒हस्रा॑ भेष॒जानि॑ धत्तः। य॒ज्ञं नो॒ राजा॒ वरु॑ण॒ उप॑यातु। तन्नो॒ विश्वे॑ अ॒भिसय्ँय॑न्तु दे॒वाः। तन्नो॒ नख्ष॑त्रꣳ श॒तभि॑षग् जुषा॒णम्। दी॒र्घमायुः॒ प्रति॑रद् भेष॒जानि॑॥
उपहोमःवरु॑णाय॒ स्वाहा॑ श॒तभि॑षजे॒ स्वाहा᳚। भे॒ष॒जेभ्य॒स्स्वाहा᳚॥
(शतभिषक् नख्षत्रदेवतायै वरुणाय नमः)
२५पूर्वप्रोष्ठपदादेवता · अज एकपात्
अ॒ज एक॑पा॒दुद॑गात्पु॒रस्ता᳚त्। विश्वा॑ भू॒तानि॑ प्रति॒मोद॑मानः। तस्य॑ दे॒वाः प्र॑स॒वय्ँय॑न्ति॒ सर्वे᳚। प्रो॒ष्ठ॒प॒दासो॑ अ॒मृत॑स्य गो॒पाः। वि॒भ्राज॑मानस्समिधा॒न उ॒ग्रः। आऽन्तरि॑ख्षमरुह॒दगं॒ द्याम्। तꣳ सूर्यं॑ दे॒वम॒जमेक॑पादम्। प्रो॒ष्ठ॒प॒दासो॒ अनु॑यन्ति॒ सर्वे᳚॥
उपहोमःअ॒जायैक॑पदे॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚। तेज॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚॥
(पूर्वप्रोष्ठपदा नख्षत्रदेवतायै अजाय एकपदे नमः)
२६उत्तरप्रोष्ठपदादेवता · अहिर्बुद्ध्नियः
अहि॑र् बु॒द्ध्नियः॒ प्रथ॑मान एति। श्रेष्ठो॑ दे॒वाना॑मु॒त मानु॑षाणाम्। तं ब्रा᳚ह्म॒णास्सो॑म॒पास्सो॒म्यासः॑। प्रो॒ष्ठ॒प॒दासो॑ अ॒भि र॑ख्षन्ति॒ सर्वे᳚। च॒त्वार॒ एक॑म॒भि कर्म॑ दे॒वाः। प्रो॒ष्ठ॒प॒दास॒ इति॒ यान्वद॑न्ति। ते बु॒द्धनियं॑ परि॒षद्य॑ꣴ स्तु॒वन्तः॑। अहि॑ꣳ रख्षन्ति॒ नम॑सोप॒सद्य॑॥
उपहोमःअह॑ये बु॒द्ध्निया॑य॒ स्वाहा᳚ प्रोष्ठप॒देभ्य॒स्स्वाहा᳚। प्र॒ति॒ष्ठायै॒ स्वाहा᳚॥
(उत्तरप्रोष्ठपदा नख्षत्रदेवतायै अहये बुद्ध्नियाय नमः)
२७रेवतीदेवता · पूषा
पू॒षा रे॒वत्यन्वे॑ति॒ पन्था᳚म्। पु॒ष्टि॒पती॑ पशु॒पा वाज॑बस्त्यौ। इ॒मानि॑ ह॒व्या प्रय॑ता जुषा॒णा। सु॒गैर् नो॒ यानै॒रुप॑याताय्ँय॒ज्ञम्। ख्षु॒द्रान् प॒शून् र॑ख्षतु रे॒वती॑ नः। गावो॑ नो॒ अश्वा॒ꣳ॒ अन्वे॑तु पू॒षा। अन्न॒ꣳ॒ रख्ष॑न्तौ बहु॒धा विरू॑पम्। वाज॑ꣳ सनुता॒य्ँयज॑मानाय य॒ज्ञम्॥
उपहोमःपू॒ष्णे स्वाहा॑ रे॒वत्यै॒ स्वाहा᳚। प॒शुभ्य॒स्स्वाहा᳚॥
(रेवती नख्षत्रदेवतायै पूष्णे नमः)
२८अश्विनीदेवता · अश्विनौ
तद॒श्विना॑वश्व॒युजोप॑याताम्। शुभ॒ङ्गमि॑ष्ठौ सु॒यमे॑भि॒रश्वैः᳚। स्वं नख्ष॑त्रꣳ ह॒विषा॒ यज॑न्तौ। मद्ध्वा॒ संपृ॑क्तौ॒ यजु॑षा॒ सम॑क्तौ। यौ दे॒वानां᳚ भि॒षजौ॑ हव्यवा॒हौ। विश्व॑स्य दू॒ताव॒मृत॑स्य गो॒पौ। तौ नख्ष॑त्रंजुजुषा॒णोप॑याताम्। नमो॒ऽश्विभ्यां᳚ कृणुमोऽश्व॒युग्भ्या᳚म्॥
उपहोमःअ॒श्विभ्या॒ꣴ॒ स्वाहा᳚ऽश्व॒युग्भ्या॒ꣴ॒ स्वाहा᳚। श्रोत्रा॑य॒ स्वाहा॒ श्रुत्यै॒ स्वाहा᳚॥
(अश्विनी नख्षत्रदेवतायै अश्विभ्यां नमः)
२९अपभरणीदेवता · यमः
अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु। तद् य॒मो राजा॒ भग॑वा॒न्॒विच॑ष्टाम्। लो॒कस्य॒ राजा॑ मह॒तो म॒हान्हि। सु॒गं नः॒ पन्था॒मभ॑यं कृणोतु। यस्मि॒न् नख्ष॑त्रे य॒म एति॒ राजा᳚। यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः। तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम। अप॑ पा॒प्मानं॒ भर॑णीर् भरन्तु॥
उपहोमःय॒माय॒ स्वाहा॑ऽप॒भर॑णीभ्य॒स्स्वाहा᳚। रा॒ज्याय॒ स्वाहा॒ऽभिजि॑त्यै॒ स्वाहा᳚॥
(अपभरणी नख्षत्रदेवतायै यमाय नमः)
३०अमावास्या
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑ना॒व्ँविश्वा॑ रू॒पाणि॒ वसू᳚न्यावे॒शय॑न्ती। स॒ह॒स्र॒पो॒षꣳ सु॒भगा॒ ररा॑णा॒ सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना॥ यत्ते॑ दे॒वा अद॑धुर् भाग॒धेय॒ममा॑वास्ये स॒व्ँवस॑न्तो महि॒त्वा। सा नो॑ य॒ज्ञं पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीरं᳚॥
उपहोमःअ॒मा॒वा॒स्या॑यै॒ स्वाहा॒ कामा॑य॒ स्वाहाऽऽग॑त्यै॒ स्वाहा᳚॥
(अमावास्यै नमः)
३१चन्द्रमाः
नवो॑नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा॑मे॒त्यग्रे᳚। भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन् प्र च॒न्द्रमा᳚स्तिरति दी॒र्घमायुः॑॥ यमा॑दि॒त्या अ॒ꣳ॒शुमा᳚प्या॒यय॑न्ति॒ यमख्षि॑त॒मख्षि॑तयः॒ पिब॑न्ति। तेन॑ नो॒ राजा॒ वरु॑णो॒ बृह॒स्पति॒ राप्या॑ययन्तु॒ भुव॑नस्य गो॒पाः॥
उपहोमःच॒न्द्रम॑से॒ स्वाहा᳚ प्रती॒दृश्या॑यै॒ स्वाहा᳚। अ॒हो॒रा॒त्रेभ्य॒स्स्वाहा᳚ऽर्द्धमा॒सेभ्य॒स्स्वाहा᳚। मासे᳚भ्य॒स्स्वाह॒र्तुभ्य॒स्स्वाहा᳚। सं॒व॒ँथ्स॒राय॒ स्वाहा᳚॥
(चन्द्रमसे नमः)
३२अहोरात्रे
ये विरू॑पे॒ सम॑नसा स॒व्ँव्यय॑न्ती। स॒मा॒नं तन्तुं॑ परि तात॒नाते᳚। वि॒भू प्र॒भू अ॑नु॒भू वि॒श्वतो॑ हुवे। ते नो॒ नख्ष॑त्रे॒ हव॒माग॑मेतम्। व॒यं दे॒वी ब्रह्म॑णा सव्ँविदा॒नाः। सु॒रत्ना॑सो दे॒ववी॑तिं॒ दधा॑नाः। अ॒हो॒रा॒त्रे ह॒विषा॑ व॒र्द्धय॑न्तः। अति॑ पा॒प्मान॒मति॑मुक्त्या गमेम॥
उपहोमःअह्ने॒ स्वाहा॒ रात्रि॑यै॒ स्वाहा᳚। अति॑मुक्त्यै॒ स्वाहा᳚॥
(अहोरात्राभ्यां नमः)
३३उषाः
प्रत्यु॑व दृश्याय॒ती। व्यु॒च्छन्ती॑ दुहि॒ता दि॒वः। अ॒पो म॒ही वृ॑णुते॒ चख्षु॑षा। तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚। उदु॒स्त्रिया᳚स्सचते॒ सूर्यः॑। सचा॑ उ॒द्यन्नख्ष॑त्रमर्चि॒मत्। तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च। सं भ॒क्तेन॑ गमेमहि॥
उपहोमःउ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहा᳚। व्यू॒षुष्यै॒ स्वाहा᳚ व्यु॒च्छन्त्यै॒ स्वाहा᳚। व्यु॑ष्टायै॒ स्वाहा᳚॥
(उषसे नमः)
३४नक्षत्रम्
तन्नो॒ नख्ष॑त्रमर्चि॒मत्। भा॒नु॒मत्तेज॑ उ॒च्चर॑त्। उप॑ य॒ज्ञमि॒हाग॑मत्। प्र नख्ष॑त्राय दे॒वाय॑। इन्द्रा॒येन्दु॑ꣳ हवामहे। स न॑स्सवि॒ता सु॑वथ् स॒निम्। पु॒ष्टि॒दाव्ँवी॒रव॑त्तमम्॥
उपहोमःनख्ष॑त्राय॒ स्वाहो॑देष्य॒ते स्वाहा᳚। उ॒द्य॒ते स्वाहोदि॑ताय॒ स्वाहा᳚। हर॑से॒ स्वाहा॒ भर॑से॒ स्वाहा᳚। भ्राज॑से॒ स्वाहा॒ तेज॑से॒ स्वाहा᳚। तप॑से॒ स्वाहा᳚ ब्रह्मवर्च॒साय॒ स्वाहा᳚॥
(नख्षत्राय नमः)
३५सूर्यः
उदु॒ त्यं जा॒तवे॑दसं दे॒वव्ँव॑हन्ति के॒तवः॑। दृ॒शे विश्वा॑य॒ सूर्य᳚म्॥ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चख्षु॑र् मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑ख्ष॒ꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॥
उपहोमःसूर्या॑य॒ स्वाहा॒ नख्ष॑त्रेभ्य॒स्स्वाहा᳚। प्र॒ति॒ष्ठायै॒ स्वाहा᳚॥
(सूर्याय नमः)
३६अदितिः
अदि॑तिर् न उरुष्य॒त्वदि॑ति॒श्शर्म॑ यच्छतु। अदि॑तिः पा॒त्वꣳ ह॑सः॥ म॒हीमू॒ षु मा॒तर॑ꣳ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒ मव॑से हुवेम। तु॒वि॒ख्ष॒त्राम॒जर॑न्तीमुरू॒चीꣳ सु॒शर्मा॑ण॒मदि॑तिꣳ सु॒प्रणी॑तिम्॥
उपहोमःअदि॑त्यै॒ स्वाहा᳚ प्रति॒ष्ठायै॒ स्वाहा᳚॥
(अदित्यै नमः)
३७विष्णुः
इ॒दव्ँविष्णु॒र् वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम्। समू॑ढमस्य पाꣳसु॒रे॥ प्रतद्विष्णु॑स्स्तवते वी॒र्या॑य। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः। यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑ख्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚॥
उपहोमःविष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚। प्र॒ति॒ष्ठायै॒ स्वाहा᳚॥
(विष्णवे नमः)
३८अग्निः
अ॒ग्निर् मू॒र्द्धा दि॒वः क॒कुत् पतिः॑ पृथि॒व्या अ॒यम्। अ॒पाꣳ रेता॑ꣳसि जिन्वति॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑। दि॒वि मू॒र्द्धानं॑ दधिषे सुव॒र्॒षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म्॥
(अग्नये नमः)
३९अनुमतिः
अनु॑ नो॒ऽद्यानु॑मतिर् य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मयः॑॥ अन्विद॑नुमते॒ त्वं मन्या॑सै॒ शं च॑ नः कृधि। क्रत्वे॒ दख्षा॑य नो हिनु॒ प्र ण॒ आयू॑ꣳषि तारिषः॥
(अनुमत्यै नमः)
४०हव्यवाहः (अग्निः)
ह॒व्य॒वाह॑मभिमाति॒षाह᳚म्। र॒ख्षो॒हणं॒ पृत॑नासु जि॒ष्णुम्। ज्योति॑ष्मन्तं॒ दीद्य॑तं॒ पुर॑न्धिम्। अ॒ग्निꣴ स्वि॑ष्ट॒कृत॒माहु॑वेम॥ स्वि॑ष्टमग्ने अ॒भितत् पृ॑णाहि। विश्वा॑ देव॒ पृत॑ना अ॒भिष्य। उ॒रुन्नः॒ पन्थां᳚ प्रदि॒शन् विभा॑हि। ज्योति॑ष्मद्धेह्य॒ जर॑न्न॒ आयुः॑॥
(अग्नये नमः) नख्षत्रदेवताभ्यो नमः॥
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
१.३७
सुरभिमत्यः, अब्लिङ्गाः
द॒धि॒क्राव्ण्णो॑ अकारिषम्। जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त् प्र ण॒ आयू॑ꣳषि तारिषत्। आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चख्ष॑से। यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑। तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥
१.३८
वरुणसूक्तम्
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मव्ँवि म॑द्ध्य॒मꣴ श्र॑थाय। अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॥
अस्त॑भ्ना॒द्यामृ॑ष॒भो अ॒न्तरि॑ख्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑॥
यत् किञ्चे॒दव्ँव॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या᳚श्चरा॑मसि। अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः॥
कि॒त॒वासो॒ यद् रि॑रि॒पुर् न दी॒वि यद् वा॑ घा स॒त्य मु॒तयन्न वि॒द्म। सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑॥
अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑। ख्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑ꣳसि शिश्रथः कृ॒तानि॑॥
तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्र मो॑षीः॥
१.३९
पवमानसूक्तम्
हिर॑ण्यवर्णा॒श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑। अ॒ग्निय्ँया गर्भं॑ दधि॒रे विरू॑पा॒स्तान॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥ यासा॒ꣳ॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्। म॒धु॒श्चुत॒श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒ख्षय्ँया अ॒न्तरि॑ख्षे बहु॒धा भव॑न्ति। याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आप॒श्शꣴ स्यो॒ना भ॑वन्तु॥ शि॒वेन॑ मा॒ चख्षु॑षा पश्यताऽऽपश्शि॒वया॑ त॒नुवोप॑स्पृशत॒ त्वचं॑ मे। सर्वा॑ꣳ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ निध॑त्त॥ यद॒दस्सं॑प्रय॒तीरहा॒वन॑दता ह॒ते। तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः॥ यत् प्रेषि॑ता॒ वरु॑णेन॒ ताश्शीभ॑ꣳ स॒मव॑ल्गत। तदा᳚प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन॥ अ॒प॒का॒मꣴ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक᳚म्। इन्द्रो॑ व॒श्शक्ति॑भिर् देवी॒स्तस्मा॒द् वार् णाम॑ वो हि॒तम्॥ एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना यथा व॒शम्। उदा॑निषुर् म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत् ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न्॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पय्ँय॒दा वः॑॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चख्ष॑से॥ यो व॑श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥ तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ ख्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥ दि॒वि श्र॑यस्वा॒न्तरि॑ख्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा॥
पव॑मान॒स्सुव॒र्जनः॑। प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा। पु॒नन्तु॑ मा देवज॒नाः। पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्व॑ आ॒यवः॑। जात॑वेदः प॒वित्र॑वत्। प॒वित्रे॑ण पुनाहि मा। शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतू॒ꣳ॒रनु॑॥ यत्ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनीमहे। उ॒भाभ्यां᳚ देव सवितः। प॒वित्रे॑ण स॒वेन॑ च। इ॒दं ब्रह्म॑ पुनीमहे। वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त्। यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तस्सध॒माद्ये॑षु। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु। वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः। द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः। ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्। बृ॒हद्भि॑स्सवित॒स्तृभिः॑। वर्षि॑ष्ठैर् देव॒ मन्म॑भिः। अग्ने॒ दख्षैः᳚ पुनाहि मा। येन॑ दे॒वा अपु॑नत। येनापो॑ दि॒व्यङ्कशः॑। तेन॑ दि॒व्येन॒ ब्रह्म॑णा। इ॒दं ब्रह्म॑ पुनीमहे। यः पा॑वमा॒नीर॒द्ध्येति॑। ऋषि॑भि॒स्संभृ॑त॒ꣳ॒ रस᳚म्। सर्व॒ꣳ॒ स पू॒तम॑श्ञाति। स्व॒दि॒तं मा॑त॒रिश्व॑ना। पा॒व॒मा॒नीर्यो अ॒द्ध्येति॑। ऋषि॑भि॒स्संभृ॑त॒ꣳ॒ रस᳚म्। तस्मै॒ सर॑स्वती दुहे। ख्षी॒रꣳ स॒र्पिर् मधू॑द॒कम्। पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः॥ सु॒दुघा॒ हि पय॑स्वतीः। ऋषि॑भि॒स्संभृ॑तो॒ रसः॑। ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। पा॒व॒मा॒नीर् दि॑शन्तु नः। इ॒मल्ँलो॒कमथो॑ अ॒मुम्। कामा॒न्थ् सम॑र्द्धयन्तु नः। दे॒वीर् दे॒वैस्स॒माभृ॑ताः। पा॒व॒मा॒नीस्स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॑त॒श्चुतः॑। ऋषि॑भि॒स्संभृ॑तो॒ रसः॑॥ ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पु॒नते॒ सदा᳚। तेन॑ स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा। प्रा॒जा॒प॒त्यं प॒वित्र᳚म्। श॒तोद्या॑मꣳ हिर॒ण्मय᳚म्। तेन॑ ब्रह्म॒विदो॑ व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे। इन्द्र॑स्सुनी॒ती स॒ह मा॑ पुनातु। सोम॑स्स्व॒स्त्या वरु॑णस्स॒मीच्या᳚। य॒मो राजा᳚ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु। भूर्भुव॒स्सुवः॑॥
तच्छ॒य्ँयोरावृ॑णीमहे। गा॒तुय्ँय॒ज्ञाय॑। गा॒तुय्ँय॒ज्ञप॑तये। दैवी᳚ स्व॒स्तिर॑स्तु नः। स्व॒स्तिर् मानु॑षेभ्यः। ऊ॒र्द्ध्वं जि॑गातु भेष॒जम्। शन्नो॑ अस्तु द्वि॒पदे᳚। शं चतु॑ष्पदे॥
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
उत्तराङ्गम्
२.१
आयुष्यसूक्तम्
यो ब्रह्मा ब्रह्मण उ॑ज्जहा॒र प्रा॒णैश्शि॒रः कृत्तिवासाः᳚ पिना॒की। ईशानो देवस्स न आयु॑र्दधा॒तु॒ तस्मै जुहोमि हविषा॑ घृते॒न॥
विभ्राजमानस्सरिर॑स्य म॒ध्या॒द्रो॒च॒मा॒नो घर्मरुचि॑र्य आ॒गात्। स मृत्युपाशानपनु॑द्य घो॒रा॒नि॒हा॒यु॒षे॒णो घृतम॑त्तु दे॒वः॥
ब्रह्मज्योतिर्ब्रह्मपत्नी॑षु ग॒र्भं॒ य॒मा॒द॒धात्पुरुरूप॑ञ्जय॒न्तम्। सुवर्णरम्भग्रहम॑र्कम॒र्च्य॒न्त॒मा॒यु॒षे वर्धयामो॑ घृते॒न॥
श्रियं लख्ष्मीमौबलामम्बिका॒ङ्गां॒ ष॒ष्ठीञ्च या॒मिन्द्रसेने᳚त्युदा॒हुः। तां विद्याम्ब्रह्मयोनि॑ꣳ सरू॒पा॒मि॒हा॒यु॒षे तर्पयामो॑ घृते॒न॥
दाख्षायण्यस्सर्वयोन्य॑स्सुयो॒न्य॒स्स॒ह॒स्र॒शो विश्वरूपा॑ विरू॒पाः। ससूनवस्सपतय॑स्सयू॒थ्या॒ आ॒यु॒षे॒णो घृतमिद॑ञ्जुष॒न्ताम्॥
दिव्या गणा बहुरूपाः᳚ पुरा॒णा॒ आयुश्छिदो नः प्रमथ्न॑न्तु वी॒रान्। तेभ्यो जुहोमि बहुधा॑ घृते॒न॒ मा॒ नः॒ प्र॒जाꣳ रीरिषो मो॑त वी॒रान्॥
ए॒कः॒ पु॒र॒स्ताद् य इद॑म्बभू॒व॒ यतो बभूव भुवन॑स्य गो॒पाः। यमप्येति भुवनꣳ सा᳚म्परा॒ये॒ स नो हविर्घृतमिहायुषे᳚ऽत्तु दे॒वः॥
व॒सू॒न्रुद्रा॑नादि॒त्यान्मरुतो॑ऽथ सा॒ध्या॒न् ऋ॑भून् य॒ख्षा॒न्गन्धर्वाꣴश्च पितॄꣴश्च वि॒श्वान्। भृगून् सर्पाꣴश्चाङ्गिरसो॑ऽथ स॒र्वा॒न्घृ॒त॒ꣳ हु॒त्वा स्वायुष्या महया॑म श॒श्वत्॥
२.२
परिधानीया
नमो॒ ब्रह्म॑णे॒ नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि॥
विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य। प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्सं॑ दुह्रते॒ अख्षि॑तम्॥
आ॒भिर् गी॒र्भिर् यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्द्ध॑मानः। य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम॥ ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत्॥
॥ ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
२.३
प्रोक्षणमन्त्राः
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो᳚र् बा॒हुभ्या᳚म्। पू॒ष्णो हस्ता᳚भ्याम्। अ॒श्विनो॒र् भैष॑ज्येन। तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो᳚र् बा॒हुभ्या᳚म्। पू॒ष्णो हस्ता᳚भ्याम्। सर॑स्वत्यै॒ भैष॑ज्येन। वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो᳚र् बा॒हुभ्या᳚म्। पू॒ष्णो हस्ता᳚भ्याम्। इन्द्र॑स्येन्द्रि॒येण॑। श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि॥
तै.सं. १.७.१०.३ (प्रयोगः तै.ब्रा. १.३.८.३–४)
सोम॒ꣳ॒ राजा॑न॒व्ँवरु॑णम॒ग्निम॒न्वार॑भामहे। आ॒दि॒त्यान् विष्णु॒ꣳ॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति᳚म्॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒ꣳ॒ सर॑स्वत्यै वा॒चो य॒न्तुर् य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चामि॥
चर॑णं प॒वित्र॒व्ँवित॑तं पुरा॒णम्। येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑। तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ताः। अति॑ पा॒प्मान॒मरा॑तिं तरेम॥ लो॒कस्य॒ द्वार॑मर्चि॒मत् प॒वित्र᳚म्। ज्योति॑ष्म॒द् भ्राज॑मानं॒ मह॑स्वत्। अ॒मृत॑स्य॒ धारा॑ बहु॒धा दोह॑मानम्। चर॑णं नो लो॒के सुधि॑तां दधातु॥
आशा᳚स्ते॒ऽयय्ँयज॑मानो॒ऽसौ॥ आयु॒राशा᳚स्ते। सु॒प्र॒जा॒स्त्वमाशा᳚स्ते। स॒जा॒त॒व॒न॒स्यामाशा᳚स्ते। उत्त॑रां देवय॒ज्यामाशा᳚स्ते। भूयो॑ हवि॒ष्कर॑ण॒माशा᳚स्ते। दि॒व्यं धामाशा᳚स्ते। विश्वं॑ प्रि॒यमाशा᳚स्ते। यद॒नेन॑ ह॒विषाऽऽशा᳚स्ते। तद॑श्या॒त् तदृ॑द्ध्यात्। तद॑स्मै दे॒वा रा॑सन्ताम्। तद॒ग्निर् दे॒वो दे॒वेभ्यो॒ वन॑ते। व॒यम॒ग्नेर् मानु॑षाः। इ॒ष्टं च॑ वी॒तं च॑। उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अꣳह॑सस्पाताम्। इ॒ह गति॑र् वा॒मस्ये॒दं च॑। नमो॑ दे॒वेभ्यः॑॥
२.४
प्राशनमन्त्राः
द्रु॒प॒दादि॑व मुञ्चतु॥ द्रु॒प॒दादि॒वेन् मु॑मुचा॒नः। स्वि॒न्नस्स्ना॒त्वी मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्य᳚म्। आप॑श्शुन्धन्तु॒ मैन॑सः॥ उद्व॒यं तम॑स॒स्परि॑। पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य᳚म्। अग॑न्म॒ ज्योति॑रुत्त॒मम्॥ प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑। प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑॥
ऋ.वे. १०.१३७.६
आप॒ इद्वा उ॑ भेष॒जीः। आपो॑ अमीव॒चात॑नीः। आप॒स्सर्व॑स्य भेष॒जी। तास्ते॑ कृण्वन्तु भेष॒जम्॥
आ॒म॒या॒वी चि॑न्वीत। आपो॒ वै भे॑ष॒जम्। भे॒ष॒जमे॒वास्मै॑ करोति। सर्व॒मायु॑रेति॥